Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.73

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.73.1

ततो हतान् राक्षसपुङ्गवांस्तान्
देवान्तकादित्रिशिरोऽतिकायान्।
रक्षोगणास्तत्र हतावशिष्टा-
स्ते रावणाय त्वरिताः शशंसुः ॥ ६.७३.१ ॥

そこで殺された勇猛なラークシャサたち——デーヴァーンタカ、トリシラス、アティカーヤなど——の残りのラークシャサの群れは、急いでラーヴァナのもとへ行き報告した。

6.73.2

ततो हतांस्तान् सहसा निशम्य
राजा महाबाष्पपरिप्लुताक्षः।
पुत्रक्षयं भ्रातृवधं च घोरं
विचिन्त्य राजा विपुलं प्रदध्यौ ॥ ६.७३.२ ॥

彼らが殺されたことを突然聞いて、王の目は大粒の涙であふれた。息子たちの死と兄弟の殺害というおぞましい事態を思い、王は深く思いに沈んだ。

6.73.3

ततस्तु राजानमुदीक्ष्य दीनं
शोकार्णवे सम्परिपुप्लुवानम्।
रथर्षभो राक्षसराजसूनु-
स्तमिन्द्रजिद् वाक्यमिदं बभाषे ॥ ६.७३.३ ॥

そこで、悲嘆の大海に沈み、打ちひしがれた王を見て、戦車兵の中の最上の者であり羅刹王の息子であるインドラジットは、このように言った。

6.73.4

न तात मोहं परिगन्तुमर्हसे
यत्रेन्द्रजिज्जीवति नैर्ऋतेश।
नेन्द्रारिबाणाभिहतो हि कश्चित्
प्राणान् समर्थः समरेऽभिपातुम् ॥ ६.७३.४ ॥

父上、迷いに陥ってはなりません。インドラジットが生きている限り、羅刹の主よ、インドラの敵の矢に射られた者が戦場で命を奪うことなどできません。

6.73.5

पश्याद्य रामं सह लक्ष्मणेन
मद्बाणनिर्भिन्नविकीर्णदेहम्।
गतायुषं भूमितले शयानं
शितैः शरैराचितसर्वगात्रम् ॥ ६.७३.५ ॥

今日見よ、ラーマとラクシュマナが、私の矢に貫かれ散乱した身体で、命を失い、鋭い矢に全身を覆われて地面に横たわっているのを。

6.73.6

इमां प्रतिज्ञां शृणु शक्रशत्रोः
सुनिश्चितां पौरुषदैवयुक्ताम्।
अद्यैव रामं सह लक्ष्मणेन
संतर्पयिष्यामि शरैरमोघैः ॥ ६.७३.६ ॥

インドラの敵は言った。人の努力と運命に結ばれた、私のこの確固たる誓いを聞け。今日のうちに、ラクシュマナと共にラーマを外れぬ矢で満足させよう。

6.73.7

अद्येन्द्रवैवस्वतविष्णुरुद्र-
साध्याश्च वैश्वानरचन्द्रसूर्याः।
द्रक्ष्यन्ति मे विक्रममप्रमेयं
विष्णोरिवोग्रं बलियज्ञवाटे ॥ ६.७३.७ ॥

今日、インドラ、ヴァイヴァスヴァタ(ヤマ)、ヴィシュヌ、ルドラ、サーディヤ神群、アグニ、月と太陽は、私の計り知れぬ武勇を目にするだろう。バリの祭場で見られたヴィシュヌの猛き武勇のように。

6.73.8

स एवमुक्त्वा त्रिदशेन्द्रशत्रु-
रापृच्छ्य राजानमदीनसत्त्वः।
समारुरोहानिलतुल्यवेगं
रथं खरश्रेष्ठसमाधियुक्तम् ॥ ६.७३.८ ॥

こう言って、神々の主の敵は、怯むことなき勇気をもって王に別れを告げ、風のように速く、優れたロバに牽かれた戦車に登った。

6.73.9

समास्थाय महातेजा रथं हरिरथोपमम्।
जगाम सहसा तत्र यत्र युद्धमरिंदमः ॥ ६.७३.९ ॥

大いなる輝きを持つ、敵を制する者は、インドラの戦車に似た戦車に乗り、たちまち戦いの行われている場所へ向かった。

6.73.10

तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः।
संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥ ६.७३.१० ॥

出立する大いなる心の人の後には、多くの大力の勇士たちが喜び勇んで、手に優れた弓を携えて従った。

6.73.11

गजस्कन्धगताः केचित् केचित् परमवाजिभिः।
व्याघ्रवृश्चिकमार्जारखरोष्ट्रैश्च भुजङ्गमैः ॥ ६.७३.११ ॥

象の肩に乗る者、優れた馬に乗る者もあり、虎、蠍、猫、驢馬、駱駝、蛇に乗る者もいた。

6.73.12

वराहैः श्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः।
काकहंसमयूरैश्च राक्षसा भीमविक्रमाः ॥ ६.७३.१२ ॥

恐ろしい武勇を持つ羅刹たちは、猪、猛獣、獅子、山犬、山のような生き物、烏、白鳥、孔雀に乗っていた。

6.73.13

प्रासपट्टिशनिस्त्रिंशपरश्वधगदाधराः।
भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधाः ॥ ६.७३.१३ ॥

槍、パッティシャ、剣、斧、棍棒を携え、ブシュンディ、鉄槌、杖、シャタグニー、鉄の棍を武器として持つ者たち。

6.73.14

स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निःस्वनैः।
जगाम त्रिदशेन्द्रारिराजिं वेगेन वीर्यवान् ॥ ६.७३.१४ ॥

法螺貝の音と太鼓の響きに満ちる中、勇猛な彼はインドラの敵の軍勢へと疾く進んだ。

6.73.15

स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः।
रराज प्रतिपूर्णेन नभश्चन्द्रमसा यथा ॥ ६.७३.१५ ॥

法螺貝や月のように白い満ちた傘の下、敵を滅ぼす者は空の満月のように輝いた。

6.73.16

वीज्यमानस्ततो वीरो हैमैर्हेमविभूषणः।
चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ ६.७३.१६ ॥

黄金の装身具で飾られた勇士は、美しい金の払子で扇がれていた。彼はすべての弓射手の中で第一人者であった。

6.73.17

स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्।
राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत् ॥ ६.७३.१७ ॥

大軍に囲まれて出て行く彼を見て、羅刹の王である輝かしきラーヴァナは息子に語った。

6.73.18

त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः।
किं पुनर्मानुषं धृष्यं निहनिष्यसि राघवम् ॥ ६.७३.१८ ॥

息子よ、お前は並ぶ者なき戦車の勇士だ。お前はヴァーサヴァ(インドラ)をさえ打ち破った。ましてや、あの傲慢な人間ラーガヴァを、お前は必ず討つであろう。

6.73.19

तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णान्महाशिषः।
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ॥ ६.७३.१९ ॥

羅刹王にこのように言われ、彼は大いなる祝福を受けた。すると太陽のごとき輝きのインドラジットが、ラーンカーを……

6.73.20

रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता।
स सम्प्राप्य महातेजा युद्धभूमिमरिंदमः ॥ ६.७३.२० ॥

比類なき勇気によって、輝く太陽に照らされた空のように彼は輝いた。大いなる光輝を持つ敵の征服者は戦場に到着した。

6.73.21

स्थापयामास रक्षांसि रथं प्रति समन्ततः।
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ॥ ६.७३.२१ ॥

彼はすべての方角に戦車の周りの羅刹を配置した。それから火のように輝く彼は、供物を食らう火神に……

6.73.22

जुहुवे राक्षसश्रेष्ठो विधिवन्मन्त्रसत्तमैः।
स हविर्लाजसत्कारैर्माल्यगन्धपुरस्कृतैः ॥ ६.७३.२२ ॥

羅刹の最上の者は、規定どおり最上の真言をもって供養を行った。供物、炒り米、敬意、花環、香を捧げて……

6.73.23

जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान्।
शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः ॥ ६.७३.२३ ॥

そこで威力ある羅刹王は火に供物を捧げた。武器、矢羽、供物の薪、そして毘毗陀迦の木を。

6.73.24

लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा।
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ॥ ६.७३.२४ ॥

赤い衣と黒い鉄のスルヴァ(祭杓)も用意し、そこで火を周囲に広げ、矢羽のついた矢と投槍とともに。

6.73.25

छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः।
सकृदेव समिद्धस्य विधूमस्य महार्चिषः ॥ ६.७३.२५ ॥

黒い色の山羊の喉を生きているうちに掴んだ。ただ一度で燃え上がった、煙のない大きな炎の中で。

6.73.26

बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन्।
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः ॥ ६.७३.२६ ॥

勝利を示すそのしるしが現れた。火は右回りに渦を巻き、熱せられた黄金のように輝いた。

6.73.27

हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः।
सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविशारदः ॥ ६.७३.२७ ॥

火神自らが立ち上がってその供物を受け取った。そして武器に通じた彼は、ブラフマーの武器を呼び出した。

6.73.28

धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्।
तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके।
सार्कग्रहेन्दुनक्षत्रं वितत्रास नभस्थलम् ॥ ६.७३.२८ ॥

そこで彼は弓、自分の戦車、そのすべてを真言で清めた。武器が呼び出され、火に供物が注がれると、太陽・惑星・月・星宿とともに空が震えた。

6.73.29

स पावकं पावकदीप्ततेजा
हुत्वा महेन्द्रप्रतिमप्रभावः।
सचापबाणासिरथाश्वसूतः
खेऽन्तर्दधेऽऽत्मानमचिन्त्यवीर्यः ॥ ६.७३.२९ ॥

火のように輝く威光と、インドラに匹敵する力を持つ彼は、火に供物を捧げた後、弓・矢・剣・戦車・馬・御者とともに、不可思議な武勇をもって空中に姿を消した。

6.73.30

ततो हयरथाकीर्णं पताकाध्वजशोभितम्।
निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ॥ ६.७३.३० ॥

そこで馬と戦車に満ち、旗と幟で飾られた羅刹の軍勢は、戦いを求めて咆哮しながら出陣した。

6.73.31

ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृतैः।
तोमरैरङ्कुशैश्चापि वानराञ्जघ्नुराहवे ॥ ६.७३.३१ ॥

彼らは多くの色彩豊かで鋭く速い、飾られた矢や、投げ槍と鉤の棒で、戦場で猿軍を打った。

6.73.32

रावणिस्तु सुसंक्रुद्धस्तान् निरीक्ष्य निशाचरान्।
हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया ॥ ६.७३.३२ ॥

しかしラーヴァナの子は激怒し、その夜を歩む者たちを見て言った。「喜んで、猿どもを殺す望みをもって戦え。」

6.73.33

ततस्ते राक्षसाः सर्वे गर्जन्तो जयकांक्षिणः।
अभ्यवर्षंस्ततो घोरं वानरान् शरवृष्टिभिः ॥ ६.७३.३३ ॥

そこで勝利を望む羅刹たちは皆吠え立て、猿たちの上に恐ろしい矢の雨を降らせた。

6.73.34

स तु नालीकनाराचैर्गदाभिर्मुसलैरपि।
रक्षोभिः संवृतः संख्ये वानरान् विचकर्ष ह ॥ ६.७३.३४ ॥

羅刹に囲まれた彼は、戦いの中で葦の矢や鉄の矢、棍棒と鉄槌で猿たちを引きずり去った。

6.73.35

ते वध्यमानाः समरे वानराः पादपायुधाः।
अभ्यवर्षन्त सहसा रावणिं शैलपादपैः ॥ ६.७३.३५ ॥

戦いで打たれた、木を武器とする猿たちは、突然ラーヴァナの子の上に山と木々を降らせた。

6.73.36

इन्द्रजित् तु तदा क्रुद्धो महातेजा महाबलः।
वानराणां शरीराणि व्यधमद् रावणात्मजः ॥ ६.७३.३६ ॥

そのとき、偉大な輝きと大いなる力を持つラーヴァナの子インドラジットは怒り、猿たちの体を打ち砕いた。

6.73.37

शरेणैकेन च हरीन् नव पञ्च च सप्त च।
बिभेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् ॥ ६.७३.३७ ॥

怒って戦いの中、一本の矢で九匹、五匹、七匹の猿を射抜き、羅刹たちを喜ばせた。

6.73.38

स शरैः सूर्यसंकाशैः शातकुम्भविभूषणैः।
वानरान् समरे वीरः प्रममाथ सुदुर्जयः ॥ ६.७३.३८ ॥

その英雄は打ち破りがたく、太陽のように輝き黄金で飾られた矢で、戦いにおいて猿たちを滅ぼした。

6.73.39

ते भिन्नगात्राः समरे वानराः शरपीडिताः।
पेतुर्मथितसंकल्पाः सुरैरिव महासुराः ॥ ६.७३.३९ ॥

戦いで体を裂かれ、矢に苦しめられ、決意を打ち砕かれた猿たちは、神々に打ち倒された大阿修羅のように倒れた。

6.73.40

ते तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः।
अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः ॥ ६.७३.४० ॥

恐ろしい矢の光線で燃える太陽のように、猿の中の雄牛たちは激しく怒り、戦いで彼に向かって突進した。

6.73.41

ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः।
व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥ ६.७३.४१ ॥

そのとき、体を裂かれ、意識を失い、苦しみ、血にまみれた猿たちは皆、逃げ去った。

6.73.42

रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः।
नर्दन्तस्तेऽनिवृत्तास्तु समरे सशिलायुधाः ॥ ६.७३.४२ ॥

ラーマのために勇敢に戦い、命を捨てた猿たちは、吠えながら戦場で退かず、岩と武器を手に立ち続けた。

6.73.43

ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवंगमाः।
अभ्यवर्षन्त समरे रावणिं समवस्थिताः ॥ ६.७३.४३ ॥

猿たちは戦場に堅く立ち、木々や山の頂、岩を雨のようにラーヴァニ(インドラジット)へ浴びせた。

6.73.44

तं द्रुमाणां शिलानां च वर्षं प्राणहरं महत्।
व्यपोहत महातेजा रावणिः समितिंजयः ॥ ६.७३.४४ ॥

大いなる威光のラーヴァニは、戦いの勝者として、木々と岩の死をもたらす大豪雨を振り払った。

6.73.45

ततः पावकसंकाशैः शरैराशीविषोपमैः।
वानराणामनीकानि बिभेद समरे प्रभुः ॥ ६.७३.४५ ॥

そして主は、火のように、毒蛇のような矢で、戦場の猿の軍勢を貫いた。

6.73.46

अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्।
विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥ ६.७३.४६ ॥

鋭い十八本の矢でガンダマーダナを貫き、遠くに立つナラを九本の矢で射抜いた。

6.73.47

सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः।
पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ॥ ६.७३.४७ ॥

大勇の彼は、急所を貫く七本の矢でマインダを、五本の矢でガジャを戦いの中で射抜いた。

6.73.48

जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च।
सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा ॥ ६.७३.४८ ॥

彼はジャーンバヴァーンを十本の矢で、ニーラを三十本の矢で射た。同様にスグリーヴァ、リシャバ、アンガダ、ドヴィヴィダをも射た。

6.73.49

घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत् तदा।
अन्यानपि तथा मुख्यान् वानरान् बहुभिः शरैः ॥ ६.७३.४९ ॥

恐ろしく鋭い、恩寵によって授かった矢で、彼は当時彼らを息絶えさせた。同様に他の主だったヴァーナラたちをも多くの矢で倒した。

6.73.50

अर्दयामास संक्रुद्धः कालाग्निरिव मूर्च्छितः।
स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः ॥ ६.७३.५० ॥

怒りに満ち、死の火のように燃え上がって、彼は彼らを苦しめた。太陽のように輝き、よく放たれ、速く飛ぶ矢で、彼は攻め立てた。

6.73.51

वानराणामनीकानि निर्ममन्थ महारणे।
आकुलां वानरीं सेनां शरजालेन पीडिताम् ॥ ६.७३.५१ ॥

その大戦で彼はヴァーナラの軍団を打ち砕いた。矢の網に苦しめられ、混乱したヴァーナラの軍勢を、彼は押し潰した。

6.73.52

हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम्।
पुनरेव महातेजा राक्षसेन्द्रात्मजो बली ॥ ६.७३.५२ ॥

この上ない喜びに満ち、彼は(軍勢が)血にまみれているのを見た。羅刹王の子、偉大な光輝と力を持つ彼は、再び喜んだ。

6.73.53

संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्।
ममर्द वानरानीकं परितस्त्विन्द्रजिद् बली ॥ ६.७३.५३ ॥

矢の雨と恐ろしい武器の雨を降らせ、力強いインドラジットは四方から猿の軍勢を打ち砕いた。

6.73.54

स्वसैन्यमुत्सृज्य समेत्य तूर्णं
महाहवे वानरवाहिनीषु।
अदृश्यमानः शरजालमुग्रं
ववर्ष नीलाम्बुधरो यथाम्बु ॥ ६.७३.५४ ॥

自軍を離れ、大戦の中で猿の軍勢のあいだへ素早く近づき、姿を見せずに、紺青の雨雲が水を降らせるように、恐ろしい矢の網を降らせた。

6.73.55

ते शक्रजिद्बाणविशीर्णदेहा
मायाहता विस्वरमुन्नदन्तः।
रणे निपेतुर्हरयोऽद्रिकल्पा
यथेन्द्रवज्राभिहता नगेन्द्राः ॥ ६.७३.५५ ॥

インドラジットの矢に体を裂かれ、幻術に打たれて、山のような猿たちは恐ろしい叫びをあげて戦場に倒れた。インドラの雷霆に打たれた大山が倒れるように。

6.73.56

ते केवलं संददृशुः शिताग्रान्
बाणान् रणे वानरवाहिनीषु।
मायाविगूढं च सुरेन्द्रशत्रुं
न चात्र तं राक्षसमप्यपश्यन् ॥ ६.७३.५६ ॥

戦場で猿の軍勢の間に、彼らは鋭い先端の矢だけを見た。幻術に隠れた神王の敵も、その羅刹も、ここでは見ることができなかった。

6.73.57

ततः स रक्षोधिपतिर्महात्मा
सर्वा दिशो बाणगणैः शिताग्रैः।
प्रच्छादयामास रविप्रकाशै-
र्विदारयामास च वानरेन्द्रान् ॥ ६.७३.५७ ॥

そのとき、あの偉大な羅刹の主は太陽のように輝く鋭い先端の矢の群れで全方位を覆い、猿の長たちを引き裂いた。

6.73.58

स शूलनिस्त्रिंशपरश्वधानि
व्याविद्धदीप्तानलसप्रभाणि।
सविस्फुलिङ्गोज्ज्वलपावकानि
ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ॥ ६.७३.५८ ॥

彼は三叉戟、剣、戦斧を雨のように降らせた。振り回されると、それらは燃えさかる火のように輝き、火花を散らす炎のようだった。彼は猿の長たちの軍勢の上に激しく降り注いだ。

6.73.59

ततो ज्वलनसंकाशैर्बाणैर्वानरयूथपाः।
ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥ ६.७३.५९ ॥

そのとき、インドラジットの火のように燃える矢に打たれた猿の群れの長たちは、花盛りのキンシュカ樹のように見えた。

6.73.60

तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्।
राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥ ६.७३.६० ॥

互いに襲いかかり、耳障りな声で吠えながら、猿の雄牛たちは羅刹の王たちの武器に貫かれて倒れた。

6.73.61

उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः।
शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥ ६.७३.६१ ॥

空を見上げていた猿たちの中には、目を矢で射抜かれた者もいた。互いにぶつかり合う者もあり、大地に倒れる者もあった。

6.73.62

हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम्।
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ ६.७३.६२ ॥

ハヌマーン、スグリーヴァ、アンガダ、ガンダマーダナ、ジャーンバヴァーン、スシェーナ、そしてヴェーガダルシンも射られた。

6.73.63

मैन्दं च द्विविदं नीलं गवाक्षं गवयं तथा।
केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ॥ ६.७३.६३ ॥

マインダとドゥヴィヴィダ、ニーラ、ガヴァークシャ、同じくガヴァヤ、そして猿のケーサリン、ハリローマーン、ヴィドゥユッダンシュトラも射られた。

6.73.64

सूर्याननं ज्योतिर्मुखं तथा दधिमुखं हरिम्।
पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥ ६.७३.६४ ॥

スーリヤーナナ、ジョーティルムカ、ダディムカ、猿のハリ、パーヴァカークシャ、ナラ、そして猿のクムダも射られた。

6.73.65

प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः।
विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ॥ ६.७३.६५ ॥

インドラジットは呪文を込めた槍・戟・鋭い矢で、それら猿の中の虎たちをことごとく射抜いた。最勝の羅刹である。

6.73.66

स वै गदाभिर्हरियूथमुख्यान्
निर्भिद्य बाणैस्तपनीयवर्णैः।
ववर्ष रामं शरवृष्टिजालैः
सलक्ष्मणं भास्कररश्मिकल्पैः ॥ ६.७३.६६ ॥

棍棒で猿の群れの長たちを貫き、日光のような金色の矢で網のような矢の雨をラーマとラクシュマナに降り注いだ。

6.73.67

स बाणवर्षैरभिवृष्यमाणो
धारानिपातानिव तानचिन्त्य।
समीक्षमाणः परमाद्भुतश्री-
रामस्तदा लक्ष्मणमित्युवाच ॥ ६.७३.६७ ॥

矢の雨を浴びながらも、それを雨の滴ほどにも気に留めず、至上の驚嘆すべき威光を持つラーマは、そのときラクシュマナに言った。

6.73.68

असौ पुनर्लक्ष्मण राक्षसेन्द्रो
ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः।
निपातयित्वा हरिसैन्यमस्मान्-
शितैः शरैरर्दयति प्रसक्तम् ॥ ६.७३.६८ ॥

ラクシュマナよ、あの羅刹王、インドラの敵は梵天の武器に頼り、猿の軍勢を倒し、鋭い矢で絶え間なく我らを苦しめている。

6.73.69

स्वयंभुवा दत्तवरो महात्मा
समाहितोऽन्तर्हितभीमकायः।
कथं नु शक्यो युधि नष्टदेहो
निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥ ६.७३.६९ ॥

自生神ブラフマーから恩寵を受け、偉大な魂を持ち、精神を集中し、恐ろしい身を隠し、武器を振り上げたインドラジットを、身体が見えないままで、今日の戦いでどうして殺すことができようか。

6.73.70

मन्ये स्वयंभूर्भगवानचिन्त्य-
स्तस्यैतदस्त्रं प्रभवश्च योऽस्य।
बाणावपातं त्वमिहाद्य धीमन्
मया सहाव्यग्रमनाः सहस्व ॥ ६.७३.७० ॥

この武器とその源は、不可思議な尊き自生者(ブラフマー)のものだと私は思う。賢き者よ、今は私と共に、心を乱さずこの矢の雨に耐えよ。

6.73.71

प्रच्छादयत्येष हि राक्षसेन्द्रः
सर्वा दिशः सायकवृष्टिजालैः।
एतच्च सर्वं पतिताग्र्यशूरं
न भ्राजते वानरराजसैन्यम् ॥ ६.७३.७१ ॥

この羅刹王は矢の雨の網で全ての方角を覆っている。先頭の勇士たちが倒れた猿王の全軍も、今はもはや輝いていない。

6.73.72

आवां तु दृष्ट्वा पतितौ विसंज्ञौ
निवृत्तयुद्धौ हतहर्षरोषौ।
ध्रुवं प्रवेक्ष्यत्यमरारिवास-
मसौ समासाद्य रणाग्र्यलक्ष्मीम् ॥ ६.७३.७२ ॥

我らふたりが倒れ意識を失っているのを見て、戦いをやめ、喜びも怒りも失った彼は、必ずや神々の敵の住処に入り、戦いの最上の輝きを得るだろう。

6.73.73

ततस्तु ताविन्द्रजितोऽस्त्रजालै-
र्बभूवतुस्तत्र तदा विशस्तौ।
स चापि तौ तत्र विषादयित्वा
ननाद हर्षाद् युधि राक्षसेन्द्रः ॥ ६.७३.७३ ॥

そのとき、ふたりはインドラジットの武器の網によってそこで傷を負った。彼らをそこで悲嘆させたのち、羅刹王は戦いの中で喜びに吼えた。

6.73.74

ततस्तदा वानरसैन्यमेवं
रामं च संख्ये सह लक्ष्मणेन।
विषादयित्वा सहसा विवेश
पुरीं दशग्रीवभुजाभिगुप्ताम्।
संस्तूयमानः स तु यातुधानैः
पित्रे च सर्वं हृषितोऽभ्युवाच ॥ ६.७३.७४ ॥

こうして猿の軍勢と、戦場でラクシュマナと共にいるラーマを打ちのめした彼は、十頭の者(ラーヴァナ)の腕に守られた都に突然入った。羅刹たちに称えられながら、彼は喜んで父にすべてを語った。