ヴァールミーキのラーマーヤナ · サルガ 6.75
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.75.1
ततोऽब्रवीन्महातेजाः सुग्रीवो वानरेश्वरः।
अर्थ्यं विज्ञापयंश्चापि हनूमन्तमिदं वचः ॥ ६.७५.१ ॥
すると、大いなる威光を持つ猿王スグリーヴァは、ハヌマーンにこの適切な言葉を語り、その意を告げた。
6.75.2
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः।
नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥ ६.७५.२ ॥
クンバカルナは殺され、王子たちも滅ぼされた。ラーヴァナは今こそ貢ぎ物を献ずべきである。
6.75.3
ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः।
लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥ ६.७५.३ ॥
力強く素早い猿たち、跳躍する猿の中の雄牛たちは、松明を手にしてすぐにラーンカーへ突撃せよ。
6.75.4
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे।
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ६.७५.४ ॥
そして太陽が沈み、あの恐ろしい夜の入り口に、松明を持った猿の中の雄牛たちはラーンカーへ向かって進んだ。
6.75.5
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः।
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ ६.७५.५ ॥
松明を手にした猿の群れに四方から襲われ、見張りの醜い目をした羅刹たちは突然四方へ逃げ散った。
6.75.6
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च।
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ॥ ६.७५.६ ॥
歓喜に満ちて、彼らは城門、物見櫓、路地、さまざまな道、そして宮殿に火を放った。
6.75.7
तेषां गृहसहस्राणि ददाह हुतभुक् तदा।
प्रासादाः पर्वताकाराः पतन्ति धरणीतले ॥ ६.७५.७ ॥
そのとき火は彼らの幾千もの家を焼き、山のような楼閣が大地へ崩れ落ちた。
6.75.8
अगुरुर्दह्यते तत्र परं चैव सुचन्दनम्।
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम् ॥ ६.७५.८ ॥
そこでは沈香が燃え、上質の白檀も燃える。真珠、輝く宝玉、ダイヤモンド、珊瑚もまた燃えている。
6.75.9
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम्।
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् ॥ ६.७५.९ ॥
そこでは麻布や上等の絹も燃え、様々な毛織物、金の器、武器も燃えている。
6.75.10
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदम्।
गजग्रैवेयकक्ष्याश्च रथभाण्डांश्च संस्कृतान् ॥ ६.७५.१० ॥
様々な奇妙な形の馬具、象の首飾りや腹帯、整えられた戦車の装具も燃えている。
6.75.11
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च।
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः ॥ ६.७५.११ ॥
戦士の鎧、象と馬の甲冑も、剣、弓、弦と矢、投槍、象の鉤、槍も燃えている。
6.75.12
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु।
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः ॥ ६.७५.१२ ॥
毛や尾の毛、虎の皮、鳥の皮で作られた多くの皮の座、真珠や宝玉で見事に飾られた楼閣が、四方で燃えている。
6.75.13
विविधानस्त्रसंघातानग्निर्दहति तत्र वै।
नानाविधान् गृहांश्चित्रान् ददाह हुतभुक् तदा ॥ ६.७५.१३ ॥
そこで火は様々な武器の山を焼いた。そのとき供物を食らう火は、種々の見事な家々を焼き尽くした。
6.75.14
आवासान् राक्षसानां च सर्वेषां गृहगृध्नुनाम्।
हेमचित्रतनुत्राणां स्रग्भाण्डाम्बरधारिणाम् ॥ ६.७५.१४ ॥
羅刹たちの住まい。自分の家に執着し、金色で彩られた鎧を着け、花環や器や衣をまとった者たちの。
6.75.15
सीधुपानचलाक्षाणां मदविह्वलगामिनाम्।
कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् ॥ ६.७५.१५ ॥
酒に目を潤ませ、酔いにふらふらと歩き、愛する女たちに衣を引かれ、敵に対する怒りを燃え立たせている者たちの。
6.75.16
गदाशूलासिहस्तानां खादतां पिबतामपि।
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ॥ ६.७५.१६ ॥
手に棍棒・三叉戟・剣を持ち、飲食し、貴重な寝台の上で愛する者たちと眠っていた者たちの。
6.75.17
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः।
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् ॥ ६.७५.१७ ॥
怯えた者たちは息子を抱えて四方へ急いで逃げた。そのとき、ランカの住民の数十万人が。
6.75.18
अदहत् पावकस्तत्र जज्वाल च पुनः पुनः।
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ॥ ६.७५.१८ ॥
そこで火は彼らを焼き、幾度も燃え上がった。堅固で貴重、深い価値をもつものさえも焼き尽くされた。
6.75.19
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च।
तत्र चित्रगवाक्षाणि साधिष्ठानानि सर्वशः ॥ ६.७५.१९ ॥
そこには金の半月の飾りや高い月の楼閣があり、さまざまな意匠の窓と、その基壇が至る所にあった。
6.75.20
मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम्।
क्रौञ्चबर्हिणवीणानां भूषणानां च निःस्वनैः ॥ ६.७५.२० ॥
宝石と珊瑚で彩られたそれらは太陽に触れるかのようで、鶴や孔雀の鳴き声、琵琶の音、装身具の響きにこだましていた。
6.75.21
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः।
ज्वलनेन परीतानि तोरणानि चकाशिरे ॥ ६.७५.२१ ॥
その火は山のように響いていた家々を焼き尽くし、炎に囲まれた門楼が輝いた。
6.75.22
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे।
ज्वलनेन परीतानि गृहाणि प्रचकाशिरे ॥ ६.७५.२२ ॥
夏の日に稲妻に結ばれた雲のように、炎に囲まれた家々は明るく輝いた。
6.75.23
दावाग्निदीप्तानि यथा शिखराणि महागिरेः।
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ॥ ६.७५.२३ ॥
大山の峰が山火事に燃え上がるように、楼閣で眠っていた高貴な女性たちが焼かれていた。
6.75.24
त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशुः।
तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि ॥ ६.७५.२४ ॥
装身具を脱ぎ捨て、「ああ!ああ!」と声を上げて泣き叫んだ。炎に囲まれた館もまた崩れ落ちた。
6.75.25
वज्रिवज्रहतानीव शिखराणि महागिरेः।
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ॥ ६.७५.२५ ॥
インドラの雷霆に打たれた大山の峰のように、燃え盛るそれらは遠くから輝いた。
6.75.26
हिमवच्छिखराणीव दह्यमानानि सर्वशः।
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ॥ ६.७५.२६ ॥
ヒマラヤの峰々のように四方で燃え、燃えるのやぐらの上部も炎に包まれていた。
6.75.27
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः।
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि।
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ ६.७५.२७ ॥
夜、そのラṅカーは花咲くキンシュカの木のように見えた。象使いたちが放った象や馬によって、それは世界の終わりに怪魚が惑う海のようになった。
6.75.28
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद् भीतोऽपसर्पति।
भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥ ६.७५.२८ ॥
放たれた馬を見て象は怯えてどこかへ退き、怯えた象を見て馬はどこかで引き返す。
6.75.29
लङ्कायां दह्यमानायां शुशुभे च महोदधिः।
छायासंसक्तसलिलो लोहितोद इवार्णवः ॥ ६.७५.२९ ॥
ラṅカーが燃えている間、大海は輝いた。その水は映る影にまとわれ、赤い水を湛えた海のようであった。
6.75.30
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी।
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ॥ ६.७५.३० ॥
瞬く間にその都は猿たちによって火をつけられ、この世界の恐ろしい終末に燃える大地のようになった。
6.75.31
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः।
स्वनो ज्वलनतप्तस्य शुश्रुवे शतयोजनम् ॥ ६.७५.३१ ॥
煙に包まれ、大声で泣き叫ぶ女たちの、火に焼かれた(都の)響きは百ヨージャナまで聞こえた。
6.75.32
प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः।
सहसा ह्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥ ६.७५.३२ ॥
体の焼けた他の羅刹たちが外へ出てきた。すると戦を望む猿たちが突然、彼らに飛びかかった。
6.75.33
उद्घुष्टं वानराणां च राक्षसानां च निःस्वनम्।
दिशो दश समुद्रं च पृथिवीं च व्यनादयत् ॥ ६.७५.३३ ॥
猿たちの大声の叫びと羅刹たちの咆哮が、十方と海と大地を響かせた。
6.75.34
विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ।
असम्भ्रान्तौ जगृहतुस्ते उभे धनुषी वरे ॥ ६.७५.३४ ॥
傷一つなく、動じることもない二人の偉大な魂、ラーマとラクシュマナは、それぞれ見事な二張の弓を取った。
6.75.35
ततो विस्फारयामास रामश्च धनुरुत्तमम्।
बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥ ६.७५.३५ ॥
そこでラーマは見事な弓の弦を引き絞って鳴らした。羅刹たちを恐怖させる大きな音が起こった。
6.75.36
अशोभत तदा रामो धनुर्विस्फारयन् महत्।
भगवानिव संक्रुद्धो भवो वेदमयं धनुः ॥ ६.७५.३६ ॥
そのときラーマは大きな弓を引き絞り、怒れる世尊バヴァ(シヴァ)がヴェーダより成る弓を持つかのように輝いた。
6.75.37
उद्घुष्टं वानराणां च राक्षसानां च निःस्वनम्।
ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ॥ ६.७५.३७ ॥
猿の雄叫びと羅刹の咆哮が聞こえたが、ラーマの弓弦の音はその二つを越えて響いた。
6.75.38
वानरोद्घुष्टघोषश्च राक्षसानां च निःस्वनः।
ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ ६.७५.३८ ॥
猿の雄叫び、羅刹の咆哮、そしてラーマの弓弦の音——この三つが十方を満たした。
6.75.39
तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम्।
कैलासशृङ्गप्रतिमं विकीर्णमभवद् भुवि ॥ ६.७५.३९ ॥
彼の弓から放たれた矢によって、カイラーサの峰のようなその城門の楼閣は地に散らばった。
6.75.40
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च।
संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ ६.७५.४० ॥
そのときラーマの矢が飛車や家々にあるのを見て、羅刹の王たちの武装は大混乱となった。
6.75.41
तेषां संनह्यमानानां सिंहनादं च कुर्वताम्।
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ ६.७५.४१ ॥
武装しライオンのように吠えるその羅刹の王たちにとって、その夜はまるで恐ろしいものとなったかのようであった。
6.75.42
आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना।
आसन्नं द्वारमासाद्य युध्यध्वं च प्लवंगमाः ॥ ६.७५.४२ ॥
偉大なるスグリーヴァに命じられた猿の長たちよ!近くの門に至って戦え、跳びはねる猿たちよ!
6.75.43
यश्च वो वितथं कुर्यात् तत्र तत्राप्युपस्थितः।
स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः ॥ ६.७५.४३ ॥
あなたがたのうちで偽りの行いをし、どこにいても王の命令に背く者は、躍りかかって殺さねばならない。
6.75.44
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु।
स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत् ॥ ६.७५.४४ ॥
門に立つ、燃える松明を手にした猿の長たちを見て、ラーヴァナの内に怒りが湧き上がった。
6.75.45
तस्य जृम्भितविक्षेपाद् व्यामिश्रा वै दिशो दश।
रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥ ६.७५.४५ ॥
彼の欠伸と激しい身の動きによって、十方は実に乱れた。ルドラの姿をとったかのような怒りが、その四肢に現れた。
6.75.46
स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ।
प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ॥ ६.७५.४६ ॥
激怒した彼は、クンバカルナの二人の息子クンバとニクンバを、多くのラークシャサとともに送り出した。
6.75.47
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा।
निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ॥ ६.७५.४७ ॥
ラーヴァナの命により、ユーパークシャ、ショーニタークシャ、プラジャンガ、カンパナもクンバカルナの息子たちとともに出撃した。
6.75.48
शशास चैव तान् सर्वान् राक्षसान् स महाबलान्।
राक्षसा गच्छताद्यैव सिंहनादं च नादयन् ॥ ६.७५.४८ ॥
彼はそれら力強いラークシャサ全員に命じた。「ラークシャサたちよ、今すぐ行け。獅子吼を響かせながら進め!」
6.75.49
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः।
लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ॥ ६.७५.४९ ॥
そこで彼に促された、燃える武器を持つ勇猛なラークシャサたちは、ラṅカーから繰り返し咆哮しながら出陣した。
6.75.50
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः।
चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥ ६.७५.५० ॥
ラークシャサたちは装身具の輝きと自らの光で四方の空を照らし、ヴァーナラたちも火と共に空を明るくした。
6.75.51
तत्र ताराधिपस्याभा ताराणां भा तथैव च।
तयोराभरणाभा च ज्वलिता द्यामभासयत् ॥ ६.७५.५१ ॥
そこでは月の光、星々の光、そして両者の装身具の燃えるような輝きが空を照らした。
6.75.52
चन्द्राभा भूषणाभा च ग्रहाणां ज्वलतां च भा।
हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥ ६.७५.५२ ॥
月光、装身具の輝き、そして燃え輝く惑星の光が、ヴァーナラとラークシャサの軍勢を四方から照らし出した。
6.75.53
तत्र चार्धप्रदीप्तानां गृहाणां सागरः पुनः।
भाभिः संसक्तसलिलश्चलोर्मिः शुशुभेऽधिकम् ॥ ६.७५.५३ ॥
そこでは半ば燃え上がった家々の光によって、海は一層輝いた。その水はその光と交わり、揺れる波が映えた。
6.75.54
पताकाध्वजसंयुक्तमुत्तमासिपरश्वधम्।
भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ॥ ६.७५.५४ ॥
旗と軍旗に彩られ、優れた剣と斧を備え、恐ろしい馬と戦車と象に満ち、様々な歩兵でひしめいていた。
6.75.55
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्।
तद् राक्षसबलं भीमं घोरविक्रमपौरुषम् ॥ ६.७५.५५ ॥
燃えさかる三叉槍、棍棒、剣、槍、投槍、弓を携えた羅刹の軍勢は恐ろしく、その武勇と力は凄まじかった。
6.75.56
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम्।
हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ॥ ६.७५.५६ ॥
燃えさかる槍を持ち、数百の小さな鈴の音を響かせ、金の網で飾られた腕と巻きつけられた斧を備えた軍勢が見えた。
6.75.57
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्।
गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ॥ ६.७५.५७ ॥
大きな武器が旋回し、矢をつがえた弓を持ち、香料、花輪、酒の飛沫によって芳香を帯びた強い風の吹く軍勢。
6.75.58
घोरं शूरजनाकीर्णं महाम्बुधरनिःस्वनम्।
तद् दृष्ट्वा बलमायातं राक्षसानां दुरासदम् ॥ ६.७५.५८ ॥
恐ろしく、勇士に満ち、大きな雷雲のように轟くその軍勢が、羅刹たちの近づきがたい軍勢として迫ってくるのを見て——
6.75.59
संचचाल प्लवंगानां बलमुच्चैर्ननाद च।
जवेनाप्लुत्य च पुनस्तद् बलं रक्षसां महत् ॥ ६.७५.५९ ॥
猿の軍勢は揺れ動き、大声で吼えた。素早く跳び上がり、再び羅刹の大軍へと襲いかかった。
6.75.60
अभ्ययात् प्रत्यरिबलं पतंगा इव पावकम्।
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ॥ ६.७५.६० ॥
彼らは蛾が火に飛び込むように敵軍へと突進した。腕の触れによって磨かれた鉄の棍棒と雷霆——
6.75.61
राक्षसानां बलं श्रेष्ठं भूयः परमशोभत।
तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः ॥ ६.७५.६१ ॥
羅刹の最強の軍勢は再びいっそう輝いた。そこで戦いを望む猿たちは、狂ったかのように跳び上がった。
6.75.62
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान्।
तथैवापततां तेषां हरीणां निशितैः शरैः ॥ ६.७५.६२ ॥
木や岩、拳で夜行する羅刹を打ち据えながら、同じように、襲いかかってくるそれらの猿たちに、鋭い矢で(羅刹が)射かけた。
6.75.63
शिरांसि सहसा जह्रू राक्षसा भीमविक्रमाः।
दशनैर्हतकर्णाश्च मुष्टिभिर्भिन्नमस्तकाः।
शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥ ६.७५.६३ ॥
恐るべき武勇の羅刹たちは、突然に首を断たれた。歯で耳を噛みちぎられ、拳で頭蓋を砕かれ、岩の一撃で手足を折られた羅刹たちが、そこをさまよった。
6.75.64
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः।
प्रवरानभितो जघ्नुर्घोररूपा निशाचराः ॥ ६.७५.६४ ॥
同様に、その中の別の恐ろしい姿の夜行者たちが、鋭い剣で猿たちの勇士を四方から打ち据えた。
6.75.65
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्।
गर्हमाणं जगर्हान्यो दशन्तमपरोऽदशत् ॥ ६.७५.६५ ॥
一人が打つ者を打てば、別の者がそれを打つ。倒す者を倒せば、別の者がそれを倒す。非難する者を非難すれば、別の者がそれを非難する。噛む者を噛めば、別の者がそれを噛む。
6.75.66
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः।
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ ६.७५.६६ ॥
一人が「よこせ」と言えば、別の者が渡す。またある者は「やるぞ」と言う。「なぜ私を苦しめるのだ?待て!」——こうして彼らはそこで互いに語り合った。
6.75.67
विप्रलम्भितशस्त्रं च विमुक्तकवचायुधम्।
समुद्यतमहाप्रासं मुष्टिशूलासिकुन्तलम् ॥ ६.७५.६७ ॥
武器は混乱し、鎧と武具は投げ捨てられ、大槍が振り上げられ、拳・三叉戟・剣・槍(が戦いに用いられた)。
6.75.68
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्।
वानरान् दश सप्तेति राक्षसा जघ्नुराहवे ॥ ६.७५.६८ ॥
猿と羅刹の間に極めて恐ろしい戦いが始まった。羅刹たちは戦いで十七匹の猿を打ち倒した。
6.75.69
राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन्।
विप्रलम्भितवस्त्रं च विमुक्तकवचध्वजम्।
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ ६.७५.६९ ॥
猿たちもまた羅刹のうち十七人を倒した。衣は乱れ、鎧と旗は投げ捨てられ、猿たちは羅刹の軍を捕らえて取り囲んだ。