ヴァールミーキのラーマーヤナ · サルガ 6.76
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.76.1
प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये।
अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ ६.७६.१ ॥
その恐ろしく混乱した戦いが始まり、勇士たちが倒れていく中、戦いを渇望するアンガダは勇士カンパナに立ち向かった。
6.76.2
आहूय सोऽङ्गदं कोपात् ताडयामास वेगितः।
गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥ ६.७६.२ ॥
怒ってアンガダを呼び、カンパナは素早く棍棒で打ちかかった。しかし先によろめいたのはカンパナ自身で、強く打ちのめされていた。
6.76.3
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः।
अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ ६.७६.३ ॥
意識を取り戻した勇猛な者は山の峰を投げつけた。打撃に苦しんだカンパナは地に倒れた。
6.76.4
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे।
रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ॥ ६.७६.४ ॥
その時、戦場でカンパナが殺されたのを見たショーニターークシャは、戦車に乗って素早く恐れもなくアンガダに突進した。
6.76.5
सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः।
शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ॥ ६.७६.५ ॥
そして彼は素早くアンガダを鋭い矢で射抜いた。その矢は身体を引き裂く鋭いもので、劫末の火のような姿をしていた。
6.76.6
क्षुरक्षुरप्रनाराचैर्वत्सदन्तैः शिलीमुखैः।
कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ॥ ६.७६.६ ॥
多くの鋭い矢で――剃刀状のクシュラ、クシュラプラ、ナーラーチャ、ヴァツァダンタ、シリームカ、カルニ、シャルヤ、ヴィパータの矢で。
6.76.7
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्।
धनुरुग्रं रथं बाणान् ममर्द तरसा बली ॥ ६.७६.७ ॥
矢で全身を貫かれたアンガダは、ヴァーリの勇猛な息子であり、力強く、その恐ろしい弓、戦車、矢を素早く打ち砕いた。
6.76.8
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे।
उत्पपात तदा क्रुद्धो वेगवानविचारयन् ॥ ६.७६.८ ॥
そのとき血眼のシャーニタークシャはすぐに剣と盾を取り、怒りに満ち、素早く、考えもせずに飛び上がった。
6.76.9
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली।
करेण तस्य तं खड्गं समाच्छिद्य ननाद च ॥ ६.७६.९ ॥
力強いアンガダは素早く彼に飛びかかり、捕らえ、手で彼の剣を完全に断ち切り、咆哮した。
6.76.10
तस्यांसफलके खड्गं निजघान ततोऽङ्गदः।
यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ॥ ६.७६.१० ॥
それからアンガダは剣で彼の肩当てを打ち、猿たちの中の象であるその者は、聖紐のように彼を切り裂いた。
6.76.11
तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः।
वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन् ॥ ६.७६.११ ॥
その大剣を握り、幾度も咆哮して、ヴァーリの息子は戦場の先頭で敵へと突進した。
6.76.12
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली।
रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥ ६.७६.१२ ॥
そのとき勇士ユーパークシャは力強くプラジャンガと共に、怒って戦車に乗り、大力のヴァーリの息子へと進み出た。
6.76.13
आयसीं तु गदां गृह्य स वीरः कनकाङ्गदः।
शोणिताक्षः समाश्वस्य तमेवानुपपात ह ॥ ६.७६.१३ ॥
すると金の腕輪を着けたその勇士ショーニターの者は、鉄の棍棒を取り、気を取り直して彼めがけて躍りかかった。
6.76.14
प्रजङ्घस्तु महावीरो यूपाक्षसहितो बली।
गदयाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥ ६.७६.१४ ॥
大勇士プラジャンガは、ユーパークシャと共に力を振るい、怒りに燃えて棍棒を手にヴァーリンの子マハーバラへ向かって進んだ。
6.76.15
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः।
विशाखयोर्मध्यगतः पूर्णचन्द्र इवाबभौ ॥ ६.७६.१५ ॥
ショーニターとプラジャンガの間に立つ猿の中の最勝者は、二つのヴィシャーカ星の間の満月のように輝いた。
6.76.16
अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च।
तस्य तस्थतुरभ्याशे परस्परदिदृक्षया ॥ ६.७६.१६ ॥
アンガダを守りながら、マインダとドヴィヴィダもその近くに立ち、互いに会いたいという思いで留まった。
6.76.17
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः।
राक्षसा वानरान् रोषादसिबाणगदाधराः ॥ ६.७६.१७ ॥
巨体で大力の羅刹たちは身構え、怒りに剣と矢と棍棒を携えて、猿たちに襲いかかった。
6.76.18
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुंगवैः।
संसक्तानां महद् युद्धमभवद् रोमहर्षणम् ॥ ६.७६.१८ ॥
三人の猿の王は三人の最勝の羅刹と組み合い、身の毛もよだつ大戦が起こった。
6.76.19
ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे।
खड्गेन प्रतिचिक्षेप तान् प्रजङ्घो महाबलः ॥ ६.७६.१९ ॥
彼らは木々を引き抜き、戦いの中で敵に投げつけた。しかし大力のプラジャンガは剣でそれらを投げ返した。
6.76.20
रथानश्वान् द्रुमाञ्छैलान् प्रतिचिक्षिपुराहवे।
शरौघैः प्रतिचिच्छेद तान् यूपाक्षो महाबलः ॥ ६.७६.२० ॥
戦いの中で彼らは戦車や馬、木々や山々を敵に投げつけた。しかし大力のユーパークシャは矢の雨でそれらを断ち切った。
6.76.21
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान्।
बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥ ६.७६.२१ ॥
ドゥヴィヴィダとマインダが投げた木々を引き抜き、勇猛なショーニタークシャは棍棒でそれらを中央から打ち砕いた。
6.76.22
उद्यम्य विपुलं खड्गं परमर्मविदारणम्।
प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ॥ ६.७६.२२ ॥
急所を貫く大きな剣を振りかざし、プラジャンガは素早くヴァーリの息子めがけて突進した。
6.76.23
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः।
आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ॥ ६.७६.२३ ॥
彼が近づくのを見て、大力の猿王は阿輸伽爾那の木で彼を打った。
6.76.24
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना।
वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥ ६.७६.२४ ॥
彼は剣を持つ腕を拳で打った。ヴァーリの息子の一撃で剣は地に落ちた。
6.76.25
तं दृष्ट्वा पतितं भूमौ खड्गं मुसलसंनिभम्।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ ६.७६.२५ ॥
地面に落ちた、棍棒のような剣を見て、その大力の者は雷のような拳を引き戻した。
6.76.26
स ललाटे महावीर्यमङ्गदं वानरर्षभम्।
आजघान महातेजाः स मुहूर्तं चचाल ह ॥ ६.७६.२६ ॥
その大いなる光輝の者は、大勇の猿の中の雄牛アンガダの額を打ち、彼は一瞬よろめいた。
6.76.27
स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्।
प्रजङ्घस्य शिरः कायात् पातयामास मुष्टिना ॥ ६.७६.२७ ॥
意識を取り戻した輝かしく勇猛なヴァーリンの子は、拳でプラジャンガの首を胴から打ち落とした。
6.76.28
स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे।
अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे ॥ ६.७६.२८ ॥
戦で父方の叔父が殺されると、涙で目を満たしたユーパークシャは、矢が尽きて、すばやく戦車から降り、剣を取った。
6.76.29
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्।
आजघानोरसि क्रुद्धो जग्राह च बलाद् बली ॥ ६.७६.२९ ॥
彼が突進してくるのを見て、ドゥヴィダはユーパークシャへ急ぎ、怒って胸を打ち、力ずくで彼を捕らえた、その力強き者は。
6.76.30
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः।
आजघान महातेजा वक्षसि द्विविदं ततः ॥ ६.७६.३० ॥
兄が捕らえられたのを見て、大力で大いに輝くショーニタークシャは、そこでドゥヴィダの胸を打った。
6.76.31
स ततोऽभिहतस्तेन चचाल च महाबलः।
उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ॥ ६.७६.३१ ॥
彼に打たれ、大力の者はよろめいた。しかしドヴィヴィダは、彼が振り上げた棍棒を再び奪い取った。
6.76.32
एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत्।
यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ॥ ६.७६.३२ ॥
そのとき、マインダがドヴィヴィダの近くにやって来て、勇者は掌でユーパークシャの胸を打った。
6.76.33
तौ शोणिताक्षयूपाक्षौ प्लवंगाभ्यां तरस्विनौ।
चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥ ६.७६.३३ ॥
戦いで、その二匹の素早い猿は、ショーニタークシャとユーパークシャを引きずり、引き裂く激しい戦いを繰り広げた。
6.76.34
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे।
निष्पिपेष स वीर्येण क्षितावाविध्य वीर्यवान् ॥ ६.७६.३४ ॥
ドヴィヴィダはショーニタークシャの顔を爪で引き裂き、勇者は彼を投げ倒して地面に力強く押しつぶした。
6.76.35
यूपाक्षमभिसंक्रुद्धो मैन्दो वानरपुङ्गवः।
पीडयामास बाहुभ्यां पपात स हतः क्षितौ ॥ ६.७६.३५ ॥
激怒したマインダは、猿の中の最良の者として両腕でユーパークシャを締めつけ、彼は殺されて地に倒れた。
6.76.36
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तथा।
जगामाभिमुखी सा तु कुम्भकर्णात्मजो यतः ॥ ६.७६.३६ ॥
勇士たちを失い悲嘆に暮れたラークシャサの王の軍勢は、クンバカルナの息子がいる方へと向き直った。
6.76.37
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम्।
अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवंगमैः ॥ ६.७६.३७ ॥
勢いよく迫る軍勢を、クンバはその場で食い止めた。すると大力の猿の勇士たちは狙いを定め、弓を引き絞って矢を放った。
6.76.38
निपातितमहावीरां दृष्ट्वा रक्षश्चमूं तदा।
कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥ ६.७६.३८ ॥
羅刹の軍勢の大勇士たちが倒れているのを見て、輝かしいクンバは戦場で極めて困難な行いを成し遂げた。
6.76.39
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः।
मुमोचाशीविषप्रख्याञ्छरान् देहविदारणान् ॥ ६.७६.३९ ॥
弓使いの中で最も優れた彼は、完全に集中して弓を取り、毒蛇のように身体を貫く矢を放った。
6.76.40
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्।
विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा ॥ ६.७६.४० ॥
彼の優れた弓は矢とともに再び輝き、稲妻とアイラーヴァタの輝きをまとった、インドラの第二の虹のようであった。
6.76.41
आकर्णकृष्टमुक्तेन जघान द्विविदं तदा।
तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥ ६.७६.४१ ॥
耳まで引き絞って放たれた、金の鏃と羽根のついたその矢で、彼はそのときドヴィヴィダを射た。
6.76.42
सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन्।
निपपात त्रिकूटाभो विह्वलन् प्लवगोत्तमः ॥ ६.७६.४२ ॥
突然その矢に射られ、足が地を離れ、身をよじらせて、トリクータ山のような跳躍の猿の最勝者は苦しみもだえて倒れた。
6.76.43
मैन्दस्तु भ्रातरं तत्र भग्नं दृष्ट्वा महाहवे।
अभिदुद्राव वेगेन प्रगृह्य विपुलां शिलाम् ॥ ६.७६.४३ ॥
しかしマインダは、あの大戦でその兄が打ち倒されたのを見て、巨大な岩を掴み、勢いよく突進した。
6.76.44
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः।
बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥ ६.७६.४४ ॥
その大力の者は岩を羅刹に投げつけたが、クンバは五本の輝く矢でその岩を射抜いた。
6.76.45
संधाय चान्यं सुमुखं शरमाशीविषोपमम्।
आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥ ६.७६.४५ ॥
そして輝けるスムカは、毒蛇のような別の矢をつがえ、ドゥヴィヴィダの兄の胸を射た。
6.76.46
स तु तेन प्रहारेण मैन्दो वानरयूथपः।
मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ॥ ६.७६.४६ ॥
その一撃で急所を打たれ、ヴァーナラの群れの長マインダは気を失って地に倒れた。
6.76.47
अङ्गदो मातुलौ दृष्ट्वा मथितौ तु महाबलौ।
अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥ ६.७६.४७ ॥
アンガダは、二人の大力の母方の叔父が打ち砕かれたのを見て、弓を構えたクンバへ勢いよく突進した。
6.76.48
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः।
त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः।
सोऽङ्गदं बहुभिर्बाणैः कुम्भो विव्याध वीर्यवान् ॥ ६.७६.४८ ॥
襲いかかるアンガダを、クンバは五本の鉄の矢で射抜き、さらに三本と他の鋭い矢で、象を槍で突くように射た。その勇猛なクンバはアンガダを多くの矢で射抜いた。
6.76.49
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः।
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ॥ ६.७६.४९ ॥
切れ味の鈍らない、鋭く、金の装飾を施した矢に体を貫かれても、ヴァーリの子アンガダは震えなかった。
6.76.50
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह।
स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः ॥ ६.७६.५० ॥
彼は岩と木々の雨をその頭上に降らせた。アンガダはそれらすべてを断ち切り、さらに岩を砕いた。
6.76.51
कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान्।
आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् ॥ ६.७६.५१ ॥
クンバカルナの誉れ高い子クンバは、ヴァーリの子が投げた武器と、こちらへ突進してくる猿の群れの長を見た。
6.76.52
भ्रुवौ विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्।
तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ॥ ६.७६.५२ ॥
彼は二本の矢で彼の眉を射抜いた。象を二本の燃える松明で突くように。血が彼から流れ、彼の両眼は閉じた。
6.76.53
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते।
सालमासन्नमेकेन परिजग्राह पाणिना ॥ ६.७६.५३ ॥
血に濡れた両眼を片手で覆い、アンガダはもう一方の手で近くのサーラの木を掴んだ。
6.76.54
सम्पीड्योरसि सस्कन्धं करेणाभिनिवेश्य च।
किंचिदभ्यवनम्यैनमुन्ममाथ महारणे ॥ ६.७६.५४ ॥
彼を胸に押し付け、腕と肩でしっかり掴み、少し身をかがめて、アンガダは大戦の中で彼を引き抜いた。
6.76.55
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम्।
समुत्सृजत वेगेन मिषतां सर्वरक्षसाम् ॥ ६.७६.५५ ॥
インドラの旗とマンダラ山に似たその木を、羅刹たちが見守る中、勢いよく投げつけた。
6.76.56
स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः।
अङ्गदो विव्यथेऽभीक्ष्णं स पपात मुमोह च ॥ ६.७६.५६ ॥
彼は鋭く体を貫く七本の矢でその木を断ち切った。アンガダは繰り返し苦痛に襲われ、倒れて気を失った。
6.76.57
अङ्गदं पतितं दृष्ट्वा सीदन्तमिव सागरे।
दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ॥ ६.७६.५७ ॥
アンガダが倒れ、海に沈むかのように力尽きたのを見て、猿の最良の者たちは不敗のラーガヴァに報告した。
6.76.58
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे।
व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ॥ ६.७६.५८ ॥
ラーマはヴァーリンの息子アンガダが大戦で苦しめられたと聞き、ジャーンバヴァット率いる猿の最良の者たちに命令を下した。
6.76.59
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्।
अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥ ६.७६.५९ ॥
ラーマの命令を聞いた猿の虎たちは、激しく怒って、弓を構えたクンバに襲いかかった。
6.76.60
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः।
रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ॥ ६.७६.६० ॥
すると、木と岩を手にし、怒りに目を赤くした猿の雄牛たちは、アンガダを守ろうと敵へ躍りかかった。
6.76.61
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।
कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥ ६.७६.६१ ॥
ジャーンバヴァーン、スシェーナ、そして猿ヴェーガダルシーは怒りに燃え、クンバカルナの勇ましい息子へ一斉に襲いかかった。
6.76.62
समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान्।
आववार शरौघेण नगेनेव जलाशयम् ॥ ६.७६.६२ ॥
力強い猿の王たちが自分へ向かって突進してくるのを見て、彼は矢の奔流で彼らを覆い尽くした。山が湖を覆うように。
6.76.63
तस्य बाणपथं प्राप्य न शेकुरपि वीक्षितुम्।
वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥ ६.७६.६३ ॥
彼の矢の射程に入ると、その大いなる猿の王たちは彼を見ることさえできなかった。大海が自らの岸辺を見られないように。
6.76.64
तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिभिरर्दितान्।
अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ ६.७६.६४ ॥
矢の雨に苦しめられる猿の群れを見て、猿王は甥のアンガダを自分の後ろに置いた。
6.76.65
अभिदुद्राव सुग्रीवः कुम्भकर्णात्मजं रणे।
शैलसानुचरं नागं वेगवानिव केसरी ॥ ६.७६.६५ ॥
戦いの中で、スグリーヴァはクンバカルナの息子へ突進した。山の斜面を歩く象に、疾い獅子が飛びかかるように。
6.76.66
उत्पाट्य च महावृक्षानश्वकर्णादिकान् बहून्।
अन्यांश्च विविधान् वृक्षांश्चिक्षेप स महाकपिः ॥ ६.७६.६६ ॥
その大猿は、アシュヴァカルナなどの多くの大木を根こそぎ引き抜き、さらに様々な他の木々も投げ放った。
6.76.67
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्।
कुम्भकर्णात्मजः श्रीमांश्चिच्छेद स्वशरैः शितैः ॥ ६.७६.६७ ॥
空を覆い、防ぎがたいその木々の雨を、クンバカルナの輝かしい息子は自らの鋭い矢で断ち切った。
6.76.68
अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः।
आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः।
द्रुमवर्षं तु तद् भिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ॥ ६.७६.६८ ॥
クンバの猛烈で的を外さぬ鋭い矢に貫かれたそれらの木々は、恐ろしいシャタグニ(百殺器)のように輝いた。木々の雨が砕かれたのを見て、勇猛なクンバは。
6.76.69
वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे।
स विध्यमानः सहसा सहमानस्तु ताञ्छरान् ॥ ६.७६.६९ ॥
猿の主、輝かしく大いなる勇気を持つその方は苦しまなかった。突然矢に貫かれても、その矢に耐え続けた。
6.76.70
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम्।
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ॥ ६.७६.७० ॥
クンバの弓を奪い取り、インドラの虹のように輝くその弓を折った。それから素早く飛び降り、極めて困難な行いを成し遂げて。
6.76.71
अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम्।
निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ॥ ६.७६.७१ ॥
怒って、牙の折れた象に語るようにクンバに言った。「ニクンバの兄よ、お前の武勇とあの驚くべき矢の速さは見事だ。」
6.76.72
संनतिश्च प्रभावश्च तव वा रावणस्य वा।
प्रह्लादबलिवृत्रघ्नकुबेरवरुणोपम ॥ ६.७६.७२ ॥
お前の謙虚さと威勢、あるいはラーヴァナの威勢は、プラフラーダ、バリ、ヴリトラを討つ者(インドラ)、クベーラ、ヴァルナに等しい。
6.76.73
एकस्त्वमनुजातोऽसि पितरं बलवत्तरम्।
त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम् ॥ ६.७६.७३ ॥
お前ひとりが、あの力強い父の後に生まれた。大腕の者よ、手に三叉戟を持つ敵の征服者はお前だけだ。
6.76.74
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः।
विक्रमस्व महाबुद्धे कर्माणि मम पश्य च ॥ ६.७६.७४ ॥
感覚を制した者を心の苦悩が超えられないように、神々もお前を超えることはできない。大智の者よ、武勇を示せ。そして私の働きも見よ。
6.76.75
वरदानात् पितृव्यस्ते सहते देवदानवान्।
कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥ ६.७६.७५ ॥
恩恵のゆえにお前の叔父は神々と魔族をも耐え抜く。クンバカルナは武勇によって、神々と阿修羅さえも耐え抜く。
6.76.76
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च।
त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥ ६.७६.७६ ॥
弓においてはお前はインドラジットに等しく、武勇においてはラーヴァナに等しい。今日、お前は力と勇気によって、世の羅刹の中で最も優れた者だ。
6.76.77
महाविमर्दं समरे मया सह तवाद्भुतम्।
अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥ ६.७६.७७ ॥
今日、戦場で私と共にお前のこの大いなる驚くべき戦いが起こるように。シャクラとシャンバラの戦いのように、すべての生き物がそれを見よ。
6.76.78
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्।
पतिता हरिवीराश्च त्वयैते भीमविक्रमाः ॥ ६.७६.७८ ॥
お前は比類なき働きをし、武器の技を示した。恐るべき武勇の猿の英雄たちは、お前の手によって倒れた。
6.76.79
उपालम्भभयाच्चैव नासि वीर मया हतः।
कृतकर्मपरिश्रान्तो विश्रान्तः पश्य मे बलम् ॥ ६.७६.७९ ॥
勇士よ、非難を恐れて、これまでお前を殺さなかった。お前は成し遂げた行いに疲れている。休息して、我が力を見よ。
6.76.80
तेन सुग्रीववाक्येन सावमानेन मानितः।
अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ॥ ६.७६.८० ॥
スグリーヴァの侮辱の言葉に誇りを刺激され、酥油を注がれた火のように、彼の威光は増した。
6.76.81
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा।
गजाविवातीतमदौ निःश्वसन्तौ मुहुर्मुहुः ॥ ६.७६.८१ ॥
そこでクンバは両腕でスグリーヴァを捕らえた。発情の過ぎた二頭の象が絡み合い、幾度も息を吐くように。
6.76.82
अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम्।
सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ॥ ६.७६.८२ ॥
互いの肢体を絡ませ、擦り合い、疲労のあまり口から煙をまじえた炎を吐き出しながら。
6.76.83
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही।
व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥ ६.७६.८३ ॥
二人の足の打撃で大地は沈み、ヴァルナの住処たる海は波が渦巻いて激しく揺れた。
6.76.84
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि।
पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥ ६.७६.८४ ॥
するとスグリーヴァはクンバを持ち上げ、塩水の中へ勢いよく投げ落とし、海の底を現した。
6.76.85
ततः कुम्भनिपातेन जलराशिः समुत्थितः।
विन्ध्यमन्दरसंकाशो विससर्प समन्ततः ॥ ६.७६.८५ ॥
そこで壺が打ち落とされると、水の塊が盛り上がり、ヴィンディヤ山とマンダラ山のように四方へ広がった。
6.76.86
ततः कुम्भः समुत्पत्य सुग्रीवमभिपात्य च।
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥ ६.७६.८६ ॥
そこで怒ったクンバは跳び上がり、スグリーヴァを打ち倒し、雷のような拳で彼の胸を打った。
6.76.87
तस्य वर्म च पुस्फोट संजज्ञे चापि शोणितम्।
तस्य मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥ ६.७६.८७ ॥
その鎧は砕け、血が流れた。そしてスグリーヴァの勢いの大きな拳も、骨の部分へ打ち返した。
6.76.88
तस्य वेगेन तत्रासीत् तेजः प्रज्वलितं महत्।
वज्रनिष्पेषसंजाता ज्वाला मेरोर्यथा गिरेः ॥ ६.७६.८८ ॥
その勢いによってそこに大きく燃え上がる光輝が生じた。金剛が砕けて生じた炎は、メール山のようであった。
6.76.89
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ ६.७६.८९ ॥
そこで彼に打たれたスグリーヴァ、猿の中の雄牛、大力の者は、雷のような拳を引き戻した。
6.76.90
अर्चिःसहस्रविकचरविमण्डलवर्चसम्।
स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ ६.७६.९० ॥
千の光線を開いた太陽の円盤のように輝く拳を、その勇者はクンバの胸へと振り下ろした。
6.76.91
स तु तेन प्रहारेण विह्वलो भृशपीडितः।
निपपात तदा कुम्भो गतार्चिरिव पावकः ॥ ६.७६.९१ ॥
その一撃で激しく苦しみ、目眩を覚えたクンバは、炎の消えた火のようにその時倒れた。
6.76.92
मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः।
लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर्यदृच्छया ॥ ६.७६.९२ ॥
その拳の一撃を受けた羅刹は速やかに倒れた。空から赤い体と輝く光線をもつ惑星が、自らの軌道から落ちるかのように。
6.76.93
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना।
बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ॥ ६.७६.९३ ॥
拳で胸を砕かれ倒れていくクンバの姿は、ルドラに打たれた牛の主のようであった。
6.76.94
तस्मिन् हते भीमपराक्रमेण
प्लवंगमानामृषभेण युद्धे।
मही सशैला सवना चचाल
भयं च रक्षांस्यधिकं विवेश ॥ ६.७६.९४ ॥
戦いで猿たちの中の雄牛、恐ろしい勇猛さを持つ者が彼を殺したとき、山と森を伴う大地は震え、羅刹たちには大きな恐怖が入り込んだ。