Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.8.1

ततो नीलाम्बुदप्रख्यः प्रहस्तो नाम राक्षसः।
अब्रवीत् प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥ ६.८.१ ॥

その時、紺青の雲のような羅刹プラハスタ、勇猛な将軍が、合掌してこの言葉を述べた。

6.8.2

देवदानवगन्धर्वाः पिशाचपतगोरगाः।
सर्वे धर्षयितुं शक्याः किं पुनर्मानवौ रणे ॥ ६.८.२ ॥

神々、ダーナヴァ、ガンダルヴァ、ピシャーチャ、鳥や蛇たちでさえ、戦場で打ち負かすことができる。ましてや二人の人間など言うまでもない。

6.8.3

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता।
नहि मे जीवतो गच्छेज्जीवन् स वनगोचरः ॥ ६.८.३ ॥

我々は皆不注意で油断していたため、ハヌマーンにあざむかれた。しかし私が生きている限り、あの森の住人は生きて去ることはないだろう。

6.8.4

सर्वां सागरपर्यन्तां सशैलवनकाननाम्।
करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ॥ ६.८.४ ॥

海に囲まれたこの大地を、山や森、林ごとすべて、猿のいないものにしてみせましょう。どうぞ私にご命令ください。

6.8.5

रक्षां चैव विधास्यामि वानराद् रजनीचर।
नागमिष्यति ते दुःखं किंचिदात्मापराधजम् ॥ ६.८.५ ॥

夜をさまよう者よ、猿からお前を守る手はずを整えよう。お前自身の過ちから生じるいかなる苦しみも、お前には及ばないだろう。

6.8.6

अब्रवीत् तु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः।
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ ६.८.६ ॥

その時、激怒したドゥルムカという羅刹が言った。「我々全員に加えられたこの侮辱は、許してはならない。」

6.8.7

अयं परिभवो भूयः पुरस्यान्तःपुरस्य च।
श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् ॥ ६.८.७ ॥

この屈辱は再び都と奥御殿を襲った。栄光ある羅刹王が一匹の猿に襲われたのだ。

6.8.8

अस्मिन् मुहूर्ते गत्वैको निवर्तिष्यामि वानरान्।
प्रविष्टान् सागरं भीममम्बरं वा रसातलम् ॥ ६.८.८ ॥

今この瞬間に私は一人で行き、恐ろしい海、空、あるいは冥界に入り込んだ猿どもを連れ戻してみせよう。

6.8.9

ततोऽब्रवीत् सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः।
प्रगृह्य परिघं घोरं मांसशोणितरूषितम् ॥ ६.८.९ ॥

そのとき、激怒した大力のヴァジュラダンシュトラは、肉と血にまみれた恐ろしい鉄棍を手に取り、言った。

6.8.10

किं नो हनूमता कार्यं कृपणेन तपस्विना।
रामे तिष्ठति दुर्धर्षे सुग्रीवेऽपि सलक्ष्मणे ॥ ६.८.१० ॥

哀れな苦行者ハヌマーンなど我らに何の関わりがあろう。無敵のラーマが、スグリーヴァが、ラクシュマナと共にそこに立っているというのに。

6.8.11

अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्।
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ ६.८.११ ॥

今日、私は一人で行き、鉄棍でラーマをスグリーヴァとラクシュマナと共に打ち倒し、猿の軍勢を混乱させてから戻ろう。

6.8.12

इदं ममापरं वाक्यं शृणु राजन् यदिच्छसि।
उपायकुशलो ह्येव जयेच्छत्रूनतन्द्रितः ॥ ६.८.१२ ॥

王よ、お望みのように、私のもう一つの言葉をお聞きください。策略に長け、倦むことを知らぬ者こそ敵に勝てるのです。

6.8.13

कामरूपधराः शूराः सुभीमा भीमदर्शनाः।
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥ ६.८.१३ ॥

羅刹王よ、意のままに姿を変える勇猛な羅刹たち、非常に恐ろしく恐怖を誘う姿の者たちが、千単位で決意しております。

6.8.14

काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः।
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥ ६.८.१४ ॥

皆、動揺せず、人間の姿をとってカークトゥスタ(ラーマ)に近づき、ラグの最良の者に語りかけるべし。

6.8.15

प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा।
स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ॥ ६.८.१५ ॥

あなたの弟バラタ自身が遣わしたもので、彼はすぐに軍を編成して近くまでやって来るでしょう。

6.8.16

ततो वयमितस्तूर्णं शूलशक्तिगदाधराः।
चापबाणासिहस्ताश्च त्वरितास्तत्र यामहे ॥ ६.८.१६ ॥

それから我々はここから、槍と投げ槍と棍棒を携え、弓と矢と剣を手にして、急いであそこへ向かおう。

6.8.17

आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम्।
अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम् ॥ ६.८.१७ ॥

空中に群れをなして立ち、あの猿の軍勢を討ち倒し、石と武器の大雨をもって彼らをヤマの世界へ送ろう。

6.8.18

एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ।
अवश्यमपनीतेन जहतामेव जीवितम् ॥ ६.८.१८ ॥

このようにラーマとラクシュマナが近づけば、必ずや彼らは命を失うであろう。

6.8.19

कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्।
अब्रवीत् परमक्रुद्धो रावणं लोकरावणम् ॥ ६.८.१९ ॥

そのとき、クンバカルナの勇猛で力強い息子ニクンバは激怒し、世界を震え上がらせるラーヴァナに語った。

6.8.20

सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः।
अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ॥ ६.८.२० ॥

皆さんは偉大な王と共にここに留まってください。私一人でラクシュマナと共にラーガヴァを殺します。

6.8.21

सुग्रीवं सहनूमन्तं सर्वांश्चैवात्र वानरान्।
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥ ६.८.२१ ॥

スグリーヴァ、ハヌマーン、そしてここにいる猿たちすべてを。そのとき山のような羅刹ヴァジュラハヌという者が、

6.8.22

क्रुद्धः परिलिहन् सृक्कां जिह्वया वाक्यमब्रवीत्।
स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ॥ ६.८.२२ ॥

怒りに駆られ、舌で口の端をなめながら彼は言った。「皆さん、心配なく、思うままに自分の務めを果たしてください。」

6.8.23

एकोऽहं भक्षयिष्यामि तां सर्वां हरिवाहिनीम्।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥ ६.८.२३ ॥

私一人であの猿の軍勢すべてを平らげてやろう。皆さんは安らかに、心配なく遊び、甘い酒ヴァールニーを飲んでください。

6.8.24

अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम्।
साङ्गदं च हनूमन्तं सर्वांश्चैवात्र वानरान् ॥ ६.८.२४ ॥

私一人で、ラクシュマナと共にいるスグリーヴァ、アンガダと共にいるハヌマーン、そしてここにいる猿たちすべてを殺してやろう。