ヴァールミーキのラーマーヤナ · サルガ 6.84
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.84.1
राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले।
निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः ॥ ६.८४.१ ॥
兄を慕うラクシュマナがラーマを慰めていたとき、ヴィビーシャナは軍勢をそれぞれの持ち場に置いて、そこへ来た。
6.84.2
नानाप्रहरणैर्वीरैश्चतुर्भिरभिसंवृतः।
नीलाञ्जनचयाकारैर्मातंगैरिव यूथपैः ॥ ६.८४.२ ॥
様々な武器を携えた四人の勇士に囲まれ、青い眼墨の山のような体躯の者たちに囲まれて、群れの長の象のように彼はやって来た。
6.84.3
सोऽभिगम्य महात्मानं राघवं शोकलालसम्।
वानरांश्चापि ददृशे बाष्पपर्याकुलेक्षणान् ॥ ६.८४.३ ॥
彼は悲しみに沈む偉大なラーghava(ラーマ)のもとへ近づき、涙に曇った目の猿たちをも見た。
6.84.4
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।
ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥ ६.८४.४ ॥
イクシュヴァーク家の喜びである偉大なラーghavaが、気を失ってラクシュマナの膝に寄りかかっているのを見た。
6.84.5
व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः।
अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ॥ ६.८४.५ ॥
恥じ入り悲しみに苦しむラーマを見て、内なる悲しみに心沈んだヴィビーシャナは言った。「これはどうしたことか」
6.84.6
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।
लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥ ६.८४.६ ॥
ヴィビーシャナの顔、スグリーヴァ、そしてあの猿たちを見て、涙に溢れたラクシュマナは弱々しい声でこう言った。
6.84.7
हता इन्द्रजिता सीता इति श्रुत्वैव राघवः।
हनूमद्वचनात् सौम्य ततो मोहमुपाश्रितः ॥ ६.८४.७ ॥
ハヌマーンの言葉によって、シーターがインドラジットに殺されたと聞いて、ラーガヴァ(ラーマ)は、やさしき者よ、昏迷に陥った。
6.84.8
कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः।
पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् ॥ ६.८४.८ ॥
しかし、話していたサウミトリ(ラクシュマナ)を制して、ヴィビーシャナは意味深い言葉を気を失ったラーマに語った。
6.84.9
मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता।
तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ ६.८४.९ ॥
人の王よ、ハヌマーンが苦悩するあなたに告げたことは、海を干上がらせるのと同じく不適切だと私は考える。
6.84.10
अभिप्रायं तु जानामि रावणस्य दुरात्मनः।
सीतां प्रति महाबाहो न च घातं करिष्यति ॥ ६.८४.१० ॥
大いなる腕の者よ、邪悪な魂のラーヴァナの意図を私は知っている。彼はシーターを殺さないだろう。
6.84.11
याच्यमानः सुबहुशो मया हितचिकीर्षुणा।
वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः ॥ ६.८४.११ ॥
私は彼の幸いを願い、何度も「ヴァイデーヒーを解放せよ」と懇願したが、彼はその言葉に従わなかった。
6.84.12
नैव साम्ना न दानेन न भेदेन कुतो युधा।
सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ॥ ६.८४.१२ ॥
和解によってもなく、贈与によってもなく、離間によってもない。ましてや戦争によってどうして。彼女は他の誰によっても見ることさえできない。
6.84.13
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।
मायामयीं महाबाहो तां विद्धि जनकात्मजाम् ॥ ६.८४.१३ ॥
その羅刹は猿たちを惑わせて引き返した。大力の方よ、そのジャナカの娘は幻でできていると知れ。
6.84.14
चैत्यं निकुम्भिलामद्य प्राप्य होमं करिष्यति।
हुतवानुपयातो हि देवैरपि सवासवैः ॥ ६.८४.१४ ॥
今日、彼はニクンビラーの祠に至り、火の供物を捧げるであろう。供物を捧げ終えれば、ヴァーサヴァ(インドラ)とともなる神々にさえ打ち負かされぬ者となって戻ってくるだろう。
6.84.15
दुराधर्षो भवत्येष संग्रामे रावणात्मजः।
तेन मोहयता नूनमेषा माया प्रयोजिता ॥ ६.८४.१५ ॥
戦いにおいて、このラーヴァナの息子は打ち破りがたくなる。まさに彼がこの幻術を用いて惑わせたのだ。
6.84.16
विघ्नमन्विच्छता तत्र वानराणां पराक्रमे।
ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते ॥ ६.८४.१६ ॥
猿たちの勇武を妨げようとする彼のもとへ、その儀式が完了する前に、軍勢とともに我々は行こう。
6.84.17
त्यजैनं नरशार्दूल मिथ्या संतापमागतम्।
सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥ ६.८४.१७ ॥
人中の虎よ、降りかかったこの偽りの苦悩を捨てよ。悲しみにやつれたあなたを見て、軍勢の力はみな萎えているのだ。
6.84.18
इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।
लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥ ६.८४.१८ ॥
ここに留まり、心を安定させ、勇気に満ちて立っていよ。軍勢を率いる勇士たちとともに、ラクシュマナを我らと共に送れ。
6.84.19
एष तं नरशार्दूलो रावणिं निशितैः शरैः।
त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥ ६.८४.१९ ॥
この人中の雄は鋭い矢でラーヴァニの、その行いを捨てさせるだろう。そのとき彼は討たれるべき者となる。
6.84.20
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।
पतत्त्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥ ६.८४.२० ॥
彼のこれら鋭く鋭利な矢は、鳥のように羽をもち恐ろしく、血を飲むだろう。
6.84.21
तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम्।
राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥ ६.८४.२१ ॥
ゆえに大臂の君よ、吉兆の相をもつラクシュマナに命じたまえ。金剛を持つ者が羅刹を滅ぼすために金剛を放つように。
6.84.22
मनुजवर न कालविप्रकर्षो
रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम्।
त्वमतिसृज रिपोर्वधाय वज्रं
दिविजरिपोर्मथने यथा महेन्द्रः ॥ ६.८४.२२ ॥
人中の最勝者よ、今は時を延ばすべきではない。敵を滅ぼすために今なすべきことをせよ。偉大なインドラが神々の敵を砕くときに金剛を放ったように、お前も敵を討つために武器を放て。
6.84.23
समाप्तकर्मा हि स राक्षसर्षभो
भवत्यदृश्यः समरे सुरासुरैः।
युयुत्सता तेन समाप्तकर्मणा
भवेत् सुराणामपि संशयो महान् ॥ ६.८४.२३ ॥
羅刹の中の雄牛が任務を終えれば、戦場では神々やアスラにさえ見えなくなるだろう。戦を望むその者の任務が成就すれば、神々にさえ大きな疑念が生じるだろう。