ヴァールミーキのラーマーヤナ · サルガ 6.88
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.88.1
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः।
अब्रवीत् परुषं वाक्यं क्रोधेनाभ्युत्पपात च ॥ ६.८८.१ ॥
ヴィビーシャナの言葉を聞いて、ラーヴァナの息子は怒りに打ちのめされ、厳しい言葉を発し、怒って立ち上がった。
6.88.2
उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते।
कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥ ६.८८.२ ॥
武器と剣を振りかざし、飾り立てられた大きな戦車の上に、死のような馬をつないだ戦車に立っていた。彼は時の終わりたるカーラーンタカのようであった。
6.88.3
महाप्रमाणमुद्यम्य विपुलं वेगवद् दृढम्।
धनुर्भीमबलो भीमं शरांश्चामित्रनाशनान् ॥ ६.८८.३ ॥
大きく、広く、速く、堅固な弓を持ち上げ、恐るべき力の持ち主は、敵を滅ぼす恐ろしい矢を手に立っていた。
6.88.4
तं ददर्श महेष्वासो रथस्थः समलंकृतः।
अलंकृतममित्रघ्नो रावणस्यात्मजो बली ॥ ६.८८.४ ॥
大弓の射手、戦車に立ち、美しく飾られ、敵を討つ者、ラーヴァナの力強い息子は彼を見た。
6.88.5
हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम्।
उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम् ॥ ६.८८.५ ॥
ハヌマーンの背に跨り、昇る太陽のように輝く彼を見て、激しく怒りながらラクシュマナとヴィビーシャナに言った。
6.88.6
तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्।
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ॥ ६.८८.६ ॥
そして猿の中の虎たちよ、私の武勇を見よ!今日、私の弓から放たれる、防ぎ難い矢の雨を見よ。
6.88.7
मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे।
अद्य वो मामका बाणा महाकार्मुकनिःसृताः।
विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥ ६.८८.७ ॥
空から降る雨を受け止めねばならないように、戦いでお前たちは私の矢を受けることになる。今日、私の大弓から放たれた矢は、火が綿の山を焼くようにお前たちの体を散らすだろう。
6.88.8
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः।
अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ॥ ६.८८.८ ॥
鋭い矢と槍・戟・剣・投槍に貫かれたお前たち全員を、今日私はヤマの館へ送ってやろう。
6.88.9
सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे।
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ॥ ६.८८.९ ॥
戦場で矢の雨を降らせ、手は素早く、雨雲のように轟くこの私の前に、誰が立ちはだかれるだろうか。
6.88.10
रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः।
शायितौ तौ मया भूयो विसंज्ञौ सपुरःसरौ ॥ ६.८८.१० ॥
先の夜戦で、私は雷霆に等しい矢で、あの二人をまた打ち倒したことがある。彼らは指揮官たちとともに意識を失って横たわった。
6.88.11
स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम्।
आशीविषसमं क्रुद्धं यन्मां योद्धुमुपस्थितः ॥ ६.८८.११ ॥
覚えていないのか、それとも、お前はヤマの館へ行ってしまったのだと私は思う。怒り狂った毒蛇のように、私と戦うためにやって来たのだから。
6.88.12
तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा।
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥ ६.८८.१२ ॥
羅刹王の咆哮を聞き、ラーガヴァは恐れなき面持ちで、怒りを込めてラーヴァニに次の言葉を告げた。
6.88.13
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया।
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥ ६.८८.१३ ॥
羅刹よ、お前は事業の彼岸に至ることは難しいと言った。行為によって事業の彼岸に至る者こそ賢者である。
6.88.14
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्।
वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ॥ ६.८८.१४ ॥
悪しき心の者よ、誰にも得難い目的を欠くお前は、言葉だけを語って『我は目的を果たした』と思っている。
6.88.15
अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा।
तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ ६.८८.१५ ॥
あの時、戦場で姿を消して行ったことは盗賊の道だ。これは英雄が歩む道ではない。
6.88.16
यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस।
दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ॥ ६.८८.१६ ॥
羅刹よ、私はお前の矢の道に立っている。今その力を見せよ。なぜ言葉だけで大言を吐くのか。
6.88.17
एवमुक्तो धनुर्भीमं परामृश्य महाबलः।
ससर्ज निशितान् बाणानिन्द्रजित् समितिंजयः ॥ ६.८८.१७ ॥
そう言われると、大力にして戦いの勝者であるインドラジットは恐ろしい弓を取り、鋭い矢を放った。
6.88.18
तेन सृष्टा महावेगाः शराः सर्पविषोपमाः।
सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ॥ ६.८८.१८ ॥
彼が放った速い矢は蛇の毒のようで、ラクシュマナに届き、シューシューと唸る蛇のように落ちかかった。
6.88.19
शरैरतिमहावेगैर्वेगवान् रावणात्मजः।
सौमित्रिमिन्द्रजिद् युद्धे विव्याध शुभलक्षणम् ॥ ६.८८.१९ ॥
ラーヴァナの息子インドラジットは、極めて速い矢で戦いの中、吉兆を具えたサウミトリ(ラクシュマナ)を射抜いた。
6.88.20
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः।
शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः ॥ ६.८८.२० ॥
矢に深く貫かれ血にまみれた、輝かしいラクシュマナは、煙のない火のように輝いた。
6.88.21
इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च।
विनद्य सुमहानादमिदं वचनमब्रवीत् ॥ ६.८८.२१ ॥
インドラジットは自らの戦果をよく見届け、近づき、大きな咆哮を上げてこの言葉を述べた。
6.88.22
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः।
आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः ॥ ६.८८.२२ ॥
私の弓から放たれた、羽根のある鋭い刃の、お前の矢は、スミトラーの子よ、今日お前の命を奪うだろう。それらは命を断つものだから。
6.88.23
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण।
गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ॥ ६.८८.२३ ॥
ラクシュマナよ、今日私に殺され息絶えたお前の上に、ジャッカルの群れ、鷹の群れ、そして禿鷹が降りかかれ。
6.88.24
क्षत्रबन्धुं सदानार्यं रामः परमदुर्मतिः।
भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति हतं मया ॥ ६.८८.२४ ॥
極めて愚かなラーマは、常に卑しく非アーリヤであるクシャトリヤ族の恥、献身的な弟のお前が、今日私に殺されたのを見るだろう。
6.88.25
विस्रस्तकवचं भूमौ व्यपविद्धशरासनम्।
हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ॥ ६.८८.२५ ॥
スミトラーの子よ、今日お前が私に殺され、鎧は緩み、弓は投げ捨てられ、頭を断たれて地に横たわっているのを私は見るだろう。
6.88.26
हेतुमद् वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह ॥ ६.८८.२६ ॥
意味を知るラクシュマナは、道理にかなった言葉で答えた。
6.88.27
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मन् हि राक्षस।
अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा ॥ ६.८८.२७ ॥
邪悪な心の羅刹よ、残酷な行いをする者よ、言葉の力を捨てよ。なぜそのようなことを言うのか。善行によってそれを成し遂げよ。
6.88.28
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस।
कुरु तत् कर्म येनाहं श्रद्धेयं तव कत्थनम् ॥ ६.८८.२८ ॥
羅刹よ、行いもせずにここでなぜ自慢するのか。その行いをせよ。そうすればお前の自慢を私は信じられる。
6.88.29
अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्।
अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन ॥ ६.८८.२९ ॥
荒々しい言葉を発せず、何ものも罵らず、自慢もせず、私はお前を討つ。見よ、人喰いよ。
6.88.30
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान्।
विजघान महावेगाल्लक्ष्मणो राक्षसोरसि ॥ ६.८८.३० ॥
こう言うと、ラクシュマナは耳まで引き絞った五本の鉄の矢を、非常な勢いで羅刹の胸に射かけた。
6.88.31
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः।
नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा ॥ ६.८८.३१ ॥
美しい羽根の矢は、燃える蛇のように、その羅刹の胸に太陽の光線のように輝いた。
6.88.32
स शरैराहतस्तेन सरोषो रावणात्मजः।
सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ॥ ६.८८.३२ ॥
彼の矢に射られたラーヴァナの息子は怒り、巧みに放った三本の矢でラクシュマナを射返した。
6.88.33
स बभूव महाभीमो नरराक्षससिंहयोः।
विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ॥ ६.८८.३३ ॥
人の獅子と羅刹の獅子との、互いに勝利を求めた戦いのぶつかり合いは、戦場で恐ろしく騒然としたものとなった。
6.88.34
विक्रान्तौ बलसम्पन्नावुभौ विक्रमशालिनौ।
उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥ ६.८८.३४ ॥
二人とも勇猛で、力に満ち、武勇を備えていた。二人ともきわめて打ち負かしがたく、比類ない力と輝きを持っていた。
6.88.35
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ।
बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ ॥ ६.८८.३५ ॥
そのとき二人の英雄は、空を行く二つの惑星のように戦った。戦場では、バラやヴリトラのように打ち負かしがたかった。
6.88.36
युयुधाते महात्मानौ तदा केसरिणाविव।
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ।
नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम् ॥ ६.८८.३६ ॥
そのとき二人の偉大な者は獅子のように戦った。多くの矢の奔流を放ち、自らの位置に堅く立ち、人と羅刹の中で最も優れた二人は、喜びをもって互いに戦いを交えた。
6.88.37
ततः शरान् दाशरथिः संधायामित्रकर्षणः।
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥ ६.८८.३७ ॥
そこでダシャラタの息子、敵を制する者は矢をつがえ、怒りに息を荒らげる蛇のように、それを羅刹王へと放った。
6.88.38
तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः।
विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥ ६.८८.३८ ॥
彼の弓弦の鳴る音を聞いて、羅刹王は顔色を失い、ラクシュマナをじっと見つめた。
6.88.39
विवर्णवदनं दृष्ट्वा राक्षसं रावणात्मजम्।
सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ॥ ६.८८.३९ ॥
ラーヴァナの息子の青ざめた顔を見て、戦いに臨むサウミトリにヴィビーシャナが答えた。
6.88.40
निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे।
त्वर तेन महाबाहो भग्न एष न संशयः ॥ ६.८८.४० ॥
"大腕の者よ、私がこのラーヴァナの息子に見る兆しは、彼が敗れたことを示している。疑いはない。だから急いで彼に攻めかかれ。"
6.88.41
ततः संधाय सौमित्रिः शरानाशीविषोपमान्।
मुमोच विशिखांस्तस्मिन् सर्पानिव विषोल्बणान् ॥ ६.८८.४१ ॥
そこでサウミトリは毒蛇のような矢をつがえ、毒に猛る蛇のような矢を彼へ放った。
6.88.42
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः।
मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ॥ ६.८८.४२ ॥
インドラの金剛杵のような衝撃をもつラクシュマナの矢に打たれ、彼は一瞬茫然となり、すべての感覚が揺さぶられた。
6.88.43
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः।
ददर्शावस्थितं वीरमाजौ दशरथात्मजम्।
सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः ॥ ६.८८.४३ ॥
しばらくして意識を取り戻し、感覚が戻ると、戦場に立つダシャラタの息子の英雄を見た。怒りに目を赤くして、彼はサウミトリ(ラクシュマナ)へと進み出た。
6.88.44
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः।
किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम्।
निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे ॥ ६.८८.४४ ॥
彼は再び近づき、厳しい言葉を述べた。「最初の戦いでの私の武勇を覚えていないのか?兄とともに縛られ、戦いの中で身もだえしていたときのことを覚えていないのか?」
6.88.45
युवां खलु महायुद्धे वज्राशनिसमैः शरैः।
शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ ॥ ६.८८.४५ ॥
大戦において、雷霆と稲妻のような矢に射られ、先頭に立つ二人は真っ先に意識を失って地に倒れたのだ。
6.88.46
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्।
गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि ॥ ६.८८.४६ ॥
思い出せないのか、あるいは明らかにヤマの住処へ行きたいのだろう。お前は私に挑みかかろうとしているのだから。
6.88.47
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः।
अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥ ६.८८.४७ ॥
最初の戦いで私の武勇を見ていないのなら、今日それをお前に見せてやろう。今は堅く立っていろ。
6.88.48
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्।
दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥ ६.८८.४८ ॥
こう言うと、彼はラクシュマナを七本の矢で射、ハヌマーンを鋭い刃の優れた十本の矢で射た。
6.88.49
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्।
क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम् ॥ ६.८८.४९ ॥
すると勇猛な彼は怒りに倍して燃え上がり、正確に放たれた百本の矢でヴィビーシャナを射貫いた。
6.88.50
तद् दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा।
अचिन्तयित्वा प्रहसन्नैतत् किंचिदिति ब्रुवन् ॥ ६.८८.५० ॥
インドラジットの所業を見たラーマの弟ラクシュマナは、それを気にも留めず、笑いながら「これくらいのことは何でもない」と言った。
6.88.51
मुमोच च शरान् घोरान् संगृह्य नरपुंगवः।
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि ॥ ६.८८.५१ ॥
人中の雄牛ラクシュマナは、恐れなき面持ちで怒りながら恐ろしい矢を取り、戦いでラーヴァナの息子へと放った。
6.88.52
नैवं रणगताः शूराः प्रहरन्ति निशाचर।
लघवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव ॥ ६.८८.५२ ॥
夜の徘徊者よ、戦場に来た勇士はこのように打ったりはしない。お前の矢は軽く力も弱い。実に、これらはお前にとって心地よいものに過ぎない。
6.88.53
नैवं शूरास्तु युध्यन्ते समरे युद्धकाङ्क्षिणः।
इत्येवं तं ब्रुवन् धन्वी शरैरभिववर्ष ह ॥ ६.८८.५३ ॥
戦いを望む勇士は、戦場でこのようには戦わない。こう彼に言うと、その弓使いは矢の雨を降らせた。
6.88.54
तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत्।
व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥ ६.८८.५४ ॥
彼の大きな黄金の鎧は矢によって粉々に砕かれ、戦車の座席に崩れ落ちた。まるで空から星の網が落ちるように。
6.88.55
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः।
इन्द्रजित् समरे वीरः प्रत्यूषे भानुमानिव ॥ ६.८८.५५ ॥
鎧を揺さぶられ鉄の矢に傷ついた英雄インドラジットは、夜明けの太陽のように戦場で輝いた。
6.88.56
ततः शरसहस्रेण संक्रुद्धो रावणात्मजः।
बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः ॥ ६.८८.५६ ॥
そのとき怒り狂った、恐るべき勇武のラーヴァナの息子は、千本の矢で戦場においてラクシュマナを射抜いた。
6.88.57
व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु।
कृतप्रतिकृतान्योन्यं बभूवतुररिंदमौ ॥ ६.८८.५७ ॥
ラクシュマナの偉大な神聖な鎧は砕け散った。二人の敵を制する者は互いに打ち、打ち返した。
6.88.58
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि।
शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ ६.८८.५८ ॥
何度もため息をつきながら、二人は戦場で激しく戦った。矢で全身を切られ、至る所血に濡れていた。
6.88.59
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः।
ततक्षतुर्महात्मानौ रणकर्मविशारदौ।
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ ॥ ६.८८.५९ ॥
長い間、その二人の英雄は、大いなる魂を持ち戦いの技に長けて、鋭い矢で互いを射た。勝利を目指して決意した二人は、恐るべき勇武の持ち主であった。
6.88.60
तौ शरौघैस्तथाकीर्णौ निकृत्तकवचध्वजौ।
सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥ ६.८८.६० ॥
矢の流れに覆われ、鎧と旗を断ち切られた二人は、温かい水を噴き出す二つの泉のように熱い血を流した。
6.88.61
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम्।
सासारयोरिवाकाशे नीलयोः कालमेघयोः ॥ ६.८८.६१ ॥
すると二人は恐ろしい轟音とともに激しい矢の雨を降らせた。空に二つの紺黒い雨雲が雨を注ぐかのように。
6.88.62
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः।
न च तौ युद्धवैमुख्यं क्लमं चाप्युपजग्मतुः ॥ ६.८८.६२ ॥
二人が戦う間に長い時が過ぎたが、どちらも戦いから退かず、疲労も彼らを襲わなかった。
6.88.63
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः।
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥ ६.८८.६३ ॥
武器に通じた者の中で最もすぐれた二人は、繰り返し武器を披露し、空に高低さまざまな形の矢を放った。
6.88.64
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च।
उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥ ६.८८.६४ ॥
欠点なく、素早く、見事に、巧みに矢を放つ二人、人間と羅刹は、恐ろしく騒然たる戦いを繰り広げた。
6.88.65
तयोः पृथक् पृथग् भीमः शुश्रुवे तलनिस्वनः।
स कम्पं जनयामास निर्घात इव दारुणः ॥ ६.८८.६५ ॥
二人が手を打ち鳴らす恐ろしい音が、それぞれ別々に聞こえた。その音は、恐ろしい雷鳴のように震えを起こした。
6.88.66
तयोः स भ्राजते शब्दस्तथा समरमत्तयोः।
सुघोरयोर्निष्टनतोर्गगने मेघयोरिव ॥ ६.८८.६६ ॥
戦いに酔った二人の、極めて恐ろしい咆哮の音は、空に二つの雲の雷鳴のように響き渡った。
6.88.67
सुवर्णपुंखैर्नाराचैर्बलवन्तौ कृतव्रणौ।
प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ॥ ६.८८.६७ ॥
金の羽根を持つ矢で傷ついた、力強く名高い二人の戦士からは血が流れ出た。二人とも勝利を固く志していた。
6.88.68
ते गात्रयोर्निपतिता रुक्मपुंखाः शरा युधि।
असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम् ॥ ६.८८.६८ ॥
戦いで二人の体に落ちた金の羽根の矢は血にまみれて抜け出し、大地の表面に突き刺さった。
6.88.69
अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे।
बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः ॥ ६.८८.६९ ॥
他の矢は非常に鋭利な武器で空中で互いにぶつかり合い、二人の何千本もの矢は折れ、断ち切られた。
6.88.70
स बभूव रणो घोरस्तयोर्बाणमयश्चयः।
अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥ ६.८८.७० ॥
その戦いは恐ろしいものとなった。二人の矢の山は、供犠で燃え盛る二つの火の間の吉祥草の山のようであった。
6.88.71
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः।
सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली ॥ ६.८८.७१ ॥
その二人の偉大な魂の持ち主の傷ついた身体は、森の中で葉がなく花が満開のキンシュカやシャルマリの木のように輝いた。
6.88.72
चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः।
इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ ॥ ६.८८.७२ ॥
インドラジットとラクシュマナは、互いに勝利を求め、幾度も恐ろしく騒がしい激突を繰り広げた。
6.88.73
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्।
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रतिपद्यताम् ॥ ६.८८.७३ ॥
戦いでラクシュマナはラーヴァニを、ラーヴァニもラクシュマナを打った。互いに打ち合いながら、二人は疲労を覚えなかった。
6.88.74
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ।
शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ ॥ ६.८८.७४ ॥
体に深く突き刺さった矢の網に覆われ、その二人の俊敏で偉大な勇者は、そびえ立つ山々のように輝いた。
6.88.75
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्।
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥ ६.८८.७५ ॥
血に濡れ、矢で全身を覆われた二人の四肢は、燃え盛る炎のように輝いた。
6.88.76
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः।
न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः ॥ ६.८८.७६ ॥
二人が戦っている間に長い時が過ぎた。しかし二人は戦いから退くことも、疲れることもなかった。
6.88.77
अथ समरपरिश्रमं निहन्तुं
समरमुखेष्वजितस्य लक्ष्मणस्य।
प्रियहितमुपपादयन् महात्मा
समरमुपेत्य विभीषणोऽवतस्थे ॥ ६.८८.७७ ॥
その時、偉大な魂のヴィビーシャナは、戦いの疲労を取り除き、無敵のラクシュマナのために喜ばしく有益なことを成し遂げようとして、戦場に来て最前線に立った。