Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.96.1

तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः।
बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥ ६.९६.१ ॥

于是,他们的身体被十头者的箭所割裂,那时那里的大地上散布着猴子。

6.96.2

रावणस्याप्रसह्यं तं शरसम्पातमेकतः।
न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ॥ ६.९६.२ ॥

罗波那那无法忍受的箭雨从一侧倾泻而下,他们无法承受,正如飞蛾无法承受熊熊烈火。

6.96.3

तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः।
पावकार्चिः समाविष्टा दह्यमाना यथा गजाः ॥ ६.९६.३ ॥

他们被锐利的箭折磨,哭喊着向四面八方逃散,就像被火焰包围而燃烧的大象。

6.96.4

प्लवंगानामनीकानि महाभ्राणीव मारुतः।
संययौ समरे तस्मिन् विधमन् रावणः शरैः ॥ ६.९६.४ ॥

在那场战斗中,罗波那用箭驱散猴子的军队,向前推进,犹如风吹散巨大的云团。

6.96.5

कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्।
आससाद ततो युद्धे त्वरितं राघवं रणे ॥ ६.९६.५ ॥

罗刹王迅速屠杀了林中的居民之后,便在战斗中急速地逼近了罗怙后裔(罗摩)。

6.96.6

सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे।
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः ॥ ६.९६.६ ॥

苏羯梨婆看到那些猴子在战斗中溃败逃散,便将苏舍那安置在灌木丛中,迅速将心思投入战斗。

6.96.7

आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्।
सुग्रीवोऽभिमुखं शत्रुं प्रतस्थे पादपायुधः ॥ ६.९६.७ ॥

苏羯梨婆把与自己相当的那位英勇猴将留在那里,以双足为武器,向面前的敌人进发。

6.96.8

पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः।
अनुजग्मुर्महाशैलान् विविधांश्च वनस्पतीन् ॥ ६.९६.८ ॥

在他的两侧和身后,所有猴军统帅都紧随其后,手持大山与各种树木。

6.96.9

ननर्द युधि सुग्रीवः स्वरेण महता महान्।
पोथयन् विविधांश्चान्यान् ममन्थोत्तमराक्षसान् ॥ ६.९६.९ ॥

在战斗中,伟大的苏羯梨婆以洪亮的声音怒吼,以种种方式碾碎并撕裂其他的优秀罗刹。

6.96.10

ममर्द च महाकायो राक्षसान् वानरेश्वरः।
युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ ६.९६.१० ॥

身躯庞大的猴王碾碎了罗刹,如同劫末的狂风摧折那些高大的树木。

6.96.11

राक्षसानामनीकेषु शैलवर्षं ववर्ष ह।
अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥ ६.९६.११ ॥

他向罗刹的军队倾下如雨的群山,好比乌云在林中向鸟群降下石雨。

6.96.12

कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः।
विकीर्णशिरसः पेतुर्विकीर्णा इव पर्वताः ॥ ६.९६.१२ ॥

被猴王投下的那些群山之雨所击中,罗刹们头颅碎裂,倒下如同崩散的山峦。

6.96.13

अथ संक्षीयमाणेषु राक्षसेषु समन्ततः।
सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च ॥ ६.९६.१३ ॥

此时,罗刹四面溃散减少,被须羯离击破,一边咆哮一边倒下。

6.96.14

विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः।
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥ ६.९६.१४ ॥

善射的罗刹毗卢扑迦报出自己的名字,不可抵挡,从战车跃下,登上象背。

6.96.15

स तं द्विपमथारुह्य विरूपाक्षो महाबलः।
ननर्द भीमनिर्ह्रादं वानरानभ्यधावत ॥ ६.९६.१५ ॥

毗卢扑迦骑上那头象,大力的他发出可怕的吼声,冲向猴众。

6.96.16

सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे।
स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन् ॥ ६.९६.१६ ॥

他在军前向须羯离射出可怕的箭,又鼓舞惊慌的罗刹,使他们站稳阵脚。

6.96.17

सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा।
चुक्रोश च महाक्रोधो वधे चास्य मनो दधे ॥ ६.९६.१७ ॥

猴王被那罗刹的利箭重创,大怒之下高声呼喊,决意要杀死他。

6.96.18

ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः।
अभिपत्य जघानास्य प्रमुखे तं महागजम् ॥ ६.९६.१८ ॥

于是这勇猛善战的猴子拔起一棵树,冲上前去,打击了面前那头大象。

6.96.19

स तु प्रहाराभिहतः सुग्रीवेण महागजः।
अपासर्पद् धनुर्मात्रं निषसाद ननाद च ॥ ६.९६.१९ ॥

大象被须羯里婆的一击击中,后退一张弓之远,跪坐下来,发出吼声。

6.96.20

गजात् तु मथितात् तूर्णमपक्रम्य स वीर्यवान्।
राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥ ६.९६.२० ॥

于是那勇猛的罗刹迅速从被压碎的大象上跃下,面对敌人,向那只猴子迎上前去。

6.96.21

आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः।
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ ६.९६.२१ ॥

这罗刹手持牛皮盾与剑,步伐轻捷,仿佛要恐吓须羯里婆一般,走近那站立稳固的敌人。

6.96.22

स हि तस्याभिसंक्रुद्धः प्रगृह्य विपुलां शिलाम्।
विरूपाक्षस्य चिक्षेप सुग्रीवो जलदोपमाम् ॥ ६.९६.२२ ॥

须羯里婆对他极为愤怒,抓起一块如云般巨大的石头,朝毗噜跋叉掷去。

6.96.23

स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः।
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा ॥ ६.९६.२३ ॥

这位罗刹之杰见巨石坠落,便闪身一旁,以极大的勇猛,立即挥剑击去。

6.96.24

तेन खड्गप्रहारेण रक्षसा बलिना हतः।
मुहूर्तमभवद् भूमौ विसंज्ञ इव वानरः ॥ ६.९६.२४ ॥

那猴子被这强大罗刹的剑击所伤,倒在地上片刻,仿佛失去了知觉。

6.96.25

सहसा स तदोत्पत्य राक्षसस्य महाहवे।
मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥ ६.९६.२५ ॥

于是他突然跃起,在那场大战中握紧拳头,猛力击打罗刹的胸膛。

6.96.26

मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः।
तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे ॥ ६.९६.२६ ॥

夜行者毗卢波叉被拳击所伤,愤怒地挥着那把剑,在须弥瞿利军队的前列。

6.96.27

कवचं पातयामास पद्भ्यामभिहतोऽपतत्।
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ॥ ६.९६.२७ ॥

他打落了铠甲;被双脚所击,他倒下了。那猴子起身,放开了倒下的他。

6.96.28

तलप्रहारमशनेः समानं भीमनिःस्वनम्।
तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम् ॥ ६.९६.२८ ॥

如霹雳般、声音可怖的掌击;须弥瞿利向那罗刹高高举起了这一掌。

6.96.29

नैपुण्यान्मोचयित्वैनं मुष्टिनोरसि ताडयत्।
ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः ॥ ६.९६.२९ ॥

他巧妙地挣脱出来,用拳头击打他的胸膛。于是猴王须弥瞿利愈加愤怒。

6.96.30

मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा।
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥ ६.९६.३० ॥

那猴子见自己已摆脱罗刹的打击,便看到了毗卢波叉防守的空隙。

6.96.31

ततोऽन्यं पातयत् क्रोधाच्छङ्खदेशे महातलम्।
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥ ६.९६.३१ ॥

随后他愤怒地又一掌击向太阳穴之处;被这如因陀罗霹雳般的手掌击中,他倒在地上。

6.96.32

पपात रुधिरक्लिन्नः शोणितं हि समुद्गिरन्।
स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥ ६.९६.३२ ॥

他浑身浸透鲜血,倒地吐血;毗樓博叉身体的孔道中,血如泉水般涌流而出。

6.96.33

विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्।
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥ ६.९६.३३ ॥

他们看见毗樓博叉,怒目翻白,口吐白沫,浑身浴血,面目愈加丑陋。

6.96.34

स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्।
करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ॥ ६.९६.३४ ॥

猴众看见敌人扭动翻滚,侧身倒卧,浑身沾满鲜血,凄惨地嘶吼。

6.96.35

तथा तु तौ संयति सम्प्रयुक्तौ
तरस्विनौ वानरराक्षसानाम्।
बलार्णवौ सस्वनतुश्च भीमौ
महार्णवौ द्वाविव भिन्नसेतू ॥ ६.९६.३५ ॥

于是这两位善战的勇士交锋——猴与罗刹之中的力量之海,可怕地咆哮,如同两座决堤的大洋。

6.96.36

विनाशितं प्रेक्ष्य विरूपनेत्रं
महाबलं तं हरिपार्थिवेन।
बलं समेतं कपिराक्षसाना-
मुद्वृत्तगङ्गाप्रतिमं बभूव ॥ ६.९६.३६ ॥

众猴与罗刹见大力的毗樓博叉被猴王所灭,合军便如泛滥越岸的恒河一般。