蚁垤《罗摩衍那》 · 篇 7.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.1.1
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।
आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ ७.१.१ ॥
罗摩得到王国、罗刹被杀之后,所有的仙人都前来向罗霄婆祝贺。
7.1.2
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च ।
कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ ७.१.२ ॥
憍尸迦、耶跋克利多、伽尔伽、伽罗婆,以及弥陀提提之子迦尔婆——居住在东方的仙人们。
7.1.3
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा ।
आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥ ७.१.३ ॥
娑斯底耶特利耶、尊贵的那目吉和普拉目吉,与阿伽斯提亚一同前来——居住在南方的仙人们。
7.1.4
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ।
ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥ ७.१.४ ॥
尼利沙古、迦婆沙、达乌弥耶,以及大仙人楼陀梨耶,也与弟子们一同前来——居住在西方的仙人们。
7.1.5
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः ।
जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ॥ ७.१.५ ॥
婆私吒、迦叶波,然后是阿陟黎,憍尸迦与瞿昙同行,还有遮摩达基尼和跋罗堕遮——这七位仙人也都来了。
7.1.6
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥ ७.१.६ ॥
这七位常年居住在北方的仙人。
7.1.7
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् ।
विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः ।
वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ ७.१.७ ॥
这些大德抵达罗伽婆(罗摩)的宫殿,站在门外等候通报,光彩如祭火,精通吠陀与吠陀支分,擅长诸般学问。
7.1.8
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः ।
निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥ ७.१.८ ॥
心地正直的仙人中之最胜者阿伽斯提亚对守门人说:"请通报达萨ラタ之子,我们这些仙人已经到来。"
7.1.9
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् ।
समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ७.१.९ ॥
于是,依阿伽斯提亚之言,守门人迅速来到大德罗伽婆(罗摩)面前,立即入内通报。
7.1.10
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः ।
स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ॥ ७.१.१० ॥
那位通晓礼仪与暗号、品行端正、机敏而沉稳的守门人,见到如满月般光彩的罗摩,便立即……
7.1.11
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ॥ ७.१.११ ॥
他通报说阿伽斯提亚与诸仙人已经到来。
7.1.12
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ।
प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ॥ ७.१.१२ ॥
闻知那些如初升太阳般光辉的仙人已到,他对守门人说:"请他们从容入内。"
7.1.13
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ।
पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ॥ ७.१.१३ ॥
罗摩见那些圣贤到来,便起身合掌,以洗足水、敬礼之物等礼敬他们,并恭敬地献上一头牛。
7.1.14
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह ।
तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ॥ ७.१.१४ ॥
罗摩恭敬地向他们致礼,并指示座位——那些座位金饰精美、宽大而上好。
7.1.15
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ।
यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ ७.१.१५ ॥
那些圣贤中的上首们依礼坐在铺有吉祥草与隐身布、覆以鹿皮的座位上。
7.1.16
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।
महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ ७.१.१६ ॥
罗摩问候了那些与弟子、前导同来的大圣贤的安好;精通吠陀的大仙们便对罗摩说了这些话。
7.1.17
कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ ७.१.१७ ॥
大臂者啊,罗怙子孙的喜悦!我们处处安好;幸运的是,我们看到您安然无恙,敌人已被消灭。
7.1.18
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ।
न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥ ७.१.१८ ॥
幸运的是,大王您杀死了令世界恐惧的罗波那。罗摩啊,那罗波那,即使有子有孙,对您来说也不是负担。
7.1.19
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ।
दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ ७.१.१९ ॥
持弓的你本可征服三界,毫无疑问。幸运的是,哦罗摩,罗刹之王罗波那已被你所杀。
7.1.20
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया ।
लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ॥ ७.१.२० ॥
幸运的是,今日我们见到胜利的你与悉多、以及为你谋福的兄弟罗什曼那同在,哦有德之人。
7.1.21
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप ।
दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ।
अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ ७.१.२१ ॥
哦国王,今日我们见到你与母亲和兄弟们在一起。幸运的是,普拉哈斯塔、毗迦吒、毗卢波叉、摩訶多罗,以及难以战胜的阿堪帕那,这些夜游者已被你所杀。
7.1.22
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ ७.१.२२ ॥
身量之巨此间无人可比的俱姆跋迦尔那,幸运的是,哦罗摩,已在战场上被你击倒。
7.1.23
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।
दिष्ट्या ते निहता राम महावीर्या निशाचराः ॥ ७.१.२३ ॥
三头与阿提迦耶、天终与人终,幸运的是,哦罗摩,那些大勇的夜游者已被你所杀。
7.1.24
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ।
दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ ७.१.२४ ॥
俱跋与尼俱跋,两位相貌可怖的罗刹,幸运的是,哦罗摩,俱姆跋迦尔那的这两个儿子已在战斗中被你所杀。
7.1.25
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ।
यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥ ७.१.२५ ॥
战狂与狂者,如时间、终结者与阎摩;有力的祭怒,以及名为烟眼的罗刹。
7.1.26
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः ।
अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥ ७.१.२६ ॥
这些施行可怖屠杀的兵器与神箭大师,幸而被你以如死神般的箭矢所杀。
7.1.27
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।
देवतानामवध्येन विजयं प्राप्तवानसि ॥ ७.१.२७ ॥
你幸而与罗刹之主进行单对单的战斗,并战胜了连诸神也不能杀死的他。
7.1.28
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः ।
द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ ७.१.२८ ॥
战场上他的败亡对罗波那毫无损失;你幸而与之单挑,杀死了罗波那之子。
7.1.29
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।
मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ ७.१.२९ ॥
幸而,大臂者啊,你从那如死神般向你扑来的诸神之敌手中脱身;英雄啊,你也获得了胜利。
7.1.30
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ।
सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ ७.१.३० ॥
听闻因陀罗耆的被杀,我们都为你欢欣;他对一切众生皆不可杀,在战场上掌握大幻术。
7.1.31
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ७.१.३१ ॥
听闻因陀罗耆多被杀,我们也感到惊讶。
7.1.32
एते चान्ये च बहवो राक्षसाः कामरूपिणः ।
दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ॥ ७.१.३२ ॥
这些以及其他许多能随意变形的罗刹英雄,幸而都被你杀死了,啊,光大罗怙族的人。
7.1.33
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ७.१.३३ ॥
你施予这纯洁、温和的无畏布施,啊,英雄迦古特斯塔,啊,摧毁敌人者,幸而你因胜利而昌盛。
7.1.34
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ।
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ ७.१.३४ ॥
罗摩听闻那些心性清净的仙人之言,大为惊异,合掌而言。
7.1.35
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् ।
अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ ७.१.३५ ॥
诸位尊者,你们为何赞叹罗婆那之子(因陀罗耆多),他甚至超过了俱槃陀罗那与夜行者罗婆那,而他们二人本都威力巨大?
7.1.36
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ।
मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ॥
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ॥ ७.१.३६ ॥
你们为何赞叹罗婆那之子,他超过了勇猛的摩诃陀罗、普拉哈斯塔、罗刹毗卢波叉、末陀与乌那陀,以及难以战胜的提婆安多迦与那罗安多迦?
7.1.37
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ।
अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ ७.१.३७ ॥
你们为何舍弃大勇的阿底迦耶、三首,以及夜行罗刹达陀迦叉,而去赞美罗婆尼之子?
7.1.38
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः ।
केन वा कारणेनैष रावणादतिरिच्यते ॥ ७.१.३८ ॥
他的威势如何?力量何在?勇武又怎样?因为什么缘故,他竟超过罗婆那?
7.1.39
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।
यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥ ७.१.३९ ॥
若我可以听闻——我并非命令你们;若此事并非秘密而可以说出,我愿意听,请讲吧。
7.1.40
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः ।
कथं च बलवानन्पुत्रो न पिता तस्य रावणः ॥ ७.१.४० ॥
连因陀罗他也战胜了;他如何获得了恩赐?那位强大的,为何是罗婆那之子而非其父?
7.1.41
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।
वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ७.१.४१ ॥
他如何超过了父亲?那在大战中战胜因陀罗的罗刹是如何成就的,又如何获得了恩赐?哎,诸仙之主,今日请将一切告诉我——这正是我所问的。