Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.100

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.100.1

कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।
स्वगुरुं प्रेषयामास राघवाय महात्मने ।
गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ ७.१००.१ ॥

过了一段时间,甘迦王俞陀吉特派遣他的老师、安吉罗斯之子、光辉无量的梵仙伽尔伽,前往伟大的罗ghava处。

7.100.2

दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ ७.१००.२ ॥

还有一万匹马,这是最上等的善意之礼。

7.100.3

कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।
रामाय प्रददौ राजा शुभान्याभरणानि च ॥ ७.१००.३ ॥

国王又把毛毯、珠宝、精美的彩绣衣料和吉祥的饰物赠给罗摩。

7.100.4

श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् ।
मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ॥ ७.१००.४ ॥

智慧的罗ghava听闻此事,得知大仙伽尔伽已到,并带来了他舅父、马主所送的巨额财富。

7.100.5

प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।
गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ॥ ७.१००.५ ॥

迦古特斯特之子与其弟同行,迎出一俱卢舍之远,恭敬地礼遇伽尔伽,如因陀罗敬礼伽婆瑟婆提(布利哈斯帕蒂)一般。

7.100.6

तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च ।
पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ७.१००.६ ॥

如此礼敬了那位仙人,接受了那笔财富,又逐一询问了一切安好以及舅父的安康之后,罗摩便开始向那坐在一旁的大福之人发问。

7.100.7

किमाह मातुलो वाक्यं यदर्थं भगवानिह ।
प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥ ७.१००.७ ॥

我的舅舅说了什么话,这位尊者为此来到这里?他是言辞大师中的最杰出者,仿佛亲自来的Bṛhaspati。

7.100.8

रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।
वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥ ७.१००.८ ॥

闻听罗摩之言,大仙开始向这位容貌非凡的罗怙后裔陈述事情的详细经过。

7.100.9

मातुलस्ते महाबाहो वाक्यमाह नरर्षभः ।
युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ७.१००.९ ॥

啊,大臂者,你的舅舅,人中之杰的Yudhājit,说出了这番充满情意的话;若你愿意,就请听吧。

7.100.10

अयं गन्धर्वविषयः फलमूलोपशोभितः ।
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ ७.१००.१० ॥

这里是乾闼婆的国土,果实与根茎装点其间;信度河两岸的这片地方极其美丽。

7.100.11

तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।
शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥ ७.१००.११ ॥

守卫此地的,是持械且精通战阵的乾闼婆,即Śailūṣa之子,共三千万人,啊英雄,个个力量强大。

7.100.12

तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।
निवेशय महाबोहो स्वे पुरे सुसमाहिते ॥ ७.१००.१२ ॥

啊,Kākutstha,将他们彻底击败之后,请把这座美丽的乾闼婆城牢固地安置在你自己的都城中,啊大臂者。

7.100.13

अन्यस्य न गतिस्तत्र देशः परमशोभनः ।
रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥ ७.१००.१३ ॥

那里别人无法进入;那地方极为美妙。大臂者啊,愿你喜欢;我不会对你说有害之言。

7.100.14

तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।
उवाच बाढमित्येव भरतं चान्ववैक्षत ॥ ७.१००.१४ ॥

拉古之裔(罗摩)听后欢喜,应允大仙与舅父之言,说道:“很好。”随即看向婆罗多。

7.100.15

सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।
इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥ ७.१००.१५ ॥

拉古之裔(罗摩)欢喜,合掌对那位婆罗门说:“梵仙啊,这两位王子将在那个地方游历。”

7.100.16

भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।
मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥ ७.१००.१६ ॥

婆罗多的两位英勇之子,叉刹与普什卡罗,由其舅父妥善护佑,且恪守法度,心志坚定。

7.100.17

भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।
निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ ७.१००.१७ ॥

以婆罗多为先导,这两位王子率领军队与随从,将杀死乾闼婆之子,并分割两座城市。

7.100.18

निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।
आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ ७.१००.१८ ॥

将这两个儿子安置在优良的城市之后,极其正直的婆罗多将再次来到我的面前。

7.100.19

ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।
आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥ ७.१००.१९ ॥

他对婆罗门圣贤如此说完后,便命令随同军队与随从的婆罗多,并为两位王子举行了灌顶。

7.100.20

नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् ।
भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥ ७.१००.२० ॥

在吉星之下,让安吉罗斯之子走在前面,婆罗多与军队及两位王子一同出发了。

7.100.21

सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।
राघवानुगता दूरं दुराधर्षा सुरैरपि ॥ ७.१००.२१ ॥

那支军队仿佛与因陀罗同在,从城中出发,跟随罗怙之子走了很远,即使诸神也无法战胜。

7.100.22

मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।
अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥ ७.१००.२२ ॥

食肉的生灵和极其巨大的罗刹,因渴望鲜血,紧随婆罗多而行。

7.100.23

भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।
गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ॥ ७.१००.२३ ॥

许多以肉为食、极其凶恶的鬼神群,想吃乾达婆之子的肉,成千上万地到来。

7.100.24

सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।
बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ ७.१००.२४ ॥

成千上万的狮子、老虎、野猪以及飞翔天空的鸟类,走在军队的前面。

7.100.25

अध्यर्धमासमुषिता पथि सेना निरामया ।
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ ७.१००.२५ ॥

军队在路上停留了一个半月,无病无疾,满是欢欣饱足之人,终于抵达了俱伽耶国。