ヴァールミーキのラーマーヤナ · サルガ 7.102
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.102.1
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।
वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ॥ ७.१०२.१ ॥
これを聞いてラーガヴァ(ラーマ)は兄弟とともに喜び、そして驚くべき言葉をラクシュマナに告げた。
7.102.2
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥ ७.१०२.२ ॥
スミトラーの息子よ、おまえのこの二人の王子、法に通じたアンガダとチャンドラケートゥは、王国のために勇猛で堅固である。
7.102.3
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।
रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ॥ ७.१०२.३ ॥
この二人を王国に即位させよう。よい場所を定めよ。美しく広やかで、この二人の弓手が楽しく住めるところを。
7.102.4
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥ ७.१०२.४ ॥
善き者よ、王に苦しみがなく、修行所が破壊されることもない場所を探してくれ。我らが過ちを犯さぬように。
7.102.5
तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः ॥ ७.१०२.५ ॥
ラーマがこう言うと、バラタは答えた。「このカールパタの地は美しく、病のないところです。」
7.102.6
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।
चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥ ७.१०२.६ ॥
そこに偉大なるアンガダのための都を築け。そしてチャンドラケートゥのためには、極めて美しく病のないチャンドラカーンタという都を。
7.102.7
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ ७.१०२.७ ॥
ラーghava はバラタの言葉を受け入れ、その地を支配下に置いて、アンガダのためにそこを定めた。
7.102.8
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ ७.१०२.८ ॥
アンガダの美しい都もまたアンガダのために定められ、努力を要しない行いのラーマによって麗しく、よく守られた。
7.102.9
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥ ७.१०२.९ ॥
マッラの地においてチャンドラケートゥのために定められたその都は、チャンドラカーンター(月光石)の名で知られ、天界の都のように神々しかった。
7.102.10
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।
ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥ ७.१०२.१० ॥
そのときラーマ、ラクシュマナ、バラタは大いに喜び、戦において不敗の者たちは灌頂を行った。
7.102.11
अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥ ७.१०२.११ ॥
二人の王子に灌頂を授けたのち、ラーghavaはアンガダを西の地へ、チャンドラケートゥを北へ向かうよう送り出した。
7.102.12
अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥ ७.१०२.१२ ॥
サウミトリ(ラクシュマナ)もアンガダに随行し、バラタはチャンドラケートゥの後衛となった。
7.102.13
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥ ७.१०२.१३ ॥
ラクシュマナはアンガディーヤーに一年滞在し、不敗の息子が据えられたのち、再びアヨーディヤーに戻った。
7.102.14
भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।
अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥ ७.१०२.१४ ॥
バラタも同様に一年以上滞在したのち、再びアヨーディヤーに来て、ラーマの足元に仕えた。
7.102.15
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।
कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ॥ ७.१०२.१५ ॥
サウミトリとバラタの二人はラーマの足に帰依していたが、愛情のゆえに過ぎ去った時を気づかなかった。二人とも極めて正しい人であった。
7.102.16
एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥ ७.१०२.१६ ॥
こうして彼らの一万年が過ぎた。彼らはダルマに努め、町の政務に絶えず従事していた。
7.102.17
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।
त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ॥ ७.१०२.१७ ॥
時を過ごし、心は満ち足り、吉祥に囲まれ、ダルマの都にしっかりと安住したこの三人は、大祭において善く供えられた、輝く光の三つの火のようであった。