Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.104

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.104.1

शृणु राजन्महासत्व यदर्थमहमागतः ।
पितामहेन देवेन प्रेषितो ऽस्मि महाबल ॥ ७.१०४.१ ॥

国王啊,大有德者,请听我为何而来。大力者啊,是神祖父派遣了我。

7.104.2

तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय ।
मायासम्भावितो वीर कालः सर्वसमाहरः ॥ ७.१०४.२ ॥

征服敌城者啊,前世我是你的儿子。英雄啊,我是由幻力所生的时间,毁灭一切者。

7.104.3

पितामहश्च भगवानाह लोकपतिः प्रभुः ।
समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ॥ ७.१०४.३ ॥

世界之主、至尊的神祖父说道:温和者啊,已与你立下约定,以完全守护诸世界。

7.104.4

सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।
महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ॥ ७.१०४.४ ॥

往昔你自以幻力收摄诸世界,躺卧在大海的水上,先生出了我。

7.104.5

भोगवन्तं ततो नागमनन्तमुदकेशयम् ।
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥ ७.१०४.५ ॥

随后你以幻力生出了栖卧水中的大蛇名为Bhogavān,即无尽者Ananta,以及两位大力的生灵。

7.104.6

मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ।
इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ॥ ७.१०४.६ ॥

摩图与凯塔巴——他们的骸骨堆覆盖了这充满山岳的大地,于是它成为了大地,即摩希。

7.104.7

पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि ।
प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ॥ ७.१०४.७ ॥

在如太阳般光辉的神圣莲花上,你也从你的肚脐中生出了我,并将造化主的全部职责托付于我。

7.104.8

सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् ।
रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥ ७.१०४.८ ॥

因此,我放下重担,皈依你,诸界之主。请为众生安排庇护;你是增益我光辉的那一位。

7.104.9

ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ७.१०४.९ ॥

于是,你也从那不可战胜的永恒之态中,为保护一切众生而成就了毗湿奴的身份。

7.104.10

अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः ।
समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ॥ ७.१०४.१० ॥

你将在阿迪提之中成为一个有力的儿子,增强诸兄弟的力量。当事务发生时,你将堪当助他们之任。

7.104.11

स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।
रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ॥ ७.१०४.११ ॥

诸界中最殊胜者啊!众生惊恐之时,你为了诛杀罗波那,将心念系于人类之中。

7.104.12

दश वर्षसहस्राणि दश वर्षशतानि च ।
कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ॥ ७.१०४.१२ ॥

往昔,你自己凭自身之意,定下了你居留人间的期限:一万年又一千年。

7.104.13

स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।
कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥ ७.१०४.१३ ॥

你是由心意所生的儿子;你在人间的寿命已经圆满。人中之杰啊,你返回的时刻已经临近。

7.104.14

यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।
वस वा वीर भद्रं त एवमाह पितामहः ॥ ७.१०४.१४ ॥

伟大的国王啊,如果你还想再次照护你的臣民,那就留下吧;英雄啊,愿你吉祥——祖父(梵天)这样说。

7.104.15

अथ वा विजिगीषा ते सुरलोकाय राघव ।
सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥ ७.१०४.१५ ॥

或者,罗怙之后啊,若你想征服诸神之界,愿受毗湿奴护佑的诸神免于烦恼。

7.104.16

श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।
राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥ ७.१०४.१६ ॥

罗怙之后听罢祖父所说、由时间所促发的言语,便笑着说出了关于一切毁灭的话。

7.104.17

श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।
प्रीतिर्हि महती जाता तवागमनसम्भवा ॥ ७.१०४.१७ ॥

聆听众神之神这至高而奇妙的言语,我心中生起了巨大的喜悦,这喜悦正因你的到来而生。

7.104.18

त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ।
भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ॥ ७.१०४.१८ ॥

我的降生是为了三界的使命。愿你吉祥——我将回到我来的地方去。

7.104.19

हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा ।
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ।
स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥ ७.१०४.१९ ॥

你确在我心中,也已来到这里,此事毋庸置疑。我受诸神驱使,理当在一切事务中遵从祖父所言,哦,毁灭一切者。