蚁垤《罗摩衍那》 · 篇 7.107
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.107.1
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ।
पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ॥ ७.१०७.१ ॥
罗摩送走罗什曼那,满怀悲痛与忧伤,对家庭祭司、大臣和城中长者说了这番话。
7.107.2
अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ।
अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥ ७.१०७.२ ॥
今日我将立法爱好者婆罗多为王,他是阿逾陀勇猛的主人;然后我将前往森林。
7.107.3
प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः ।
अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ॥ ७.१०७.३ ॥
把准备的物品拿进来,不可耽误时间。今天我就与罗什曼那走上先祖走过的道路。
7.107.4
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ।
मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ॥ ७.१०७.४ ॥
众人听到罗怙后裔所说的这番话,都极为悲痛;他们以头伏地,仿佛失去了生气。
7.107.5
भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् ।
राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥ ७.१०७.५ ॥
婆罗多听到罗摩的话,也惊呆了;他斥责王位,并对罗怙后裔说了这番话。
7.107.6
सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि ।
न कामये यथा राज्यं त्वां विना रघुनन्दन ॥ ७.१०७.६ ॥
陛下,我以真理发誓:即便在天界,我也不愿要王位,离开你,罗怙后裔的喜悦啊。
7.107.7
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप ।
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ॥ ७.१०७.७ ॥
国王啊,人主,请为这二人加冕:英勇的俱舍掌管憍萨罗,同样,罗婆掌管北方诸地。
7.107.8
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः ।
इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ॥ ७.१०७.८ ॥
愿勇捷的使者前往舍special特鲁格那处,即刻告知我们此行是赴天界,不要延误。
7.107.9
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् ।
पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ॥ ७.१०७.९ ॥
婆罗多所言既毕,婆私吒见城中百姓低头、为悲痛所煎熬,便说了这番话。
7.107.10
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ।
ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ॥ ७.१०७.१० ॥
爱子罗摩,看这些跪伏在地上前来的臣民。知道他们的所求,不要使他们不快。
7.107.11
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् ।
किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ॥ ७.१०७.११ ॥
罗摩听从婆私吒之言,扶起臣民,对众人说:“我该怎么做?”
7.107.12
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् ।
गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥ ७.१०७.१२ ॥
于是众臣民对罗摩说:“罗摩啊,你去哪里,在你前往的时候,我们就跟随你去哪里。”
7.107.13
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः ।
सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ॥ ७.१०७.१३ ॥
啊,迦古私塔!若你对臣民的爱真挚无上,愿我们携妻儿与你同行于正道。
7.107.14
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा ।
वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ॥ ७.१०७.१४ ॥
啊,主上!无论是苦行林、险峻之地、河流还是大海,若你不弃我们,请引领我们众人同行。
7.107.15
एषा नः परमा प्रीतिरेष नः परमो वरः ।
हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ॥ ७.१०७.१५ ॥
这便是我们最高的情意,这便是我们最大的心愿。啊,国王!追随您的情意,常驻我们心中。
7.107.16
पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् ।
स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ॥ ७.१०७.१६ ॥
罗怙之后见臣民笃诚之心,便说:「好。」当日,他思量自己由业行所定的终局。
7.107.17
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।
अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ॥ ७.१०७.१७ ॥
罗摩为英勇的拘舍设立了拘萨罗王位,为罗婆设立了北方诸地之王位——这两位伟大的灵魂,拘舍与罗婆。
7.107.18
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः ।
परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ॥ ७.१०७.१८ ॥
将两位受封的爱子安置于膝上,并在城中确立其位,那大臂者随即拥抱他们,并屡次亲吻他们的头顶。
7.107.19
रथानां तु सहस्राणि नागानामयुतानि च ।
दशायुतानि चाश्वानामेकैकस्य धनं ददौ ॥ ७.१०७.१९ ॥
他给每人赠予财富:数千辆战车、数万头象和数十万匹马。
7.107.20
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ।
स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ॥ ७.१०७.२० ॥
他把两位兄弟库沙和罗婆派往他们自己的城市,那里珠宝丰富、财富充盈,周围是欢乐而健壮的百姓。
7.107.21
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा ।
दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ॥ ७.१०७.२१ ॥
他为英勇的儿子们举行灌顶,并让他们在城中就位后,便派遣使者前往大德的舍睹卢祇那。