Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.111

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.111.1

एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ।
रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ॥ ७.१११.१ ॥

至此为此叙事及其续篇,受梵天尊崇。这部由蚁垤(Vālmīki)所作的主要作品,名为《罗摩衍那》。

7.111.2

ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् ।
येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ७.१११.२ ॥

此后毗湿奴如前一般安居于天界之城,他遍及此三界,包括动与不动之物。

7.111.3

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ॥ ७.१११.३ ॥

此后诸天神、乾闼婆、悉陀与大仙人皆欢喜,常在天界聆听神圣的《罗摩衍那》。

7.111.4

इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।
रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ॥ ७.१११.४ ॥

此叙事赐予长寿与福运,能消除罪业。智者应在祭祖(śrāddha)仪式中诵读与吠陀等同的《罗摩衍那》。

7.111.5

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ ७.१११.५ ॥

无子者得子,贫者得财;凡诵读其中哪怕一个诗句的四分之一,便能脱离一切罪业。

7.111.6

पापान्यपि च यः कुर्यादहन्यहनि मानवः ।
पठत्येकमपि श्लोकं पापात्स परिमुच्यते ॥ ७.१११.६ ॥

即便每日造作罪业之人,若诵读哪怕一首诗颂,也能完全脱离罪业。

7.111.7

वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् ।
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥ ७.१११.७ ॥

应当布施衣物、母牛和黄金给诵者;诵者欢喜时,一切诸神也都欢喜。

7.111.8

एतदाख्यानमायुष्यं पठन्रामायणं नरः ।
सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ॥ ७.१११.८ ॥

此传说延年益寿。诵读《罗摩衍那》之人,在此世与子孙同住,死后在此也受到尊崇。

7.111.9

अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् ।
ऋषभं प्राप्य राजानं निवासमुपयास्यति ॥ ७.१११.९ ॥

可爱的阿逾陀城也将空寂多年;之后得到一位卓越的君王,它又将重新有人居住。

7.111.10

एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् ।
कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ॥ ७.१११.१० ॥

此传说连同其未来与《末篇》部分,能延年益寿。普勒察塞之子作成此篇,梵天也予以认可。

7.111.11

अश्वमेधसहस्रस्य वाजपेयायुतस्य च ।
लभते श्रावणादेव सर्गस्यैकस्य मानवः ॥ ७.१११.११ ॥

人只要听闻此篇中的一章,便能获得千次马祠与万次婆闍波耶祭的功德。

7.111.12

प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।
नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।
गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ॥ ७.१११.१२ ॥

聆听过《罗摩衍那》的人,在此世便已抵达普拉亚伽等圣渡口、恒河等河流、奈弥沙等森林,以及俱卢之野等圣地。

7.111.13

हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ।
यश्च रामायणं लोके शृणोति सदृशावुभौ ॥ ७.१११.१३ ॥

在日食时于俱卢之野布施一担黄金的人,与在此世间聆听《罗摩衍那》的人,二者获得同等功德。

7.111.14

सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् ।
सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ॥ ७.१११.१४ ॥

以正确的信心聆听罗摩(罗怙之裔)故事的人,免除一切罪业,往生毗湿奴的世界。

7.111.15

आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।
यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ॥ ७.१११.१५ ॥

此乃最初的诗篇,仙人所作,往昔由蚁垤仙人(Vālmīki)所创。凡常以虔敬之心聆听者,愿得毗湿奴所属之身。

7.111.16

पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा ।
सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ॥ ७.१११.१६ ॥

子嗣与妻室增长,财富与后代亦然。知此为真,心有节制者应当聆听。

7.111.17

गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ ७.१११.१७ ॥

此《罗摩衍那》即是《伽耶特利》(Gāyatrī)之形,至为殊胜。

7.111.18

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ ७.१११.१८ ॥

无子者得子,贫穷者得财。凡诵读其中哪怕一句者,皆免一切罪业。

7.111.19

यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह ।
भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ ७.१११.१९ ॥

若每日虔诚诵读或聆听罗怙之后(罗摩)的事迹,便可脱离罪垢,获得长寿。

7.111.20

चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ।
श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ॥ ७.१११.२० ॥

欲求至善者,应常常思念罗怙之后,并每日向婆罗门宣说此叙事。

7.111.21

यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।
सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ ७.१११.२१ ॥

凡诵读罗怙那陀(罗摩)全部事迹者,寿终时必往毗湿奴界,此无疑也。

7.111.22

पिता पितामहस्तस्य तथैव प्रपितामहः ।
तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ॥ ७.१११.२२ ॥

其父、其祖、其曾祖,乃至彼等之父与其父之父,皆往生毗湿奴,此无疑也。

7.111.23

चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु ।
तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ॥ ७.१११.२३ ॥

罗怙之后的事迹常能赐予四大人生目标(法、利、欲、解脱);故勤勉者应当常以至诚之心聆听。

7.111.24

शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ ७.१११.२४ ॥

若以虔敬之心聆听《罗摩衍那》,哪怕仅一句之四分之一或一字,亦可往生梵天之界,常受梵天礼敬。

7.111.25

एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ ७.१११.२५ ॥

此乃往昔所发生之传说。愿你们吉祥。请无畏地诵传吧,愿毗湿奴之力日益增长。