蚁垤《罗摩衍那》 · 篇 7.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.12.1
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ ७.१२.१ ॥
那时,罗刹之王与两位兄弟一同受封,仔细考虑了将其妹罗刹女嫁出的事宜。
7.12.2
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।
ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ ७.१२.२ ॥
他将其妹罗刹女名叫首潘那卡的,嫁给了檀那婆之主、迦罗刻耶之子名叫电舌的。
7.12.3
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् ।
तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ७.१२.३ ॥
将她嫁出之后,这罗刹自己去打猎;在那里,罗摩啊,他看见了名叫摩耶、乃提之子的一位。
7.12.4
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।
अपृच्छत्को भवानेको निर्मनुष्यमृगे वने ।
अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ॥ ७.१२.४ ॥
罗波那(十首之王)看见他与一位少女在一起,便问道:“你是谁,独自在这无人无兽的森林中?你为何与这位鹿眼女子站在一起?”
7.12.5
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ।
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ७.१२.५ ॥
于是摩耶对那位发问的夜行者说:“罗摩啊,请听。我将把我的全部经历照实讲给你听。”
7.12.6
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ।
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ७.१२.६ ॥
亲爱的,有一位天女名叫醯摩(Hemā)——如果你以前听说过——诸神把她赐给了我,正如补罗米被赐给百祭之主因陀罗一样。
7.12.7
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् ।
सा च दैवतकार्येण त्रयोदश समा गताः ॥ ७.१२.७ ॥
亲爱的,我心系于她,停留了五百年;而她因诸神之事,度过了十三年。
7.12.8
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् ।
वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ ७.१२.८ ॥
此后第十四年,有一座黄金之城,以金刚石与青金石装饰,由摩耶以幻术所造。
7.12.9
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥ ७.१२.९ ॥
我在那里,失去了她,悲痛而孤苦地居住。
7.12.10
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ।
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥ ७.१२.१० ॥
因此我从那城带着女儿来到森林。大王,此女是我亲生,在她腹中长大。
7.12.11
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् ।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ७.१२.११ ॥
我与她同来,为她寻找夫婿。对于所有求名誉的人来说,做女儿的父亲确实是一种忧愁。
7.12.12
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ।
पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ॥ ७.१२.१२ ॥
女儿总是使两个家族处于忧疑之中。我也曾从这位妻子处生了两个儿子。
7.12.13
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।
एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ ७.१२.१३ ॥
第一个是摩耶毗,亲爱的孩子,其次是敦度毗。你问什么,我便如实把一切都告诉了你。
7.12.14
त्वामिदानीं कथं तात जानीयां को भवानिति ।
एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ॥ ७.१२.१४ ॥
"亲爱的孩子,现在我怎样才能知道你是谁?"如此被问,那罗刹谦恭地说了这番话。
7.12.15
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।
मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ॥ ७.१२.१५ ॥
我是补罗私底的后裔,名叫十首。我是仙人毗首罗婆之子,作为梵天的第三代子孙而降生。
7.12.16
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।
महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ।
दातुं दुहितरं तस्मै रोचयामास यत्र वै ॥ ७.१२.१६ ॥
罗摩啊,罗刹王如此说后,檀那婆摩耶认出是大仙之子,心中欢喜,便决定将女儿嫁给他。
7.12.17
करेण तु करं तस्या ग्राहयित्वा मयस्तदा ।
प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ ७.१२.१७ ॥
于是摩耶亲自将女儿的手交到他手中,然后笑着,阿修罗之王对罗刹王说了这番话。
7.12.18
इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता ।
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ ७.१२.१८ ॥
"国王啊,这是我的女儿,由天女赫玛怀胎所生。此少女名叫曼陀达利,请接纳她为你的妻子。"
7.12.19
बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत ।
प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ॥ ७.१२.१९ ॥
罗摩啊,十首罗波那回答他说:“就这样吧。”他在那里点燃圣火,举行了执手之礼。
7.12.20
स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥ ७.१२.२० ॥
罗摩啊,那位摩耶知晓以苦行为财富的仙人的诅咒;得知此事后,他便把她作为其祖先家族之人交给了他。
7.12.21
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ।
परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ॥ ७.१२.२१ ॥
他还赠给他一种不会落空、极为奇妙的威力,它是以至高的苦行获得的,罗波那借此击伤了罗什曼那。
7.12.22
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः ।
गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ॥ ७.१२.२२ ॥
如此娶得妻子后,楞伽之主、强大的罗波那前往城中,为他的两个兄弟带来了妻子。
7.12.23
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ।
तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ॥ ७.१२.२३ ॥
罗波那安排名为伐遮遮婆罗的、毗卢遮那的外孙女成为鸠槃羯吒的妻子。
7.12.24
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।
सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ॥ ७.१२.२४ ॥
毗भीषण娶得乾闼婆王舍卢沙之女、心胸高尚、通晓法的萨拉玛为妻。
7.12.25
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि ।
सरस्तदा मानसं तु ववृधे जलदागमे ॥ ७.१२.२५ ॥
在那曼那萨湖的岸边,又生出一个名为曼那萨的湖;雨季来临时,这曼那萨湖便渐渐扩大。
7.12.26
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।
सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ॥ ७.१२.२६ ॥
其母出于爱怜,高声呼喊道:“湖啊,请让我长大吧!”于是这少女便成为了萨拉玛。
7.12.27
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ।
स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ ७.१२.२७ ॥
如此,那些娶了妻子的罗刹在那里欢乐度日,各自前往自己的妻子身边,就像乾闼婆在难陀园中一样。
7.12.28
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ।
स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ ७.१२.२८ ॥
此后,曼陀odari生下一子,名为迷迦那达;你们称他为因陀罗耆(因陀罗耆)。
7.12.29
जातमात्रेण हि पुरा तेन रावणसूनुना ।
रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ ७.१२.२९ ॥
他一出生,罗波那之子便啼哭着发出如云中雷鸣般的巨大吼声。
7.12.30
जडीकृता च सा लङ्का तस्य नादेन राघव ।
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ ७.१२.३० ॥
啊,罗怙婆!因他那声音,楞伽城竟僵住不动;他的父亲亲自为他取名为迷迦那达。
7.12.31
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे ।
रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ॥ ७.१२.३१ ॥
罗摩啊,那时他在罗波那吉祥的内宫中成长,由优秀的女子守护,如同被柴薪掩盖的火。
7.12.32
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ॥ ७.१२.३२ ॥
罗波那之子,给父母带来巨大的喜悦。