Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.14.1

ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः ।
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥ ७.१४.१ ॥

于是,与他那六位总是因力量而骄横的大臣一同,与摩诃陀罗和普拉哈斯塔,以及摩里遮、舍俱和萨罗那一起。

7.14.2

धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना ।
वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥ ७.१४.२ ॥

被总是渴望战斗的英雄达摩罗迦包围,这位光辉者怒气冲冲地出发,仿佛要焚烧世界。

7.14.3

पुराणि स नदीः शैलान्वनान्युपवनानि च ।
अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥ ७.१४.३ ॥

越过城市、河流、山峦、森林和园林,他顷刻间便抵达了凯拉萨山。

7.14.4

सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु ।
युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ॥ ७.१४.४ ॥

听说那位罗刹王,这恶人,极为渴望战斗,正与大臣们驻扎在那座山上。

7.14.5

यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।
राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ ७.१४.५ ॥

夜叉们无法在这罗刹面前站立;得知他是国王的兄弟后,便前往财神所在之处。

7.14.6

ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् ।
अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥ ७.१४.६ ॥

他们前去禀报了那位兄弟的全部意图;得到财神允许后,欢欣地奔赴战场。

7.14.7

ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः ।
तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ॥ ७.१४.७ ॥

于是两军的骚动如大海翻涌般增长,那罗刹王的军队仿佛要撼动一座山峦。

7.14.8

ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् ।
व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ ७.१४.८ ॥

于是夜叉与罗刹混杂的激烈战斗爆发了,那里罗刹王的大臣们陷入忧惧。

7.14.9

स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः ।
हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ ७.१४.९ ॥

十首的夜行者见到如此大军,发出许多欢呼,怒气冲冲地向前冲去。

7.14.10

ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः ।
तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ॥ ७.१४.१० ॥

罗刹之主那些威猛无比的大臣,每人都与一千名夜叉交战。

7.14.11

ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।
हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ ७.१४.११ ॥

于是,十首罗刹王遭受棍棒、铁杵、刀剑、长枪与标枪的击打,却仍冲入那支大军之中。

7.14.12

स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः ।
वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ ७.१४.१२ ॥

在那里,遭受打击的十面王仿佛窒息一般;如同被倾盆大雨的云流包围的山峦,他四面受阻。

7.14.13

न चकार व्यथां चैव यक्षशस्त्रैः समाहतः ।
महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥ ७.१४.१३ ॥

他虽被夜叉的兵器击中,却毫无痛楚,如同群山被云中成百道水流浇灌而不觉苦恼。

7.14.14

स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् ।
प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ ७.१४.१४ ॥

这个恶徒高举如死神之杖的铁锤冲入军中,把夜叉们送往阎摩的住所。

7.14.15

स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम् ।
वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ॥ ७.१४.१५ ॥

如同被风吹动的烈火焚烧堆满干柴的广阔林莽,他焚毁了那支夜叉军队。

7.14.16

तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ।
अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥ ७.१४.१६ ॥

在那里,大臣摩诃陀罗、室迦等人使夜叉们只剩寥寥数人,犹如狂风吹散云朵。

7.14.17

केचित्समाहता भग्नाः पतिताः समरक्षितौ ।
ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ ७.१४.१७ ॥

有些人被击中、溃散,倒在战场上;有些人愤怒地用锋利的牙齿咬自己的嘴唇。

7.14.18

श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे ।
सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥ ७.१४.१८ ॥

疲惫的夜叉们相互拥抱,丢下兵器,在战场上瘫倒下去,如同被水冲毁的河岸。

7.14.19

हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले ।
प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ॥ ७.१४.१९ ॥

在大地上战斗而死、升往天界的人,与从天上观看的诸仙人群之间,已无任何分别。

7.14.20

भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान् ।
धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥ ७.१४.२० ॥

财神(俱毗罗)见那些威猛的夜叉王已被击溃,便派遣夜叉战士前去。

7.14.21

एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ।
प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ॥ ७.१४.२१ ॥

罗摩啊,此时派出了一名名为“战斗之刺”(Saṃyodhakaṇṭaka)的夜叉,率领庞大的军队与坐骑,猛然扑向敌人。

7.14.22

तेन चक्रेण मारीचो विष्णुनेव रणे हतः ।
पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ ७.१४.२२ ॥

摩利架被那圆盘在战场上击倒,如同被毗湿奴所击;他坠落于地,犹如功德耗尽的星辰从山上坠下。

7.14.23

ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ।
तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ॥ ७.१४.२३ ॥

但片刻之后,他恢复知觉并休息,便与那夜叉交战;那夜叉败逃了。

7.14.24

ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ।
मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ ७.१४.२४ ॥

随后,那身披金色斑斓、洒满琉璃尘土的身影,越过守门者的界限,进入了门楼之间。

7.14.25

तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ।
सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥ ७.१४.२५ ॥

大王啊,当那位十颈夜行者进入时,名为苏利耶跋努的守门人阻止了他。

7.14.26

स वार्यमाणो यक्षेण प्रविवेश निशाचरः ।
यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ ७.१४.२६ ॥

虽被夜叉阻拦,那夜行者仍闯了进去。罗摩啊,他被阻止时,那罗刹也没有停下。

7.14.27

ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।
रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ ७.१४.२७ ॥

随后他拔起门楼,那夜叉便用它击打他。他流血不止,闪耀如同涌出矿物溪流的山岳。

7.14.28

स शैलशिखराभेण तोरणेन समाहतः ।
जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ॥ ७.१४.२८ ॥

他被那如山峰般的门楼猛击,却因自生者(梵天)所赐的恩惠而毫发无损。

7.14.29

तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ।
नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ ७.१४.२९ ॥

随后,他用同一座门楼反击那夜叉。那时夜叉的身体化为灰烬,再也看不见了。

7.14.30

ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम् ।
ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः ।
त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ॥ ७.१४.३० ॥

他们见罗刹的威勇,全都逃散。被恐惧所困,丢弃兵器,疲惫而面色苍白,他们便躲进河流与洞穴之中。