蚁垤《罗摩衍那》 · 篇 7.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.19.1
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।
नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ ७.१९.१ ॥
于是,击败了摩禄多之后,罗刹之主、十首者达萨那那渴望战斗,前往诸王的城市。
7.19.2
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् ।
अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ ७.१९.२ ॥
罗刹之主走近那些如因陀罗与伐楼那般的王中之王,说道:"请给我一场战斗。"
7.19.3
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः ।
अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ ७.१९.३ ॥
"你们说:'我们已被征服';这是我坚定的决心。否则,对于如此行事的人,解脱是得不到的。"
7.19.4
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः ।
मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः ।
निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ ७.१९.४ ॥
于是,那些无所畏惧、有智慧、坚守法道、力量强大的诸王,互相商议后,知晓了敌人的卓越力量,便说:"我们已被征服。"
7.19.5
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।
एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ ७.१९.५ ॥
杜耆安陀、苏罗陀、伽地、伽耶王和补卢罗婆,这些国王都说:"孩子,我们已被征服。"
7.19.6
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ॥ ७.१९.६ ॥
于是罗刹之主罗波那抵达阿逾陀...
7.19.7
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ।
स तं पुरुषशार्दूलं पुरन्दरसमं बले ॥ ७.१९.७ ॥
阿逾陀由阿那罗尼亚妥善守护,犹如因陀罗守护的阿摩罗跋提。他是人中猛虎,力量与补兰陀罗相当。
7.19.8
प्राह राजानमासाद्य युद्धं देहीति रावणः ।
निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ ७.१९.८ ॥
罗波那走到国王面前说:"与我交战,或者说“我败了”。就这样遵从我的命令吧。"
7.19.9
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ।
अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ ७.१९.९ ॥
阿那罗尼亚,阿逾陀之主,听到那恶人的话后大怒,对罗刹之王说道。
7.19.10
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ।
सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ ७.१९.१० ॥
"罗刹之王啊,我与你单挑。立刻站稳,做好准备——我也同样准备好了。"
7.19.11
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् ।
निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ ७.१९.११ ॥
于是,那支庞大的军队——先前已被听闻此事者所击败——出发了:人主的军队,准备诛杀罗刹。
7.19.12
नागानां दशसाहस्रं वाजिनां नियुतं तथा ।
रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ॥ ७.१९.१२ ॥
象兵一万,马兵十万,战车亦有数千,还有步兵——啊,人中之最!
7.19.13
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे ।
ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ॥ ७.१९.१३ ॥
他们遮蔽大地,与步兵和战车一同出征沙场;于是,善战的英雄啊,一场极为宏大的战斗开始了。
7.19.14
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ।
तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥ ७.१९.१४ ॥
这是阿那罗尼亚王与罗刹之主之间的奇特战斗;那位君王的军队遭遇罗波那的大军……
7.19.15
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले ।
युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ॥ ७.१९.१५ ॥
那时,他的全部大军如同投入火中的祭品般消亡;他长久作战,展现了至高的勇武……
7.19.16
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् ।
प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् ।
नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ ७.१९.१६ ॥
残余的军队迅速冲向那燃烧的敌人,像飞蛾扑向火焰一样涌入那混乱的人群;军队在那里消亡,如同投入火中的祭品。
7.19.17
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् ।
महार्णवं समासाद्य वनापगशतं यथा ॥ ७.१९.१७ ॥
那位君王看到自己强大的军队正在覆灭,如同成百上千条林间河流汇入大海而消失。
7.19.18
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।
आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ ७.१९.१८ ॥
于是,那位君王亲自拉开如同因陀罗之弓的弓,因愤怒而昏乱,走向那罗波那。
7.19.19
अनरण्येन ते ऽमात्या मारीचशुकसारणाः ।
प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ ७.१९.१९ ॥
那些大臣被阿那罗尼亚击败,连同摩利遮、shuka、萨罗那和普拉哈斯塔,如鹿一般四散奔逃。
7.19.20
ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ ७.१९.२० ॥
于是伊克舒瓦库家族的喜悦者向那罗刹王的头上射出八百支箭。
7.19.21
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् ।
वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ ७.१९.२१ ॥
那些落在他身上的箭,竟无处造成伤口,就像雨水从云端落在山峰之巅一样。
7.19.22
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।
तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥ ७.१९.२२ ॥
那时,愤怒的罗刹王用手掌击打那位国王的头部,他便从战车上跌落下来。
7.19.23
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।
वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ ७.१९.२३ ॥
那位国王倒在地上,四肢瘫软颤抖,就像森林中被雷电击焦而倒下的娑罗树。
7.19.24
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।
किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ॥ ७.१९.२४ ॥
罗刹笑着对那位伊克舒瓦库之后、大地之主说:“你与我交战,如今得到了什么结果?”
7.19.25
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।
शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥ ७.१९.२५ ॥
人主啊,三界之中没有人敢与我单打独斗。我想你沉溺于享乐,所以没有听闻我的力量。
7.19.26
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।
किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ ७.१९.२६ ॥
他这样说完,心神衰弱的国王说道:此时此地还能做什么?时间确实不可逆转。
7.19.27
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।
कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ॥ ७.१९.२७ ॥
罗刹啊,我并非被你这自夸之人所战胜。我是被时间所毁灭,然而你却成了我的因由。
7.19.28
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।
नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ॥ ७.१९.२८ ॥
然而到了生命将尽之时,我还能做什么?罗刹啊,我并未在战斗中退缩;是你在我奋战之时将我杀死。
7.19.29
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ।
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥
यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ॥ ७.१९.२९ ॥
罗刹啊,我承继伊克瓦库之家的传统,故说此言:若我曾布施,若我曾行祭火,若我的善行与苦行真实,若我的臣民得到妥善守护,则愿我此言为真。
7.19.30
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।
रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥ ७.१९.३० ॥
在这伟大的伊克瓦库家族中,将诞生名为罗摩的十车王之子,他将夺去你的性命。
7.19.31
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।
तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥ ७.१९.३१ ॥
此时,如云中雷鸣般高亢的天神鼓被敲响。那诅咒被宣说时,天空中降下花雨。
7.19.32
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।
स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ॥ ७.१९.३२ ॥
于是,王中之王啊,那位国王前往天界三界之处。国王升天之后,那罗刹便悄然离去。