Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.24.1

निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् ।
जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ ७.२४.१ ॥

途中返回时,极其邪恶的罗波那欢喜地在路上劫走了诸王、仙人、天神和乾闼婆的女儿。

7.24.2

दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति ।
हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ॥ ७.२४.२ ॥

那罗刹一旦看见美丽的少女或妇人,便杀死她的亲属,把她关进自己的飞车中。

7.24.3

एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।
यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ॥ ७.२४.३ ॥

就这样,他把蛇女、罗刹女、阿修罗女、人间女子,以及夜叉和檀那婆之女都安置到了飞车上。

7.24.4

ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् ।
तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ॥ ७.२४.४ ॥

她们全都同时因悲痛而流下泪水,那泪水如同从忧惧之火中升起的火焰。

7.24.5

ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।
आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ॥ ७.२४.५ ॥

那些无瑕的少女因恐惧和悲伤而流下的不祥泪水,使那飞车充满,如同大海被河流注满。

7.24.6

नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।
दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ॥ ७.२४.६ ॥

蛇女、乾闼婆女、大仙之女,以及提迭与檀那婆之女,成百上千地在飞车中哭泣。

7.24.7

दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ।
पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ ७.२४.७ ॥

长发女子,肢体秀美,面如满月,乳房丰满,光彩犹如金刚祭坛的中央。

7.24.8

रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः ।
स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ॥ ७.२४.८ ॥

迷人的女子,臀部如战车的车轴基座,宛如天界仙女,闪耀着精炼黄金的光泽。

7.24.9

शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ।
तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ॥ ७.२४.९ ॥

她们因悲伤、痛苦和恐惧而战栗,心神慌乱,腰身纤细;她们的叹息之风使四周燃起了大火。

7.24.10

अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् ।
दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ॥ ७.२४.१० ॥

花车如同被约束了火焰的祭火般闪耀;那些陷入悲痛的女子,落入十首王的掌控,都在其中。

7.24.11

दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।
काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ॥ ७.२४.११ ॥

面容与眼神悲戚的少女,纤细如落入狮子掌中的母鹿。其中一人心想:“他会不会把我吃掉?”

7.24.12

काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ।
दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥ ७.२४.१२ ॥

另一人痛苦万分,心想:“他也会杀我吧?”被悲痛和忧伤包围的女子们一起放声哀哭。

7.24.13

कथं नु खलु मे पुत्रो भविष्यति मया विना ।
कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥ ७.२४.१३ ॥

没有我,我的儿子将如何?陷入悲伤之海的母亲和兄长将如何?

7.24.14

।
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।
मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ॥ ७.२४.१४ ॥

哀哉!没有夫君,我将如何?死神啊,我恳求你,带走这个与苦难同行的我吧。

7.24.15

किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ ७.२४.१५ ॥

我们在前世之身做了什么恶业呢?

7.24.16

एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ।
न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ॥ ७.२४.१६ ॥

如此悲痛,她们都坠入悲伤之海;如今我们看不到这份痛苦的尽头。

7.24.17

अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।
यद्दुर्बला बलवता भर्तारो रावणेन नः ॥ ७.२४.१७ ॥

哀哉,这人间世界可耻!没有比这更卑劣的了:我们软弱的夫君被强大的罗波那杀害。

7.24.18

सूर्येणोदयता काले नक्षत्राणीव नाशिताः ।
अहो सुबलवद्रक्षो वधोपायेषु युज्यते ॥ ७.२४.१८ ॥

如同星辰在时节被升起的太阳毁灭,我们也这样被毁灭。哀哉,那极其强大的罗刹正忙于杀戮的手段。

7.24.19

अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते ।
सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ॥ ७.२४.१९ ॥

唉!他竟行此恶行,却不厌恶自己。这恶魔的勇力也与之完全相称。

7.24.20

इदं त्वसदृशं कर्म परदाराभिमर्शनम् ।
यस्मादेष परक्यासु रमते राक्षसाधमः ॥ ७.२४.२० ॥

触碰他人之妻是不相称的行为,因为这最卑劣的罗刹只沉溺于他人之妻。

7.24.21

तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ।
सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ॥ ७.२४.२१ ॥

因此,这个心术不正的人必将因一个女子而丧命。当这些贞洁优秀的女子说出这番话时,

7.24.22

नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ।
शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ॥ ७.२४.२२ ॥

空中的鼓声响起,花雨纷纷落下。他被众女子诅咒,顿时仿佛失去了力量,黯然无光。

7.24.23

पतिव्रताभिः साध्वीभिर्बभूव विमना इव ।
एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ ७.२४.२३ ॥

被忠贞的贤德女子所责,他仿佛神情低落。听着这些女子的哀号,罗刹之首在夜行者的礼敬中进入了楞伽城。

7.24.24

एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।
सहसा पतिता भूमौ भगिनी रावणस्य सा ॥ ७.२४.२४ ॥

此时,一个能随意变化形貌的可怖罗刹女忽然跌倒在地。她正是罗波那的妹妹。

7.24.25

तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।
अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ॥ ७.२४.२५ ॥

罗波那扶起妹妹并加以安慰,说道:“善良的女子啊,这是怎么回事?你想要快点告诉我什么吗?”

7.24.26

सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।
कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ॥ ७.२४.२६ ॥

她双眼含泪、通红,说道:“国王啊,你这强大的人,竟用暴力使我成了寡妇。”

7.24.27

एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।
कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥ ७.२४.२७ ॥

国王啊,这些被称为迦拉克耶的英勇达extya,共计一万四千人,都被你在战场上杀死了。

7.24.28

प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ॥ ७.२४.२८ ॥

比生命还珍贵的我的丈夫,当时在那里,是一位大力的英雄。

7.24.29

सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ।
त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ॥ ७.२४.२९ ॥

他也被你杀死,亲爱的,被那贪图兄弟之物的仇敌所杀。国王啊,我确实被你,正是你自己这位亲属,所杀。

7.24.30

राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ।
ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।
स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ ७.२४.३० ॥

国王啊,因为你,我将承受“寡妇”这个名称。即便在战斗中,你也应该保护女婿吧?是你自己在战场上杀死了他,你难道不感到羞耻吗?

7.24.31

एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।
अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ ७.२४.३१ ॥

妹妹哭诉如此,十首罗波(Daśagrīva)安慰她,以温和的言语说出了这番话。

7.24.32

अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।
दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥ ७.२४.३२ ॥

够了,孩子,哭有什么用?你无需以任何方式惧怕。我会以赏赐、尊荣和恩惠,尽心地让你欢喜。

7.24.33

युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् ।
नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ॥ ७.२४.३३ ॥

我在战斗中昏乱心神,一心求胜,发箭之时,美人啊,在战场上我连自己人还是敌人都分不清。

7.24.34

जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।
तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ॥ ७.२४.३४ ॥

我在战斗的狂热中挥击,没有认出女婿;妹妹,在那场战斗中,你的丈夫被我杀死了。

7.24.35

अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।
भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥ ७.२४.३५ ॥

此时,凡可行之事,我都会为你的好处而做。你就住在有权势的兄长卡拉身边吧。

7.24.36

चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।
प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ॥ ७.२४.३६ ॥

你的兄长将成为一万四千罗刹的主宰;他力量强大,在出征与布施中都将是他们的首领。

7.24.37

तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः ।
भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥ ७.२४.३७ ॥

那里,你姐妹之子、你的兄弟祈罗将成为主君,永远执行你的命令,那夜行的罗刹。

7.24.38

शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।
दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ॥ ७.२४.३८ ॥

愿这位英雄迅速前往守护檀特迦林;大力的鲁沙那将成为他的军队统帅。

7.24.39

तत्र ते वचनं शूरः करिष्यति सदा खरः ।
रक्षसां कामरूपाणां प्रभुरेष भविष्यति ॥ ७.२४.३९ ॥

在那里,这位英雄祈罗将永远遵从你的话;他将成为能随意变化形貌的罗刹之主。

7.24.40

एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।
चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥ ७.२४.४० ॥

说完这些,十首的罗波那为他的军队派出了一万四千名有威力的罗刹。

7.24.41

स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः ।
आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥ ७.२४.४१ ॥

被所有那些形貌可怖的罗刹环绕,愿祈罗无所畏惧地迅速来到檀特迦林。

7.24.42

स तत्र कारयामास राज्यं निहतकण्टकम् ।
सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ॥ ७.२४.४२ ॥

他在那里建立了没有荆棘(敌患)的王国;而首波那伽也住在檀特迦林中。