Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.36.1

ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ।
शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ ७.३६.१ ॥

于是,因儿子之死而痛苦的风神看见了祖父;他抱起那个婴儿,起身站在造物主之前。

7.36.2

चलकुण्डलमौलिस्रक्तपनीयविभूषणः ।
पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ॥ ७.३६.२ ॥

风神身佩摇曳的耳环、王冠、花环和金饰,走近造物主,俯身跪倒在他的脚下。

7.36.3

तं तु वेदविदा तेन लम्बाभरणशोभिना ।
वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ ७.३६.३ ॥

而那位通晓吠陀者扶起风神,风神身佩垂饰,光彩照人;他用手抚摸那个婴儿。

7.36.4

स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना ।
जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥ ७.३६.४ ॥

刚一被触碰,他便如被水浇灌的庄稼重新复苏一般,借着莲花所生者游戏般的触摸,重获生命。

7.36.5

प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ।
चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥ ७.३६.५ ॥

见此子复活,携带香气的生命之气欢喜地重新在一切众生中流行,如先前那样,那时它曾被阻遏。

7.36.6

मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् ।
शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥ ७.३६.६ ॥

那些众生摆脱了风的阻遏,欢喜起来,就像摆脱了寒热的莲池,池中荷花一同绽放。

7.36.7

ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः ।
उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥ ७.३६.७ ॥

于是,三时之主、三界之尊、三处居所者、受三十神敬拜的梵天,为使风神摩卢多欢喜,对诸神说道。

7.36.8

भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः ।
जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥ ७.३६.८ ॥

啊,因陀罗、湿婆、伐楼那、生主与财神!你们虽然全都知道,我仍要对你们说有益的话,请听。

7.36.9

अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ।
तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ॥ ७.३६.९ ॥

此子将为你们完成一件事。因此,你们都应赐予恩惠,以使这位风神欢喜。

7.36.10

ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ।
कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ॥ ७.३६.१० ॥

于是千眼的因陀罗,心怀欢喜,面容光彩,举起莲花花环,说出了这些话。

7.36.11

मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ।
नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥ ७.३६.११ ॥

他的下颌被我手中掷出的金刚杵击伤;这猴中之虎将以“哈奴曼”之名闻名。

7.36.12

अहमस्य प्रदास्यामि परमं वरमद्भुतम् ।
इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ॥ ७.३६.१२ ॥

我将赐予他至高而奇妙的恩惠;从今以后,他不会被我的金刚杵所杀。

7.36.13

मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।
तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ॥ ७.३६.१३ ॥

那时驱散黑暗的世尊摩尔단陀说:"我将把我光明的百分之一赐给他。"

7.36.14

यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।
तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ॥ ७.३६.१४ ॥

待他有能力研习经典时,我将赐给他那使他善于言辞的经典。

7.36.15

नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने ।
वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ।
वर्षायुतशतेनापि मत्पाशादुदकादपि ॥ ७.३६.१५ ॥

在通晓经典方面,无人能与他相比。婆鲁那也赐予恩惠:他不会死于我的绳索,也不会死于水,即使经过十万年。

7.36.16

यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः ।
वरं ददामि सन्तुष्ट अविषादं च संयुगे ॥ ७.३६.१६ ॥

阎摩说:"我欢喜地赐你恩惠:你不会死于我的杖,你将永远无病,在战斗中也不会沮丧。"

7.36.17

गदेयं मामिका नैनं संयुगेषु वधिष्यति ।
इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ ७.३६.१७ ॥

"我这把铁锤在战斗中不会杀他"——那赐恩的独眼黄褐色之神便如此说道。

7.36.18

मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति ।
इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ॥ ७.३६.१८ ॥

"他不会被我或我那醉意的武器所杀"——湿婆也这样赐予他至高的恩惠。

7.36.19

सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति ।
दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ॥ ७.३६.१९ ॥

梵天说:“他将不受一切梵杖所伤,寿命长久,且是伟大的灵魂。”

7.36.20

विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् ।
शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ॥ ७.३६.२० ॥

维首羯磨见此婴孩如初升之日,便这位工匠之首、大智者赐予他恩惠。

7.36.21

मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे ।
तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ॥ ७.३६.२१ ॥

他既获得了不受我为战斗所造神兵伤害的能力,将长久生存。

7.36.22

ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् ।
चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥ ७.३६.२२ ॥

于是四面的梵天,世界之师,心中欢喜,见他被诸神之恩惠庄严,便对风神说道。

7.36.23

अमित्राणां भयकरो मित्राणामभयङ्करः ।
अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥ ७.३६.२३ ॥

你的儿子,啊摩录多——摩录底,将使敌人恐惧,使朋友无畏,且不可战胜。

7.36.24

कामरूपः कामचारी कामगः प्लवतां वरः ।
भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ॥ ७.३६.२४ ॥

他能随意变化形貌,随意行走,随心所欲前往任何地方,将成为跳跃者中最杰出的;他的行程无碍,他将享有盛名。

7.36.25

रावणोत्सादनार्थानि रामप्रियकरणि च ।
रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ ७.३६.२५ ॥

为了消灭罗波那,并做使罗摩欢喜、令人毛骨悚然的事,此人将在战斗中建立这些功业。

7.36.26

एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह ।
यथागतं ययुः सर्वे पितामहपुरोगमाः ॥ ७.३६.२६ ॥

说完这些,向风神告别之后,众神与祖父梵天在前,全都循着来时的路返回了。

7.36.27

सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ।
अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥ ७.३६.२७ ॥

那风神也抱起儿子带回家中,把这受赐之子的事告诉了安遮那,然后便离去了。

7.36.28

प्राप्य राम वरानेष वरदानसमन्वितः ।
बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ॥ ७.३६.२८ ॥

罗摩啊,他获得了诸多恩赐,被赐予福分,内心稳固的力量使他充盈,如大海般满溢。

7.36.29

तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः ।
आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥ ७.३६.२९ ॥

那时,这位猴中之雄虽然充满力量,却无所畏惧,开始在大仙人的修行处作恶。

7.36.30

स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् ।
भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ॥ ७.३६.३० ॥

他打碎、切断、毁坏勺子与器皿、火祭以及树皮衣和鹿皮的堆积,给安宁的苦行者造成伤害。

7.36.31

एवंविधानि कर्माणि प्रावर्तत महाबलः ।
सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ॥ ७.३६.३१ ॥

这位大力者继续做这类事;湿婆使他不受所有梵罚(圣人的诅咒)的伤害。

7.36.32

जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ॥ ७.३६.३२ ॥

诸仙知道他,因他的力量而容忍他。

7.36.33

यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः ।
प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ॥ ७.३६.३३ ॥

如同安遮那之子,虽被羯萨里与风神所阻,仍越过界限;这只猴子虽被阻止,也确实越过界限。

7.36.34

ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः ।
शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ॥ ७.३६.३४ ॥

于是出自婆利古与安吉罗斯家族的大仙人们愤怒了,他们诅咒了他,啊,罗怙之最优者;但并非极度的愤怒或激愤。

7.36.35

बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम ।
तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ।
यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥ ७.३६.३५ ॥

猴子啊,你所倚仗以困扰我们的力量,你将长久不知,被我们的诅咒迷惑。当你的名声被忆起时,你的力量便会增长。

7.36.36

ततस्स हृततेजौजा महर्षिवचनौजसा ।
एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ॥ ७.३६.३६ ॥

于是,因大仙人之言的力量,他的光辉与威力被夺走;他便舍弃了那些行为,获得温和的本性,并如此行事。

7.36.37

अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता ।
सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ॥ ७.३६.३७ ॥

彼时,瓦利与须羯哩婆之父名为利刹罗阇斯,他是诸猴的国王;其威光如同太阳之光。

7.36.38

स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः ।
स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ॥ ७.३६.३८ ॥

那位猴王长期统治王国;而这位利刹罗阇斯依时运之法而终。

7.36.39

तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः ।
पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ॥ ७.३६.३९ ॥

他去世之后,精通谋略的大臣们立瓦利继承父位,又以须羯哩婆代替瓦利之位。

7.36.40

सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।
आबाल्यं सख्यमभवदनिलस्याग्निना यथा ॥ ७.३६.४० ॥

他与须羯哩婆之间的情谊不分彼此、毫无瑕疵;自童年起,便如风与火之相交。

7.36.41

एष शापवशादेव न वेद बलमात्मनः ।
वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥ ७.३६.४१ ॥

因咒语之力,他不知自己的力量;罗摩啊,当瓦利与须羯哩婆之间的仇恨兴起之时。

7.36.42

न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ॥ ७.३६.४२ ॥

罗摩啊,即便被瓦利驱赶奔逃,这须羯哩婆也终究无法与之抗衡。

7.36.43

देव जानाति न ह्येष बलमात्मनि मारुतिः ।
ऋषिशापाहृतबलस्तदैष कपिसत्तमः ॥ ७.३६.४३ ॥

神啊,哈努曼不知道自己的力量;那时他的力量因仙人的诅咒而被夺走,这位猴中最优者便是如此。

7.36.44

सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ॥ ७.३६.४४ ॥

如同被大象阻挡的狮子,或如同在战场上屹立不动的狮子。

7.36.45

पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ।
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ॥ ७.३६.४५ ॥

论勇力、热忱、智慧、威仪、温良、和悦、善恶之策、沉稳、机巧、大勇与坚毅,世上谁能胜过哈努曼?

7.36.46

असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः ।
उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥ ७.३६.४६ ॥

那位不可限量的猴王,想再次领受语法,心中欲问,面向太阳,从升起之山走向落下之山,手持一部大书。

7.36.47

ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः ।
नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥ ७.३६.४७ ॥

猴王能成就包含经句、注释、义理、词语的大义汇编;在论著、精通之学与韵律的运转上,无人能与他相比。

7.36.48

सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् ।
सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ॥ ७.३६.४८ ॥

在一切学问与苦行之法中,他甚至能与诸神之师相争;这位通晓新语法之义的人,凭你的恩典,甚至会成为梵天。

7.36.49

प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य
युगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ७.३६.४९ ॥

在哈奴曼面前,谁能站立?他如同欲吞没世界的大海,如同欲焚烧世界的烈火,如同劫末降临的阎摩。

7.36.50

एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः ।
सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥ ७.३६.५० ॥

罗摩啊!不仅是他,其他大猴王——须羯哩婆、摩因陀、双比陀、青、多罗、多罗耶和那罗,皆满怀热忱,都是诸天为你的缘故而造出的。

7.36.51

तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।
हनूमतो बालभावे कर्मैतत्कथितं मया ॥ ७.३६.५१ ॥

你所问的一切,我已如此说明。哈奴曼童年时的这一事迹,我已讲给你听了。

7.36.52

श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च ।
विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ॥ ७.३६.५२ ॥

听完阿伽斯提耶的叙述,罗摩与萨乌弥特里(罗什曼那),以及众猴与罗刹,都感到无比惊异。

7.36.53

अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया ।
दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ॥ ७.३६.५३ ॥

于是阿伽斯提耶对罗摩说:“罗摩啊,这一切你都已听到了。你已被看见,也已与我们交谈。现在我们该走了。”

7.36.54

श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः ।
प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ॥ ७.३६.५४ ॥

罗摩听完这位光芒炽烈的阿伽斯提耶的话语,合掌恭敬地俯身行礼,对这位大仙说道:

7.36.55

अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ।
युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ॥ ७.३६.५५ ॥

今日,我的神明、父辈与曾祖辈,仅因见到你们而欢喜;与亲族一同,他们永远感到满足。

7.36.56

विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः ।
तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ॥ ७.३६.५६ ॥

我怀着此愿而来,现将我的请求告知:望你们出于怜悯,为我完成此事。

7.36.57

पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः ।
क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ॥ ७.३६.५७ ॥

我已安顿好城中与乡间的百姓各司其事而来;凭借你们这些善人的威力,我将举行祭祀。

7.36.58

सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् ।
भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥ ७.३६.५८ ॥

在我的祭祀中,你们将永远是与会的成员,大有威力,并期望获得我的恩惠。

7.36.59

अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् ।
अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ॥ ७.३६.५९ ॥

我依靠你们这些因苦行而洗净罪过的人,将蒙受祖先的恩泽,心中极为安适。

7.36.60

तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ।
अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥ ७.३६.६० ॥

因此你们应当常常聚集到此处前来。”阿伽斯提耶等坚守誓愿的仙人闻言,说道:

7.36.61

एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ॥ ७.३६.६१ ॥

他们说:“就这样吧。”于是便开始启程。

7.36.62

एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ।
राघवश्च तमेवार्थं चिन्तयामास विस्मितः ॥ ७.३६.६२ ॥

众仙人说完这些话,便按原路离去。罗怙后裔(罗摩)惊讶不已,开始思索这同一件事。

7.36.63

ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् ।
सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः ।
प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ॥ ७.३६.६३ ॥

太阳落山后,他遣散了诸王与猴众,依礼行了黄昏祭拜;夜幕降临时,他便走入后宫。