Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.42.1

स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।
प्रविवेश महाबाहुरशोकवनिकां तदा ॥ ७.४२.१ ॥

大臂的罗摩遣走了饰以黄金的普什帕卡车,随即进入了阿输迦园。

7.42.2

चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि ।
देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ ७.४२.२ ॥

四周装点着檀香、沉香、芒果树,高大的迦利耶迦树以及天竺雪松林。

7.42.3

चम्पकाशोकपुन्नागमधूकपनसासनैः ।
शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ ७.४२.३ ॥

装点着瞻波、无忧、补那伽、摩度迦、波罗蜜与阿桑那树,还有如无烟之火般光耀的波利阇多树。

7.42.4

लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ।
मन्दारकदलीगुल्मलताजालसमावृताम् ॥ ७.४२.४ ॥

覆盖着罗德罗、尼波、阿周那、那伽、七叶树与无上藤,以及曼陀罗、芭蕉、灌木与藤蔓的交织。

7.42.5

प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि ।
जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ ७.४२.५ ॥

装点着丽叶金、迦检婆、伐库罗、閻浮树、石榴与拘毗陀罗树。

7.42.6

सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः ।
दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥ ७.४२.६ ॥

总是被美丽的花朵、结满果实、令人心醉、具有天界香气与滋味的花,以及嫩芽新叶所装点。

7.42.7

तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ।
चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ॥ ७.४२.७ ॥

同样,那里有神圣的树木,仿佛由工匠精心布置,枝叶秀美、繁花满枝,布满了沉醉的蜜蜂。

7.42.8

कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।
शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥ ७.४२.८ ॥

被杜鹃、摩陀罗鸟和五彩缤纷的鸟儿装点成百上千,奇妙绝伦,以芒果树为饰。

7.42.9

शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।
नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ॥ ७.४२.९ ॥

那里的树木有的如黄金般闪耀,有的如火焰般明亮,另有的如蓝色眼膏般深邃。

7.42.10

सुरभीणि च पुष्पाणि माल्यानि विविधानि च ।
दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ॥ ७.४२.१० ॥

有芬芳的花朵和各式花环,还有形状各异的池塘,盛满了上好的清水。

7.42.11

माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः ।
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ॥ ७.४२.११ ॥

池的台阶由红宝石砌成,池底镶嵌水晶,有盛开的莲花与睡莲丛,并有赤麻鸭点缀其间。

7.42.12

दात्यूहशुकसङ्घुष्टा हंससारसनादिताः ।
तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ॥ ७.४२.१२ ॥

回荡着杜鹃与鹦鹉的鸣叫,响彻天鹅与仙鹤的啼声,岸边生长的繁花之树为其增添光彩。

7.42.13

प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ।
तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ॥ ७.४२.१३ ॥

装饰着形态各异的围墙与石台,就在林间之地,闪耀如吠琉璃宝石。

7.42.14

शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् ।
तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ॥ ७.४२.१४ ॥

草地环绕,极为美好,林中满是开花的树木;那里有因摩擦而生、满缀繁花的树木。

7.42.15

प्रस्तराः पुष्पशबला नभस्तारागणैरिव ।
नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।
तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ ७.४२.१५ ॥

开满鲜花的岩石斑斓如星群点缀的天空;正如因陀罗的难陀那、梵天之林与柴特罗陀,罗摩的这处林居也是如此。

7.42.16

बह्वासनगृहोपेतां लतागृहसमावृताम् ।
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ ७.४२.१६ ॥

罗怙之喜(罗摩)进入了繁盛的阿输迦林,那里设有许多座位与亭阁,被藤蔓凉亭环绕。

7.42.17

आसने च शुभाकारे पुष्पप्रकरभूषिते ।
कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ॥ ७.४२.१७ ॥

罗摩坐在一个形态吉祥、堆满花束并铺着吉祥草的座位上。

7.42.18

सीतामादायं हस्तेन मधुमैरेयकं शुचि ।
पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ ७.४२.१८ ॥

罗摩牵着悉多的手,让她饮下纯净的蜂蜜与摩耶酒,正如因陀罗(补兰达罗)让舍遮饮酒一般。

7.42.19

मांसानि च समृष्टानि फलानि विविधानि च ।
रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ॥ ७.४२.१९ ॥

为了罗摩的饮食,仆人们迅速端来了精心烹制的肉食和各色水果。

7.42.20

उपानृत्यंश्च राजानं नृत्यगीतविशारदाः ।
बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ ७.४२.२० ॥

精通歌舞的少年与美丽的女子,沉溺于酒意之中,在国王面前翩翩起舞。

7.42.21

मनोभिरामा रामास्ता रामो रमयतां वरः ।
रमयामास धर्मात्मा नित्यं परमभूषितः ॥ ७.४२.२१ ॥

那些女子令人心醉,而罗摩——诸多令人欢喜者中最好的,正直的人,常以极尽华丽之姿态,使她们欢喜。

7.42.22

स तया सीतया सार्धमासीनो विरराज ह ।
अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ ७.४२.२२ ॥

他与悉多并坐,光辉照耀,如同婆私吒与阿伦陀蒂并坐,光彩焕发。

7.42.23

एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।
रमयामास वैदेहीमहन्यहनि देववत् ॥ ७.४२.२३ ॥

如此,充满喜悦的罗摩,每日如神一般,使如神女般的悉多,即毗提诃之女,欢喜不已。

7.42.24

तथा तयोर्विहरतोः सीताराघवयोश्चिरम् ।
अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ॥ ७.४२.२४ ॥

如此,悉多与罗ghava 长久欢娱之际,那吉祥而常赐欢乐的寒季悄然流逝。

7.42.25

दशवर्षसहस्राणि गतानि सुमहात्मनोः ।
प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ ७.४२.२५ ॥

两位大德在享受种种欢乐中度过了一万年,寒冷的希希罗季节到来了。

7.42.26

पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ।
शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ॥ ७.४२.२६ ॥

知法的罗摩在上午依法完成正当的职责,其余半日便进入内宫。

7.42.27

सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै ।
श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ ७.४२.२७ ॥

悉多也在早晨完成了对诸神的祭祀,并不加区别地礼敬所有的婆母。

7.42.28

अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा ।
त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ ७.४२.२८ ॥

随后悉多身着各式饰物与衣裳,走近罗摩,犹如舍质在天上走近坐着的千眼因陀罗。

7.42.29

दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ७.४२.२९ ॥

罗怙之后见妻子处于吉祥之状,心中欢喜无比,说道:“善哉,善哉!”

7.42.30

अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् ।
अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ॥ ७.४२.३० ॥

他对体态优美、如同天神之女的悉多说:“毗提诃之女啊,我将借你而得到子嗣。”

7.42.31

किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ ७.४२.३१ ॥

美腰的人啊,你想要什么?你的什么愿望应当实现?

7.42.32

स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ ७.४२.३२ ॥

悉多微笑后对罗摩说:罗怙之后啊,我想去看看那些神圣的苦行林。

7.42.33

गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।
फलमूलाशिनां देव पादमूलेषु वर्तितुम् ॥ ७.४२.३३ ॥

神啊,我愿居住在那些坐于恒河岸边、以果实和根茎为食、威光炽盛的仙人脚下。

7.42.34

एष मे परमः कामो यन्मूलफलभोजिनाम् ।
अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ ७.४२.३४ ॥

这是我最大的愿望:哪怕只在苦行林中、与以根与果为食的修行人同住一夜,罗怙之后啊。

7.42.35

तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ ७.४२.३५ ॥

罗摩行事从容不费力,便应允说:「好。」悉多啊,安心吧;明日你必定前往。

7.42.36

एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।
मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ॥ ७.४२.३६ ॥

罗摩说完这些话,离开了阁楼中间的内室,告别了遮那伽之女迈提丽,身边簇拥着朋友们。