蚁垤《罗摩衍那》 · 篇 7.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.46.1
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ ७.४६.१ ॥
夜尽天明之时,心怀悲伤的罗什曼那以干涸的口对苏曼特拉说了这些话。
7.46.2
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे ।
स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ ७.४६.२ ॥
御者啊,快将马套上上好的车,并从王宫为悉多备好铺设妥当的座位。
7.46.3
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।
मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ॥ ७.४६.३ ॥
奉国王之命,我要将悉多送往那些行善积德的大仙人的修行处;请快把车子牵来。
7.46.4
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।
रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ ७.४६.४ ॥
苏曼特拉说:“就这样吧。”于是备好了驾着上好骏马的车,外形极其华美,铺设着舒适的卧榻。
7.46.5
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।
रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ ७.४६.५ ॥
苏曼特拉牵来车子,对增添朋友荣誉的苏弥特利说:“主上,车已到了;请做应做之事。”
7.46.6
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।
प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ७.४६.६ ॥
苏曼特拉如此说后,人中之杰罗什曼那进入王宫,走到悉多身边说道。
7.46.7
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।
नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥ ७.४६.७ ॥
你曾向这位君主求得一个恩典,国王许诺,并命令你前往苦行林。
7.46.8
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् ।
शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।
अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ॥ ७.४६.८ ॥
女神啊,恒河岸边有圣人们吉祥的苦行林。维德哈国之女啊,遵照国王的命令,我将很快带你前往那片圣人们常居的森林。
7.46.9
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।
प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ॥ ७.४६.९ ॥
伟大的罗什曼那如此说完,维德哈国之女感到无比的喜悦,并且同意前往。
7.46.10
वासांसि च महार्हाणि रत्नानि विविधानि च ।
गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ ७.४६.१० ॥
维德哈国之女取来贵重的衣物和各种宝石,开始准备出发。
7.46.11
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् ।
वस्त्राणि च महार्हाणि धनानि विविधानि च ॥ ७.४६.११ ॥
这些首饰我将赠给圣人的妻子们,还有贵重的衣物和各种财富。
7.46.12
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।
प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ॥ ७.४६.१२ ॥
萨乌米特里说:“就这样吧。”他扶维德哈国之女登上战车,驱动快马出发,心中牢记罗摩的命令。
7.46.13
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।
अशुभानि बहून्येव पश्यामि रघुनन्दन ॥ ७.४६.१३ ॥
那时,悉多对增添吉祥的罗什曼那说:
7.46.14
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ ७.४६.१४ ॥
「苏弥多罗之子啊,今日我的右眼跳动,肢体颤抖,我的心似乎不安。」
7.46.15
औत्सुक्यं परमं चापि अधृतिश्च परा मम ।
शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥ ७.४६.१५ ॥
「我心中极度焦虑,极度不安;而且,广目者啊,大地在我看来也是空荡荡的。」
7.46.16
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ ७.४६.१६ ॥
「爱兄之人啊,愿你的兄长平安;英雄啊,愿我所有的婆婆们也都平安,不加区别。」
7.46.17
पुरे जनपदे चैव कुशलं प्राणिनामपि ।
इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ ७.४६.१७ ॥
「愿城中与乡野平安,愿一切众生也平安。」悉多合掌向诸神祈祷。
7.46.18
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् ।
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ ७.४६.१८ ॥
罗什曼那听了这话,向悉多俯首致敬;尽管心中枯焦,他仍欢欣地说道:「愿吉祥!」
7.46.19
ततो वासमुपागम्य गोमतीतीर आश्रमे ।
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥ ७.४६.१९ ॥
在戈玛蒂河岸的修行处过夜后,黎明时分,罗什曼那再次起身,对御者说道。
7.46.20
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।
शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ ७.४६.२० ॥
快快套好车;今日我将把婆吉罗陀河的圣水顶在头上,正如三眼神在山上承接它一样。
7.46.21
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् ।
आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥ ७.४६.२१ ॥
他将四匹快如思念的马套上车,合掌对毗提诃公主说道:“请上车。”
7.46.22
सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।
सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ ७.४६.२२ ॥
听了御者的话,悉多登上了那辆上好的车,与罗什曼那及智慧的苏曼陀罗同行。
7.46.23
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।
अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥ ७.४६.२३ ॥
广目的悉多来到消除罪孽的恒河边。行驶了半日,他们到达了婆吉罗陀河的水池。
7.46.24
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ॥ ७.४६.२४ ॥
罗什曼那看到此景,悲痛万分,放声大哭。
7.46.25
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।
उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ ७.४६.२५ ॥
悉多见罗什曼那悲痛,她深知法义,心中十分忧虑,便说道:“你为何如此哭泣?”
7.46.26
जाह्नवीतीरमासाद्य चिराभिलषितं मम ।
हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ ७.४६.२६ ॥
我们已到达我久已渴望的恒河岸边,此欢喜之时,罗什曼那,你为何使我忧愁?
7.46.27
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।
कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ ७.४६.२७ ॥
你一向陪伴在罗摩身边,人中之杰。难道只是离开他两夜,你便陷入了悲伤吗?
7.46.28
ममापि दयितो रामो जीवितादपि लक्ष्मण ।
न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ ७.४६.२८ ॥
罗什曼那,罗摩对我而言也比生命更珍贵。然而我并不如此悲叹。你不要这样像孩子一样。
7.46.29
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।
ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ॥ ७.४६.२९ ॥
请送我渡过恒河,并让我见见苦行者。然后我要把衣服和饰品布施给众仙人。
7.46.30
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।
तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ ७.४६.३० ॥
随后,向众大仙行礼致敬,在那里住一夜,我们便再回到那座城市。
7.46.31
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।
त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ॥ ७.४६.३१ ॥
我的心也急切地想见到罗摩——那莲瓣般的眼睛、狮子般的胸膛、纤细腰身,乃是令人欢喜者中最优秀的一位。
7.46.32
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।
नाविकानाह्वयामास लक्ष्मणः परवीरहा ॥ ७.४६.३२ ॥
听了她的话,擦干他那双美丽的眼睛,摧毁敌方英雄的罗什曼那召唤了船夫。
7.46.33
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ॥ ७.४६.३३ ॥
船夫们合掌说:“船已准备好了。”
7.46.34
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।
गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ॥ ७.४६.३४ ॥
罗什曼那想渡过恒河,便登上那艘吉祥的船;心神专一的罗什曼那使众人渡过了恒河。