Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.49.1

सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः ।
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ ७.४९.१ ॥

这些仙人之子看见悲泣的悉多,便跑向坐在那里的尊者、智识严正的瓦尔米基。

7.49.2

अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।
सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ ७.४९.२ ॥

他们向仙人的脚下行礼后,把一切都告诉了这位大仙,包括她哭泣的声音。

7.49.3

अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।
पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ॥ ७.४९.३ ॥

尊者啊,我们从未见过她。她是某位大德之人的妻子,宛如吉祥天女,因迷惘而面容扭曲地哭喊。

7.49.4

भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् ।
नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ॥ ७.४९.४ ॥

尊者啊,请您仔细看看,她仿佛是从天上坠落的神女。尊者啊,在河岸上,有一位贵妇正在悲伤。

7.49.5

दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।
अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ॥ ७.४९.५ ॥

我们看到她痛哭不已,沉浸在悲伤之中——她本不应承受这痛苦与忧伤,却孤独、可怜,如同无人庇护之人。

7.49.6

न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् ।
आश्रमस्याविदूरे च त्वामियं शरणं गता ॥ ७.४९.६ ॥

我们不认为她是普通的人间女子;应当以礼相待。她就在不远的修道处,前来投靠您的庇护。

7.49.7

त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ।
तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।
तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ॥ ७.४९.७ ॥

贞洁的悉多寻求庇护者;尊贵的您值得保护她。闻其言语,以智慧作出决断,通达法义的仙人凭借苦行所得的眼力,奔向摩ithila公主所在之处。

7.49.8

तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।
तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ॥ ७.४९.८ ॥

弟子们见他前往,便跟随这位大智之人。这位大智者步行朝那个地方走了一段路。

7.49.9

अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् ।
ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥ ७.४९.९ ॥

他取了美丽的净水供奉,来到恒河岸边。他看见罗怙后裔的爱妻悉多,宛如无依无靠之人。

7.49.10

तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ॥ ७.४९.१० ॥

对于为悲伤重担所苦的悉多,诸仙中最杰出的蚁垤仙以甘美的言辞说话,仿佛以他的光辉使她欢喜。

7.49.11

स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ ७.४९.११ ॥

你是十车王的儿媳,罗摩最爱的正妃,遮那伽王之女。贞洁的妻子,欢迎你。

7.49.12

आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।
कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ॥ ७.४९.१२ ॥

你来的时候,我已凭借法定之心认出了你;我的心也已明了其中的全部缘由。

7.49.13

तव चैव महाभागे विदितं मम तत्त्वतः ।
सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥ ७.४९.१३ ॥

啊,大福之人,关于你的一切我都确切知晓,三界之中所存在的一切,我也都知晓。

7.49.14

अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।
विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ॥ ७.४९.१४ ॥

悉多啊,我知道你是无罪的,我以苦行所得的慧眼得知此事。毗提诃之女啊,现在请安心,你在我的庇护之下。

7.49.15

आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ।
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ ७.४९.१५ ॥

在我的修行处不远,有一些坚守苦行的女苦行者;孩子啊,她们会时常守护你,正如母牛守护它的小牛。

7.49.16

इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥ ७.४९.१६ ॥

请接受这份迎接的供奉;安心,不要为忧虑所困,这样你回到自己家中后,也不会再悲伤。

7.49.17

श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।
शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ ७.४९.१७ ॥

悉多听闻圣人这极其奇妙的话语,低头向他的双足行礼,合掌说道:“就照您说的办吧。”

7.49.18

तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ॥ ७.४९.१८ ॥

那位圣人起身离去时,悉多合掌,跟随在他身后。

7.49.19

तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ ७.४९.१९ ॥

众仙人之妻见仙人走来,便与吠德希一同欣喜地上前,说了这些话。

7.49.20

स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।
अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ॥ ७.४९.२० ॥

欢迎您,诸仙之中最尊贵者;久别之后您的到来也是吉祥的。我们都向您致敬;请告诉我们,我们该做什么。

7.49.21

तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ ७.४९.२१ ॥

闻其言,蚁垤仙人说:“这位是悉多,智慧的罗摩之妻,已来到此处。”

7.49.22

स्नुषा दशरथस्यैषा जनकस्य सुता सती ।
अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ ७.४९.२२ ॥

她是十车王的儿媳,遮那迦的贞洁之女;无罪,被丈夫抛弃;我应当始终保护她。

7.49.23

इमां भवन्त्यः पश्यन्तु स्नेहेन परमेण हि ।
गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ॥ ७.४९.२३ ॥

你们都应以至深的爱护之情看待她;出于对我的敬重,遵从我的话,要特别尊敬她。

7.49.24

मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ ७.४९.२४ ॥

这位大名声、大苦行的仙人一再将吠德希托付给她们,然后在弟子环绕下回到自己的修行处。