Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.5.1

सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।
ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ ७.५.१ ॥

见到正直的苏刻莎和得到恩赐的罗刹,名为格拉玛尼的乾达婆,光辉如毗首婆苏,

7.5.2

तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।
त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।
तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥ ७.५.२ ॥

他的第二个女儿名为提婆跋提,宛如吉祥天女本人,名闻三界,容貌青春兼备。他依法将她嫁给苏刻莎,如同赐予罗刹的荣耀。

7.5.3

वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।
आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ७.५.३ ॥

她得到那位因恩赐而获得权势的心爱丈夫,提婆跋提欣喜,如同贫者得到财富。

7.5.4

स तया सह संयुक्तो रराज रजनीचरः ।
अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ७.५.४ ॥

与她结合的那位夜行者光彩熠熠,如同从安闍那山走出的大象与母象同行。

7.5.5

देववत्यां सुकेशस्तु जनयामास राघव ॥ ७.५.५ ॥

罗怙婆啊,苏刻莎在提婆跋提身上生下了子嗣。

7.5.6

त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् ।
माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।
त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ॥ ७.५.६ ॥

他生下三子,身形如特里塔火焰:摩罗跋陀、苏摩林和摩林,是强者中最优秀者;罗刹之主又生下三个如三目神一般的罗刹之子。

7.5.7

त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।
त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७.५.७ ॥

如三界般不动摇,如三火般安立;如三种极猛烈的咒语,如三种可怕的疾病。

7.5.8

त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः ।
विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ ७.५.८ ॥

苏刻沙的三个儿子,光辉与特雷塔时代的祭火相当,在那里像被忽视的疾病一样滋长。

7.5.9

वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।
तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ७.५.९ ॥

他们得知父亲凭借主神的苦行之力获得了恩赐,便决心前往弥卢山修行苦行。

7.5.10

प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।
विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ ७.५.१० ॥

王中之最,罗刹们持守可怕的戒律,修行令一切众生恐惧的猛烈苦行,四处游行。

7.5.11

सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।
सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ॥ ७.५.११ ॥

他们具备真实、正直与平静,以极其艰难的苦行,使三界及其中的天神、阿修罗与人类都受到煎熬。

7.5.12

ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ।
सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ॥ ७.५.१२ ॥

于是,四面主神乘坐殊胜的天车,呼唤苏刻沙的儿子们,说道:“我是赐予恩典者。”

7.5.13

ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ ७.५.१३ ॥

他们认出赐予恩惠的梵天,被以因陀罗为首的诸神环绕,个个合掌,像树木一样颤抖着说道。

7.5.14

तपसाराधितो देव यदि नो दिशसे वरम् ।
अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ॥ ७.५.१४ ॥

神啊,若您因苦行而受到供奉,赐予我们恩惠,愿我们不可战胜、能杀灭敌人,并且长寿。

7.5.15

प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ ७.५.१५ ॥

“愿我们变得强大”——他们彼此忠诚地这样说。

7.5.16

एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।
स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ ७.५.१६ ॥

梵天对苏克舍之子说:“就这样吧。”这位主宰、眷爱婆罗门的梵天便前往梵天界。

7.5.17

वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा ।
सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ ७.५.१७ ॥

罗摩啊,那些夜行者获得恩惠后,因恩赐而无所畏惧,便开始欺压诸神与阿修罗。

7.5.18

तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः ।
त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ ७.५.१८ ॥

被他们折磨的诸神与仙人群、乾闼婆众一起,像堕入地狱的人们一样,找不到任何庇护者。

7.5.19

अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।
ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ ७.५.१९ ॥

于是欢喜的罗刹们聚集到一起,对工匠中最优秀、不朽的毗首羯磨说:“哦,罗怙族中最杰出者!”

7.5.20

ओजस्तेजोबलवतां महतामात्मतेजसा ।
गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ ७.५.२० ॥

在以威能、光辉和力量著称的伟人中,唯有你凭自身的光辉,成为建造满足诸神心愿之居所的人。

7.5.21

अस्माकमपि तावत्त्वं गृहं कुरु महामते ।
हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा ।
महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ ७.५.२१ ॥

哦,智慧宏大者!请先为我们也建造一座居所:依托喜马拉雅,或就在须弥与曼陀罗山上,为我们建造一座如大自在天之居般的宏大居所吧。

7.5.22

विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।
निवासं कथयामास शक्रस्येवामरावतीम् ॥ ७.५.२२ ॥

于是大臂的毗首羯磨向那些罗刹描述了一处如因陀罗的天城阿摩罗婆提般的居所。

7.5.23

दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।
सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ ७.५.२३ ॥

南方大海的岸边有一座名叫三峰(Trikūṭa)的山;那里还有另一座名叫苏维罗(Suvela)的山,哦,诸位贤者!

7.5.24

शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे ।
शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ ७.५.२४ ॥

在那座山中间的山峰上,形如云朵,即使飞鸟也难以到达,四面都被凿子削平。

7.5.25

त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता ।
स्वर्णप्राकारसंवीता हेमतोरणसंवृता ॥ ७.५.२५ ॥

此城宽三十由旬,长一百由旬,四周环绕着金墙,装饰着金色的门楼。

7.5.26

मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ।
तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥ ७.५.२६ ॥

奉因陀罗之命,我建造了名为楞伽的这座城市;你们这些不可战胜的罗刹之杰,就居住于此吧。

7.5.27

अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ॥ ७.५.२७ ॥

如同天神与因陀罗一同抵达阿摩罗婆提而居住,你们抵达楞伽城堡后,也将被众多罗刹环绕而居。

7.5.28

भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ ७.५.२८ ॥

你们将令敌人难以侵犯,成为消灭敌人的人。

7.5.29

विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।
सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ ७.५.२९ ॥

众罗刹之上首听闻毗首羯摩之言,各自率领千名随从前往,居住于那座城市。

7.5.30

दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।
लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ॥ ७.५.३० ॥

得到楞伽城,此城有坚固的城墙与壕沟,环绕着数百座金色的宅邸,那些夜行者欢喜地住在了那里。

7.5.31

एतस्मिन्नेव काले तु यथाकामं च राघव ।
नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ ७.५.३१ ॥

就在那时,罗怙婆啊,有一位名叫那尔玛达的乐神女,能随意变化形貌,罗怙之喜啊。

7.5.32

तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति ।
ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ७.५.३२ ॥

她有三个女儿,光彩如智慧、吉祥与名声。按长幼次序,她虽非罗刹女,却成为那些罗刹之母。

7.5.33

कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।
त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ ७.५.३३ ॥

她欣然将那三位面如满月的乐神少女,献给了三位罗刹之主。

7.5.34

दत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।
कुतदारास्तु ते राम सुकेशतनयास्तदा ॥ ७.५.३४ ॥

那些由母亲所赐的大福之女,在以婆伽神为主宰的星宿之下被嫁出。罗摩啊,那时苏凯莎的诸子便娶了妻子。

7.5.35

चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।
ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ॥ ७.५.३५ ॥

他们与妻子嬉戏,如诸天与阿普萨拉斯同乐。随后,马利耶瓦特之妻是名为孙达利的美人。

7.5.36

स तस्यां जनयामास यदपत्यं निबोध तत् ।
वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ॥ ७.५.३६ ॥

请听她所生的子嗣:罗刹金刚拳、丑眼与恶面。

7.5.37

सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।
अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ ७.५.३७ ॥

苏普塔格那与耶祭怒,以及末多与乌南多,同样出生;啊,罗摩,从孙达利生出了一位名叫阿那罗的美丽女儿。

7.5.38

सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना ।
नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ॥ ७.५.३८ ॥

苏摩利也有一位妻子,面如满月,名叫鸡图摩蒂,啊,罗摩,她比生命还珍贵。

7.5.39

सुमाली जनयामास यदपत्यं निशाचरः ।
केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ७.५.३९ ॥

夜行者苏摩利在鸡图摩蒂身上生下了子嗣;啊,大王,请按次序听来。

7.5.40

प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः ।
धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥ ७.५.४० ॥

普拉哈斯塔与阿坎帕那,毗迦吒与迦罗迦尔穆迦,烟目与惩罚,以及大力的苏波尔沙。

7.5.41

संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।
राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ॥
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ ७.५.४१ ॥

三呼利与普拉伽萨,罗刹婆伽尔纳;罗迦、普什波特迦塔、盖迦西,以及笑容纯净的昆毗那西——他们被记为苏摩利的子嗣。

7.5.42

मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।
भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥ ७.५.४२ ॥

摩利的妻子是一位名叫婆苏陀的乾闼婆女子,容貌秀美,眼如莲瓣,眼神明澈,堪比最优秀的夜叉女。

7.5.43

सुमालेरनुजस्तस्यां जनयामास यत् प्रभो ।
अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ७.५.४३ ॥

须摩利的幼弟与她生下子嗣。主啊,罗怙之裔啊,请听我说所生的子嗣。

7.5.44

अनिलश्चानलश्चैव हरः सम्पातिरेव च ।
एते विभीषणामात्या मालेयास्तु निशाचरः ॥ ७.५.४४ ॥

阿尼罗、阿那罗、哈罗与桑帕蒂,都是维毗沙那的大臣;他们是摩利之子,夜行的罗刹。

7.5.45

ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।
सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥ ७.५.४५ ॥

于是这三位杰出的罗刹,被数百个儿子和夜行者环绕,因强大的力量而骄傲,便去欺压以因陀罗为首的诸神、仙人、龙与夜叉。

7.5.46

जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।
वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ॥ ७.५.४६ ॥

他们如风般游荡世间,在战场上难以抵挡,光辉如同死亡;因所得的恩赐而极度骄傲,总是扰乱祭祀之事。