蚁垤《罗摩衍那》 · 篇 7.50
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.50.1
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् ।
सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ॥ ७.५०.१ ॥
见到米提拉公主悉多被安置在修行处,罗什曼那心情沮丧,陷入了极大的悲痛。
7.50.2
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।
सीतासन्तापजं दुःखं पश्य रामस्य सारथे ॥ ७.५०.२ ॥
大光明的罗什曼那对作为谋臣兼御者的苏曼陀罗说:"御者啊,看看由悉多的痛苦所生的罗摩之悲。"
7.50.3
ततो दुःखतरं किं नु राघवस्य भविष्यति ।
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ७.५०.३ ॥
在抛弃品行纯洁的妻子、遮那迦之女悉多之后,罗怙之裔还会遭遇怎样更大的悲痛呢?
7.50.4
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् ।
वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ ७.५०.४ ॥
御者啊,我明白地认为,罗怙之裔离开毗提诃之女而存活,是天命所致;天命总是难以违逆。
7.50.5
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः ।
निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ ७.५०.५ ॥
罗怙之裔若发怒,可以连同干闼婆杀尽诸天,连同罗刹杀尽阿修罗,但他仍然顺从天命。
7.50.6
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।
उषित्वा नव वर्षाणि पञ्च चैव महावने ॥ ७.५०.६ ॥
往昔,罗摩遵从父命,在寂静的檀陀迦森林中,并在那大森林里居住了九年又五年。
7.50.7
ततो दुःखतरं भूयः सीताया विप्रवासनम् ।
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ ७.५०.७ ॥
随后,悉多被放逐更加令人痛苦。听了百姓的话,我觉得这太残忍了。
7.50.8
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।
मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ॥ ७.५०.८ ॥
御者啊,在这件毁坏名誉的事情中,谁是法的依托?被那些说空洞言辞的百姓所驱使而去见摩ithilī的人是谁?
7.50.9
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः ।
सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ ७.५०.९ ॥
智者苏曼陀罗听了罗什曼那所说的种种言辞后,怀着敬意说了这番话。
7.50.10
न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ।
दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥ ७.५०.१० ॥
萨乌米特里啊,你不应为摩提利而忧伤。这在很久以前就被婆罗门们在你父亲面前、你在场时预见了。
7.50.11
भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् ।
प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ॥ ७.५०.११ ॥
罗摩必定充满忧苦,却也将分享喜乐;大臂的罗摩必定会与所爱之人分离。
7.50.12
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ ।
सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ॥ ७.५०.१२ ॥
你、摩提利,以及舍睹卢祇那与婆罗多二人,那位心怀正法的伟大罗摩,经过很长的时间,必将舍弃他们。
7.50.13
इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा ।
राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ ७.५०.१३ ॥
苏弥special之子啊,此事不可对你或婆罗多言说。这便是国王对你们所说、以及仙人杜尔婆娑所说的话。
7.50.14
महाजनसमीपे च मम चैव नरर्षभ ।
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ ७.५०.१४ ॥
人中之雄啊,在众多贤人面前,在我面前,也在婆私吒面前,仙人所说的话便是如此。
7.50.15
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।
सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥ ७.५०.१५ ॥
那位人中之雄听了仙人的话,对我说:“御者啊,你在众人面前千万不可这样说。”
7.50.16
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः ।
नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ ७.५०.१६ ॥
那位世界的守护者之言,我全神贯注地聆听。善良之人啊,我的见解是:绝不可行欺妄之事。
7.50.17
सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ ७.५०.१७ ॥
善良之人啊,我绝不应当在你面前说此事。罗怙之喜悦啊,若你有心倾听,便请听吧。
7.50.18
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।
तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ ७.५०.१८ ॥
虽然国王从前曾将此秘密告诉过我,我仍要说出来,因为天命确实不可违逆。
7.50.19
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।
न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ ७.५०.१९ ॥
因为何事降临了这般充满悲伤的苦难,你不可对婆罗多说,即使在舍睹卢祇那面前也不可说。
7.50.20
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥ ७.५०.२० ॥
听了他这充满深意的伟大话语,苏弥陀罗对御者说道:"请说实话。"