Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.53.1

लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् ।
सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ ७.५३.१ ॥

罗摩听了罗什曼那那极为奇妙的话,非常欢喜,于是说了这番话。

7.53.2

दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः ।
यादृशस्त्वं महाबुद्धेर्मम सौम्य मनो ऽनुगः ॥ ७.५३.२ ॥

啊,大智慧的温和者!像你这样的亲人在此时尤为难得;你顺从我心的意愿。

7.53.3

यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण ।
तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ७.५३.३ ॥

啊,具有吉祥相的人!请听我心中所想;听后,便照我的话去做。

7.53.4

चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै ।
अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ ७.५३.४ ॥

啊,温和者,苏弥多罗之子!四日来城中百姓之事未曾办理,这如刀割我的要害。

7.53.5

आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।
कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ॥ ७.५३.५ ॥

啊,人中之牛!请召集百姓、祭司与大臣,以及有事求见的男女。

7.53.6

पौरकार्याणि यो राजा न करोति दिने दिने ।
संवृते नरके घोरे पतितो नात्र संशयः ॥ ७.५३.६ ॥

若国王日复一日不处理城中百姓之事,他便堕入可怖的封闭地狱,此中无疑。

7.53.7

श्रूयते हि पुरा राजा नृगो नाम महायशाः ।
बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ॥ ७.५३.७ ॥

据闻往昔有一位名叫那伽(Nṛga)的国王,声名显赫,是大地的守护者,敬重婆罗门,诚实守信,清净无染。

7.53.8

स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः ।
नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ७.५३.८ ॥

有一次,这位国王在普什卡拉圣地,将数千万头带着小牛、饰以黄金的母牛布施给被称为大地之神的婆罗门。

7.53.9

ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिता ऽनघ ।
ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ॥ ७.५३.९ ॥

此后,那头母牛带着小牛,来到一位贫穷的婆罗门身边——他靠拾取遗谷为生,且未供奉圣火——并被他触碰。无罪者啊。

7.53.10

स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च ।
नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ॥ ७.५३.१० ॥

那位被饥饿折磨的国王到处寻找那头丢失的母牛,但在所有的国度中,经历许多年岁,他都没有找到它。

7.53.11

ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ।
ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥ ७.५३.११ ॥

随后他来到甘卡拉,在一位婆罗门的家中,见到了自己的那头母牛——它的小牛已长大,它健康无病。

7.53.12

अथ तां नामधेयेन स्वकेनोवाच स द्विजः ।
आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ॥ ७.५३.१२ ॥

于是那位再生者用它自己的名字唤道:"来吧,沙巴拉!"——那母牛听见了这声音。

7.53.13

तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै ।
अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ ७.५३.१३ ॥

那位饥饿困苦的婆罗门的声音被她认出,那头牛便跟随在他身后,而他如火焰般前行。

7.53.14

यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् ।
गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ॥ ७.५३.१४ ॥

那位照料这头牛的婆罗门也急忙跟了上去;他来到那位仙人面前,立刻说道:“这头牛是我的。”

7.53.15

स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ।
तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ ७.५३.१५ ॥

“这头牛被王中之狮那伽触碰过,并作为布施给了我。”那两位博学的婆罗门之间爆发了激烈的争论。

7.53.16

विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः ।
तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥ ७.५३.१६ ॥

两人互相争论,便前往那位施主处;然而到了王宫门口,他们却无法得到那伽的接见命令。

7.53.17

अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।
ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥
क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ॥ ७.५३.१७ ॥

两人在那里逗留了许多日夜,便陷入愤怒;那两位心胸宏大的婆罗门中的最优者,极度震怒,说出了可怕的话语。

7.53.18

अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् ।
अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥ ७.५३.१८ ॥

“因为你不现身为求助者成就事务,你将对一切众生不可见,化为蜥蜴。”

7.53.19

बहुवर्षसहस्राणि बहुवर्षशतानि च ।
श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ॥ ७.५३.१९ ॥

在这深坑之中,你将化为蜥蜴,经历数千乃至数百年的漫长岁月。

7.53.20

उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः ।
वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ॥ ७.५३.२० ॥

在此世间将降生毗湿奴,他增添了耶度族的荣耀,名为婆苏提婆,化身为人形。

7.53.21

स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि ।
कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥ ७.५३.२१ ॥

国王啊,他将使你解脱,你将因此摆脱这诅咒;时机一到,你的赎罪也将借他而完成。

7.53.22

भारावतरणार्थं हि नरनारायणावुभौ ।
उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥ ७.५३.२२ ॥

为了减轻大地的重负,当迦利时代来临时,两位大勇士那罗与那罗衍那将降生。

7.53.23

एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ।
तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥ ७.५३.२३ ॥

于是那两位婆罗门舍弃了诅咒,怒气尽消,便把那头瘦弱的老母牛送给了一位婆罗门。

7.53.24

एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥ ७.५३.२४ ॥

那位国王便这样承受着那极其可怕的诅咒。

7.53.25

कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते ।
तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥ ७.५३.२५ ॥

对于君王而言,求事者的拥挤会成为过失的根源。因此,有事之人应迅速前来让我接见。

7.53.26

सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ।
तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥ ७.५३.२६ ॥

君王不会失去善行所成事务的果报。因此,苏弥陀之子,你去等待吧;有事之人自会前来。