蚁垤《罗摩衍那》 · 篇 7.56
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.56.1
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ ७.५६.१ ॥
罗摩的话语被听到后,摧毁敌方英雄的罗什曼那合掌向光辉灿烂的罗怙后裔说出了这些话。
7.56.2
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ॥ ७.५६.२ ॥
啊,迦恭特斯塔的后裔!那两位——婆罗门与国王,都受诸神认可——舍弃身体之后,又如何再与身体相合?
7.56.3
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः ।
प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ७.५६.३ ॥
罗什曼那如此说后,伊刹婆迦族的喜悦、大光辉的、人中之最的罗摩回答了罗什曼那。
7.56.4
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ ।
अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ॥ ७.५६.४ ॥
二人因互相诅咒,舍弃了身体,成为风的形态:那位国王与婆罗门仙人,以苦行为财富。
7.56.5
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः ।
वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ॥ ७.५६.५ ॥
无身的大仙瓦希什塔,极具光辉,为了另一人的身体,前往父亲面前。
7.56.6
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् ।
पितामहमथोवाच वायुभूत इदं वचः ॥ ७.५६.६ ॥
那位通晓法的人向众神之神的双足致敬,随后以风的形态,对祖父说了这番话。
7.56.7
भगवन्निमिशापेन विदेहत्वमुपागमम् ।
लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ॥ ७.५६.७ ॥
尊贵的主啊,因尼弥的诅咒,我已成为无身之人。世界之主、大天神啊,您虽生于卵,却生于莲花。
7.56.8
सर्वेषां देहहीनानां महद्दुःखं भविष्यति ।
लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो ।
देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ॥ ७.५६.८ ॥
对于所有无身之人,将有巨大的痛苦;主啊,无身者的一切事业都会消亡。您应当施恩,使我得到另一个身体。
7.56.9
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः ।
मित्रावरुणजं तेज प्रविश त्वं महायशः ॥ ७.५६.९ ॥
于是具有无量光辉的自生者梵天对他说:啊,大名的人,请进入由弥陀罗与伐楼那所生的光明之中。
7.56.10
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ।
धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ ७.५६.१० ॥
再生者中的最优者啊,你在那里也将不由胎生。具备大法之后,你将再次归于我的掌控。
7.56.11
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् ।
कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ ७.५६.११ ॥
神如此说后,他向祖父致礼,绕行而行,迅速前往伐楼那的居所。
7.56.12
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् ।
क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ॥ ७.५६.१२ ॥
也就在那时,弥陀罗也成为了伐楼那之位。他与乳海同在,受到诸神中最优者的敬奉,担起了伐楼那的职位。
7.56.13
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ।
यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ॥ ७.५६.१३ ॥
就在此时,最上等的天女乌尔瓦希与众伴侣相随,偶然来到了那个地方。
7.56.14
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये ।
आविशत्परमो हर्षो वरुणं चोर्वशीकृते ॥ ७.५६.१४ ॥
看见她——在伐楼那的居所中嬉戏的美丽女子——伐楼那因乌尔瓦希而心中涌起了极大的喜悦。
7.56.15
स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।
वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ ७.५६.१५ ॥
伐楼那向这位眼如莲瓣、面如满月的最优天女求婚,希望与她结合。
7.56.16
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता ।
मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ॥ ७.५६.१६ ॥
于是她合掌站立,回答伐楼那说:“诸神之主啊,我以前已由弥陀罗亲自选定了。”
7.56.17
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः ।
इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ॥ ७.५६.१७ ॥
于是伐楼那被爱神的箭所折磨,说道:“我要把这股精气注入这个天神所造的瓶中。”
7.56.18
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ।
कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ॥ ७.५६.१८ ॥
“美臀的、肤色极佳的女子啊!这样把这股精气注入你之中,若你不愿与我结合,我便会因此满足心愿。”
7.56.19
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् ।
उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ ७.५६.१९ ॥
乐于听到世界守护者伐楼那的这番善言,乌尔瓦希极为欢喜,于是说道。
7.56.20
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् ।
भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ॥ ७.५६.२० ॥
就这样吧。我的心已系于你身,对你的情意也更加深厚;但是主啊,我的身体属于密多罗。
7.56.21
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।
ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ॥ ७.५६.२१ ॥
乌尔瓦希这样说后,他将那伟大而奇妙、如火焰舌头般燃烧的精华,射入了那只瓦罐之中。
7.56.22
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता ।
तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ॥ ७.५६.२२ ॥
乌尔瓦希前往神明密多罗所在之处。密多罗便走近她,对乌尔瓦希说了这些话。
7.56.23
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता ।
पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ॥ ७.५६.२३ ॥
我先前已邀请你,你为何被遣离?你另选了一位丈夫,因此你是行为不端的女子。
7.56.24
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।
मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ॥ ७.५६.२४ ॥
因你这恶行,被我的愤怒所玷污,你将在人间世界居住一段时间。
7.56.25
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः ।
तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ ७.५६.२५ ॥
布陀之子、王仙普鲁罗婆娑,乃迦尸国王。愚昧的女子啊,现在去他那里吧,他将成为你的丈夫。
7.56.26
ततः सा शापदोषेण पुरूरवसमभ्यगात् ।
प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ॥ ७.५६.२६ ॥
于是,因诅咒之过,她前往普鲁罗婆娑处,此时布陀之亲生子普鲁罗婆娑已经返回。
7.56.27
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ।
नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ ७.५६.२७ ॥
他之后生下了威名赫赫、大力无比的儿子阿尤;阿尤之子是光辉堪比因陀罗的那诃沙。
7.56.28
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे ।
शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ ७.५६.२८ ॥
当三界之主因陀罗向弗栗多掷出金刚杵后陷入迷乱,那位统治因陀罗之位达十万年的人。
7.56.29
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा ।
बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ॥ ७.५६.२९ ॥
因那诅咒,明齿美目的乌尔瓦希便降至大地;这位眉目秀丽的女子在那里居住了许多年,待诅咒结束,便返回因陀罗的天堂集会。