Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.59.1

श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः ।
जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥ ७.५९.१ ॥

闻知乌尚那斯(室克罗)震怒,那时痛苦的那呼沙之子(耶耶提)已得到过度的衰老,便对යදු说了这些话。

7.59.2

यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।
जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ ७.५९.२ ॥

ยาดู啊,你通晓法;为我接受这过度的衰老吧。儿子啊,大名之人,我将在享乐中欢喜。

7.59.3

न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ ।
अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ॥ ७.५९.३ ॥

人中之雄啊,我在诸欲之境中尚未圆满。先经历欲望之后,我才会获得衰老。

7.59.4

यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् ।
पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥ ७.५९.४ ॥

යදු听到那些话,便回答那人中之雄:愿你所爱的儿子普鲁接受衰老吧。

7.59.5

बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव ।
प्रतिगृह्णातु वै राजन्
क सहाश्नाति भोजनम् ॥ ७.५९.५ ॥

大王啊,我已被排除在你的财富与亲近之外。大王啊,就让他接受吧——谁会与他同食呢?

7.59.6

तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् ।
इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ॥ ७.५९.६ ॥

国王听到他的话,便对普鲁说:大臂者啊,为我接受这衰老吧。

7.59.7

नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् ।
धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ॥ ७.५९.७ ॥

那位那呼沙之子如此说后,普鲁合掌答道:"我有福,蒙你恩典;我遵从你的教令。"

7.59.8

पूरोर्वचनमाज्ञाय नाहुषः परया मुदा ।
प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ॥ ७.५९.८ ॥

那呼沙之子领会普鲁之言,以至上的喜悦获得了无比的欢欣,并把那衰老转移到了他身上。

7.59.9

ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ।
बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ ७.५९.९ ॥

此后,那位年轻的国王举行了成千上万次祭祀,治理守护大地达数千年之久。

7.59.10

अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।
आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥ ७.५९.१० ॥

过了很长时间,国王对普鲁说:"儿子,把衰老带回来;把我寄存的东西还给我。"

7.59.11

न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा ।
तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ॥ ७.५९.११ ॥

儿子,我的衰老作为寄存物已转移到你身上;因此我要收回那衰老。你不要悲伤。

7.59.12

प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् ।
त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ॥ ७.५९.१२ ॥

啊,大臂者,你接受了我的命令,我甚为喜悦。满怀爱意,我将为你举行灌顶,立你为人主。

7.59.13

एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।
देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥ ७.५९.१३ ॥

那闻名的那呼沙之子国王耶叶提如此说完,愤怒地对提婆雅尼之子说了这些话。

7.59.14

राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।
प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ॥ ७.५९.१४ ॥

你是从我身上以儿子之形而生的罗刹,难以亲近。你违背我的命令,就为了后嗣而变得无效吧。

7.59.15

पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे ।
राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ ७.५९.१५ ॥

你轻慢我这作为父亲与师长的人,因此你将生出残忍的罗刹与妖怪。

7.59.16

न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः ।
वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥ ७.५९.१६ ॥

然而,那恶意之人的血脉不会在这生于月族的家族中延续;他的后裔也将如你一般骄横无礼。

7.59.17

तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् ।
अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ॥ ७.५९.१७ ॥

那位王仙如此说完,以灌顶礼尊敬增益王国的普鲁,然后走进了净修林。

7.59.18

ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।
त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ॥ ७.५९.१८ ॥

此后经过很长时间,那呼沙之子国王耶叶提到达了命运所定的终点,升入了天界。

7.59.19

पूरुश्चकार तद्राज्यं धर्मेण महता वृतः ।
प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ॥ ७.५९.१९ ॥

普鲁以大法德具足、大名声著称,在殊胜之城补罗弥舍那、迦尸国治理那国。

7.59.20

यदुस्तु जनयामास यातुधानान्सहस्रशः ।
पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ॥ ७.५९.२० ॥

然而耶度在克劳泊婆森林的坚固城中,生出了数以千计被逐出王统的夜叉。

7.59.21

एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।
धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ॥ ७.५९.२१ ॥

这是乌until纳斯所放之咒,耶夜提以刹帝利之法承受了它,而尼弥却不能忍受。

7.59.22

एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।
अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ॥ ७.५९.२२ ॥

温和者啊,关于一切行者的见识,我已全部告诉你;让我们遵循它,使过失不至发生,如同发生在那伽身上的那样。

7.59.23

अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥ ७.५९.२३ ॥

被阿鲁那之光染红的东方,闪耀着,仿佛从花汁中取出的衣裳。