蚁垤《罗摩衍那》 · 篇 7.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.6.1
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ ७.६.१ ॥
诸天与以苦行为财富的仙人被他们折磨,心怀恐惧,前往神中之神摩诃湿伐罗寻求庇护。
7.6.2
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् ।
आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ ७.६.२ ॥
创造与毁灭世界者,无生者,具未显之形,为一切世界的依托,值得崇拜,至高的上师。
7.6.3
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥ ७.६.३ ॥
诸天走近伽摩之敌、三城之敌、三目者,合掌以因恐惧而哽咽的声音说道。
7.6.4
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।
प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥ ७.६.४ ॥
尊贵者啊,众生之主!苏凯莎之子因梵天的恩赐而骄横,以压迫敌人的方式残害一切众生。
7.6.5
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।
स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ॥ ७.६.५ ॥
我们曾经可作庇护的修行道场,他们已使之不再能庇护;他们把诸天逐出天界,自己像天神一样在天上嬉戏。
7.6.6
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ।
अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ॥ ७.६.६ ॥
我是毗湿奴,我是楼陀罗,我是梵天,我是诸天之王。我是阎摩与伐楼那,我是月亮,我也是太阳。
7.6.7
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।
तन्नो देव भयार्तानामभयं दातुमर्हसि ॥ ७.६.७ ॥
那些在战斗中狂喜的人以及他们的首领压迫我们。神啊,你应当赐予我们这些被恐惧折磨的人以无畏。
7.6.8
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ॥ ७.६.८ ॥
化作可怖之形,诛杀诸神的荆棘。
7.6.9
धन्ते समरोद्धर्षा ये च तेषां पुरःसराः ।
इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।
सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥ ७.६.९ ॥
众神如此说了之后——关于那些在战斗中狂喜压迫我们的人及其首领——青红色的主宰、卡帕尔丁,关切地转向苏凯莎,对众神说道。
7.6.10
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः ।
किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥ ७.६.१० ॥
我不会杀他们,因为他们不能被我所杀,诸神啊。但我将赐予能杀死他们的人一个咒语。
7.6.11
एतमेव समुद्योगं पुरस्कृत्य महर्षयः ।
गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥ ७.६.११ ॥
以此事为先,诸大仙啊,前去皈依毗湿奴吧;那位主宰将会诛灭他们。
7.6.12
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ।
विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥ ७.६.१२ ॥
随后,他们高呼胜利,向大自在天致敬,然后因夜行者的恐惧而痛苦地来到毗湿奴面前。
7.6.13
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।
ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ ७.६.१३ ॥
向手持螺号与轮盘的神礼拜并极度尊崇之后,他们惊慌地对苏凯沙的儿子们说道。
7.6.14
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः ।
आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ ७.६.१४ ॥
神啊,苏凯沙的三个儿子如三圣火一般,凭借所获的恩赐之力侵夺并夺去了我们的居所。
7.6.15
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥ ७.६.१५ ॥
有一座名叫楞伽的坚固城市,坐落于三峰山的峰顶;住在那里的夜行魔众折磨着我们所有人。
7.6.16
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन ।
शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ ७.६.१६ ॥
因此,为了我们的福祉,请诛杀他们吧,摩图苏陀那!我们已来寻求您的庇护;诸天之主啊,请成为我们的依归。
7.6.17
चक्रकृत्तास्यकमलान्निवेदय यमाय वै ।
भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ॥ ७.६.१७ ॥
请将被您的轮盘斩下的他们如莲花般的面庞献给阎摩。在危难中赐予无畏的主啊,除您之外,我们别无庇护者。
7.6.18
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ।
नुदं त्वं नो भयं देव नीहारमिव भास्करः ॥ ७.६.१८ ॥
神啊,请在战场上把那些作恶、骄狂的罗刹连同他们的党羽驱逐,消除我们的恐惧,如太阳驱散雾气一般。
7.6.19
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।
अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ॥ ७.६.१९ ॥
众神如此禀告后,神中之神、令敌人恐惧的遮那陀那,赐予诸神无畏,对他们说道。
7.6.20
सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।
तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ ७.६.२० ॥
我知道罗刹苏凯莎,他因伊莎那(湿婆)的恩赐而骄傲;我也知道他的儿子们,其中长子便是摩利耶梵。
7.6.21
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।
निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ॥ ७.६.२१ ॥
那些越过界限的卑劣罗刹,我将在愤怒中诛杀。诸位天神,请免除忧虑。
7.6.22
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।
यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ॥ ७.६.२२ ॥
众神受到大力的毗湿奴如此吩咐,欢喜地赞颂遮那陀那,各自回到他们的居所。
7.6.23
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः ।
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ ७.६.२३ ॥
然而夜行者摩利耶梵听闻诸神的准备,便对那两位英勇的兄弟说了这番话。
7.6.24
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् ।
अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥ ७.६.२४ ॥
诸天与仙人会见了湿婆,意欲毁灭我们,便说了这番话。
7.6.25
सुकेशतनया देव वरदानबलोद्धताः ।
बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ॥ ७.६.२५ ॥
诸天啊,苏凯莎之子仗着所得恩赐之力而骄横,形貌可怖,步步为难我们。
7.6.26
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते ।
स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥ ७.६.२६ ॥
造物主啊,我们被罗刹所压倒,因畏惧那些恶徒,已无法安居于自己的住所。
7.6.27
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन ।
राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ॥ ७.६.२७ ॥
因此,为了我们的福祉,三眼之神啊,请诛杀他们;至尊者啊,只需一声怒吼便可焚烧那些罗刹,焚烧者中最优秀的啊。
7.6.28
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।
शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ ७.६.२८ ॥
诸天如此说完,灭除安陀迦者听后,一边摇头、挥手,一边说出了这番话。
7.6.29
अवध्या मम ते देवाः सुकेशतनया रणे ।
मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥ ७.६.२९ ॥
诸天啊,苏凯莎之子在战斗中不可被我所杀;但我将告诉你们一个主意,谁能真正杀死他们。
7.6.30
यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः ।
हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ॥ ७.६.३० ॥
那位手持法轮与金刚杵、身着黄衣的生主(Janārdana),便是Hari Nārāyaṇa;请皈依这位尊贵者。
7.6.31
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च ।
नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥ ७.६.३१ ॥
他们从哈罗那里得到咒语,向伽摩的敌人致敬后,抵达那罗延的居所,将一切禀告于他。
7.6.32
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।
सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ॥ ७.६.३२ ॥
于是那罗延对以因陀罗为首的诸天说道:"我将杀死那些天神的敌人;诸天啊,请免除忧惧。"
7.6.33
देवानां भयभीतानां हरिणा राक्षसर्षभौ ।
प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ॥ ७.६.३३ ॥
为了受惊的诸天,哈里已许诺杀死我们,诸罗刹中的英杰啊;让我们考虑此时何为适宜。
7.6.34
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।
नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ॥ ७.६.३४ ॥
金刚座(Hiraṇyakaśipu)之死,以及其他诸天之敌的死:那木旬(Namuci)、迦罗涅弥(Kālanemi)与最勇的僧呵罗陀(Saṃhrāda)。
7.6.35
राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः ।
यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥ ७.६.३५ ॥
罗陀耶(Rādheya)极善幻术,世界守护者,且为正法者;耶摩罗与阿周那、雨德基亚(Hārdikya)、舜婆(Śumbha)与尼舜婆(Niśumbha)。
7.6.36
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः ।
सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ॥ ७.६.३६ ॥
阿修罗与檀那婆亦强大而威力无穷,他们一旦投入战斗,从未听说被打败。
7.6.37
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा ।
सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ॥ ७.६.३७ ॥
他们都以数百次祭祀受人供奉,都精通幻术,都擅长各种兵器,都令敌人闻风丧胆。
7.6.38
नारायणेन निहताः शतशो ऽथ सहस्रशः ।
एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥ ७.६.३८ ॥
他们被那罗延(毗湿奴)斩杀,以百计、以千计。知道了这一点,你们在此都应当做适宜之事。
7.6.39
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।
ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥ ७.६.३९ ॥
于是须摩利与摩利闻听末耶梵之言,便向他们的长兄说话,如同薄伽的两份向因陀罗说话一般。
7.6.40
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् ।
आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥ ७.६.४० ॥
学识精熟,布施施行,祭祀完成,权势得以妥善保全;获得了无病的寿命,善法也在道路上为我们所得。
7.6.41
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च ।
जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥ ७.६.४१ ॥
我们携带兵器潜入诸神那不可撼动的海洋,征服了无与伦比的敌人;因此,死亡所带来的恐惧与我们无关。
7.6.42
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।
अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ॥ ७.६.४२ ॥
那罗延、楼陀罗、帝释天,乃至阎摩——他们都时常畏惧站在我们面前。
7.6.43
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर ।
देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ ७.६.४३ ॥
罗刹之王啊,毗湿奴神并无任何缘由;正是因为诸天神的过失,毗湿奴的心才动摇了。
7.6.44
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।
देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ॥ ७.६.४४ ॥
因此,今日我们全军环绕、整装待发,就应当立志诛杀诸天神本身,因为这过失正是由他们而起。
7.6.45
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः ।
उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ॥
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥ ७.६.४५ ॥
如此商议之后,所有强大的罗刹首领,被大军环绕,宣告已经备战,并怒气冲冲、力量如同钦巴与弗栗多,出发投入战斗。
7.6.46
युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ ७.६.४६ ॥
所有身躯庞大、力量强大者,都出发投入战斗。
7.6.47
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।
खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥ ७.६.४७ ॥
乘着战车与战象,乘着如山般的骏马、驴、牛、车驾骆驼、海豚与蛇。
7.6.48
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः ।
सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥ ७.६.४८ ॥
乘着摩竭鱼、龟、鱼、如迦卢陀般的飞禽、狮子、老虎、野猪、骚摩罗鹿与牦牛。
7.6.49
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः ।
प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ॥ ७.६.४९ ॥
所有以力量自傲的罗刹离开楞伽,前往天界作战,他们是诸天的敌人。
7.6.50
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।
भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥ ७.६.५० ॥
看到楞伽的颠覆之象,居住在楞伽的众生都充满恐惧,且全然沮丧。
7.6.51
रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ॥ ७.६.५१ ॥
乘坐上好的战车,成百上千地(出发了)。
7.6.52
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः ।
रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥ ७.६.५२ ॥
罗刹迅速而费力地前往天界,诸神则沿着罗刹的同一条路撤退。
7.6.53
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।
उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ ७.६.५३ ॥
由时间所遣的大地与天空的恐怖异象,为罗刹之王们的毁灭而显现。
7.6.54
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ।
वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥ ७.६.५४ ॥
云层降下骨骸与滚烫的血;大海越过了海岸,群山也都震动起来。
7.6.55
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः ।
वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ ७.६.५५ ॥
发出可怖的狂笑,声音如同雷云轰鸣,豺狼在那里凄厉地嚎叫,形貌骇人。
7.6.56
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ।
गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ॥ ७.६.५६ ॥
随后,鬼魂们依次飞行而过,这里还有一大群口中喷火的秃鹫。
7.6.57
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् ।
कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥
काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥ ७.६.५७ ॥
在罗刹们的上空,一个火把般的轮子在天上旋转;红脚的鸽子和八哥四散惊飞而去。那里乌鸦哇哇叫着,还有两只脚行走的猫。
7.6.58
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः ।
यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ॥ ७.६.५८ ॥
罗刹们不顾那些凶兆,倚仗力量而骄傲,一味前进,不肯回头,他们已被死亡的绳索缚住。
7.6.59
माल्यवांश्च सुमाली च माली च सुमहाबलाः ।
आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥ ७.६.५९ ॥
马利亚凡、苏摩利与摩利,皆大力者,是他们的前列领袖,如同祭祀之前的圣火。
7.6.60
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् ।
निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥ ७.६.६० ॥
那些夜行者都投靠马利亚凡,如同人们依靠山岳,如同诸神依靠创造主大梵。
7.6.61
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।
जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ॥ ७.६.६१ ॥
那群罗刹王的大军,声如巨大的雷云轰鸣,渴望获胜,在摩利的统领下,前往天界。
7.6.62
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।
देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥ ७.६.६२ ॥
主神那罗延从天神使者那里听闻罗刹的那番准备,便于是将心思转向了战斗。
7.6.63
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ।
आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ ७.६.६३ ॥
他备好兵器与箭囊,站在毗那夜多(迦鲁达)之上,披戴上光辉如千日的神圣铠甲。
7.6.64
आबध्य शरसम्पूर्णे इषुधी विमले तदा ।
श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ॥
शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ॥ ७.६.६४ ॥
那莲花眼者随即系上两个盛满箭矢的明亮箭囊,佩上腰带与明亮的宝剑,又执起名为海螺、轮盘、铁棒、弓弩沙阇伽与剑的殊胜兵器。
7.6.65
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः ।
राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ ७.६.६५ ॥
于是主神骑上如山岳般的金翅鸟毗那夜多(迦鲁达),为了毁灭罗刹,极其迅速地前行。
7.6.66
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः ।
काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥ ७.६.६६ ॥
在金翅鸟背上,那身着黄衣、肤色深黑的哈利光彩夺目,犹如金山峰顶上带着闪电的乌云。
7.6.67
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः ।
समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ॥ ७.६.६७ ॥
在悉达、天仙、大蛇、乾闼婆和夜叉的赞颂中,他手持轮盘、利剑、沙尔迦弓与海螺,走近了阿修罗军队的敌人。
7.6.68
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।
चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥ ७.६.६८ ॥
这支罗刹王的军队,两翼被迦楼罗羽翼的风所撼动,旗帜飞旋,兵器散落,震动起来,就像蓝色的山中之王,岩石摇晃。
7.6.69
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।
निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥ ७.६.६९ ॥
于是夜游者们怒火中烧,以沾满血肉、形如劫末之火的箭矢,将摩陀婆团团围住,用上好的兵器成千上万地射穿了他。