蚁垤《罗摩衍那》 · 篇 7.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.63.1
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् ।
शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ॥ ७.६३.१ ॥
罗摩如此说后,勇武的设睹卢祇感到极度羞愧,缓缓开口说道。
7.63.2
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर ।
कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥ ७.६३.२ ॥
啊,迦恭图特!啊,人主!我们知道此事违背正法。长者尚在,幼者怎能受封?
7.63.3
अवश्यं करणीयं च शासनं पुरुषर्षभ ।
तव चैव महाभाग शासनं दुरतिक्रमम् ॥ ७.६३.३ ॥
啊,人中雄牛!您的命令必须遵行;啊,大福之人!您的命令难以违背。
7.63.4
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ।
नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥ ७.६३.४ ॥
啊,英雄!我从您和典籍中都曾听闻。当中间的兄长立誓时,我不该作任何回答。
7.63.5
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ।
तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥ ७.६३.५ ॥
我说了可怕而恶劣的话。唉,我将在战场上杀死罗婆那。啊,人中雄牛!因我这恶言,我必将遭受厄运。
7.63.6
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।
अधर्मसहितं चैव परलोकविवर्जितम् ॥ ७.६३.६ ॥
长者既已开口,不可再次回答,因为那伴随着非法,且与来世相隔。
7.63.7
सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् ।
मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥ ७.६३.७ ॥
啊,迦恭特他之子,我不会第二次回应您。啊,赐予尊荣者,愿第二次的惩罚不要落在我身上。
7.63.8
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ ।
अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥ ७.६३.८ ॥
啊,国王,我服从您的命令,啊,人中之牛。啊,迦恭特他之子,啊,罗怙之喜悦者,为了我,请抛弃非法。
7.63.9
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।
उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥ ७.६३.९ ॥
勇猛而高尚的舍睹卢祇那如此说后,欢喜的罗摩也对婆罗多与罗什曼那说道。
7.63.10
सम्भारानभिषेकस्य आनयध्वं समाहिताः ।
अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥ ७.६३.१० ॥
请你们专心地取来灌顶的各种器物。今天我就为人中之虎罗怙婆(罗摩)行灌顶礼。
7.63.11
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ।
मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥ ७.६३.११ ॥
奉我之命,把他们全部带来:祭司、城中的百姓、主祭的祭官,以及大臣们。
7.63.12
राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः ।
अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ।
प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥ ७.६३.१२ ॥
诸大车士领会了国王的命令,便照办了。他们以祭司为先导,开始灌顶的准备;诸王与婆罗门也进入了王宫。
7.63.13
तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ।
सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥ ७.६३.१३ ॥
如此,大德的罗特鲁祥那(Śatrughna)的灌顶礼隆重举行,给光荣的罗怙后裔(Rāghava)和城市带来了极大的喜悦。
7.63.14
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः ।
अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥ ७.६३.१४ ॥
受灌顶的罗特鲁祥那(Śatrughna)光辉如太阳,恰如往昔斯坎达(Skanda)与因陀罗及风神众一同受灌顶时那样闪耀。
7.63.15
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा ।
पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ॥ ७.६३.१५ ॥
当行事不费力的罗摩为罗特鲁祥那(Śatrughna)灌顶时,城中百姓欢欣鼓舞,博学的婆罗门也都喜悦。
7.63.16
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ।
चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥ ७.६३.१६ ॥
考莎厘雅(Kausalyā)、苏弥德拉(Sumitrā)、凯凯依(Kaikeyī)以及王宫中的其他王后,在王宫里举行了吉祥的仪式。
7.63.17
ऋषयश्च महात्मानो यमुनातीरवासिनः ।
हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥ ७.६३.१७ ॥
居住在亚穆纳河畔的大德仙人们希望,因罗特鲁祥那的灌顶,罗波那(Lavaṇa)将被杀死。
7.63.18
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ।
उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥ ७.६३.१८ ॥
随后,罗怙后裔(Rāghava)将受灌顶的罗特鲁祥那(Śatrughna)抱于膝上,增添他的光辉,并以甜美的言辞说道。
7.63.19
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः ।
अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ॥ ७.६३.१९ ॥
此箭对你而言必中而神圣,能征服敌城。温和的罗怙之喜,你将以此箭杀死罗婆那。
7.63.20
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ॥ ७.६३.२० ॥
此箭被造出之时,正躺在大海之中,啊,迦古提之裔。
7.63.21
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः ।
अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥ ७.६३.२१ ॥
自生者,不败之神,连天神与阿修罗都未曾见过,对一切众生不可见,因此此箭为箭中之最。
7.63.22
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ।
मधुकैटभयोर्वीर विघाते वर्तमानयोः ।
स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ॥ ७.६३.२२ ॥
此箭是被愤怒所控、欲创造三界者,为消灭两个恶徒摩图与凯塔巴而发射的,英雄啊,在他们正交战之时;二人因此死于战中。
7.63.23
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा ।
अनेन शरमुख्येन ततो लोकांश्चकार सः ॥ ७.६३.२३ ॥
杀了摩图与凯塔巴二人之后,为了众生的享受,他以此主箭随后创造了诸界。
7.63.24
नायं मया शरः पूर्वं रावणस्य वधार्थिना ।
मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥ ७.६३.२४ ॥
此箭我先前并未射出,尽管我曾欲杀罗波那,啊,敌灭者,恐众生因此生起大恐惧。
7.63.25
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।
दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥ ७.६३.२५ ॥
摩图那柄伟大的三叉戟,是大德的三眼神(湿婆)为消灭敌人而赐予的,是他最上等的武器。
7.63.26
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः ।
दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥ ७.६३.२६ ॥
他将它置于家中,被反复礼敬,到达四面八方,并获得上好的食物。
7.63.27
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् ।
तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ॥ ७.६३.२७ ॥
然而,若有人渴望战斗而向他挑战,这罗刹便取出三叉戟,将其化为灰烬。
7.63.28
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् ।
अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥ ७.६३.२८ ॥
人中猛虎啊,在他失去兵器、尚未进城之前,你持械站在城门口。
7.63.29
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।
आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥ ७.६३.२९ ॥
人中雄牛啊,在他尚未进入宅第之前,你向他挑战交战;那时,大臂者啊,你便能杀死那罗刹。
7.63.30
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ।
यदि त्वेवं कृते वीर विनाशमुपयास्यति ॥ ७.६३.३० ॥
否则他将不可杀死;但是,英雄啊,若如此行事,他必将走向毁灭。
7.63.31
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः ।
श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥ ७.६३.३१ ॥
这一切已经告诉你了:三叉戟之力的逆转;而吉祥的蓝颈者(湿婆)所作之事,实难违逆。