Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.64.1

एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।
पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ ७.६४.१ ॥

说完这些并一再赞美迦古特斯特ha(罗摩)之后,罗怙难陀那(婆罗多)又说了另一番话。

7.64.2

इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।
रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ ७.६४.२ ॥

人中之雄啊,这四千匹马、两千辆车和一百头上等的象(都属于你)。

7.64.3

अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः ।
अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ ७.६४.३ ॥

让沿途穿插着装饰着各种货物的市场街道,同样让演员和舞者跟随迦古特斯特ha(罗摩)。

7.64.4

हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।
आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ ७.६४.४ ॥

Śatrughna啊,为人中之雄(罗摩)取一尼由多黄金,携带足够的财物和车辆前往。

7.64.5

बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् ।
सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ॥ ७.६४.५ ॥

勇士啊,请以温和的言辞和赏赐,使这支供养良好、欢欣健壮、谦逊不骄的军队欢喜,山中之最啊。

7.64.6

न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।
सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ॥ ७.६४.६ ॥

罗怙啊,你所在之处,财富不会留存,妻子不会留存,亲属也不会留存;只有欢欣的仆从留在那里。

7.64.7

ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।
एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७.६४.७ ॥

然后,送走那充满欢乐之人的庞大军队,你独自手持弓箭,前往摩图的森林。

7.64.8

यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ॥ ७.६४.८ ॥

为使摩都之子楼婆不认出你这个渴望战斗而前往的人,你应当这样毫无察觉地前去。

7.64.9

न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ ।
दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ॥ ७.६४.९ ॥

人中雄牛啊,他没有别的死法;凡是来到他面前的人,都将被楼婆杀死。

7.64.10

स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते ।
हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ॥ ७.६४.१० ॥

温和的人啊,待夏季过去、雨季之夜来临时,你应当杀死楼婆——那便是这恶意之人的时机。

7.64.11

महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः ।
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ७.६४.११ ॥

让大仙人走在前头,你的士兵便出发吧,好让他们在夏季剩余的时间里渡过恒河之水。

7.64.12

तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ॥ ७.६४.१२ ॥

在那里把全军安置于河岸,心神专注,手持弓箭走在前面吧,勇猛敏捷的人啊。

7.64.13

एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।
सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ॥ ७.६४.१३ ॥

罗摩如此吩咐后,沙徒卢祇那召集了那些大力的军中统帅,然后说了这番话。

7.64.14

एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥ ७.६४.१४ ॥

这些是为你们指定的驻地;无论你们驻扎何处,都要与人无争,免得伤害任何人。

7.64.15

तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ ७.६४.१५ ॥

他仔细地向他们作了指示,并派出了大军,然后向憍萨利雅、苏弥陀罗和吉迦伊致敬。

7.64.16

रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च ।
रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥ ७.६४.१६ ॥

绕行罗摩一圈,低头致敬,得到罗摩的允许后,灭敌者沙徒卢祇那……

7.64.17

लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।
पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।
प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ ७.६४.१७ ॥

他也合掌向罗什曼那和婆罗多致敬,并向祭司伐悉诃致敬,然后这位自制而大力的沙徒卢祇那绕行一周,便出发了。

7.64.18

प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् ।
उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ॥ ७.६४.१८ ॥

他先派遣由大象和良马组成的大军在前,在国王身边侍奉了一个月,那位光大罗怙家族的人然后便出发了。