Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.66

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.66.1

यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ ७.६६.१ ॥

就在舍悉鲁祗那进入叶屋的那一夜,悉多也生下了两个儿子。

7.66.2

ततो ऽर्धरात्रसमये बालका मुनिदारकाः ।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ ७.६६.२ ॥

then 于是午夜时分,仙人的少年儿子们把悉多吉祥分娩的喜讯告诉了蚁垤。

7.66.3

भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ।
ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ७.६६.३ ॥

尊者啊,罗摩之妻悉多生下了两个儿子;因此,大光明者啊,请施行能灭除鬼魅的守护。

7.66.4

तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।
बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ७.६६.४ ॥

听到他们的话,大仙人便来到那里,看见两位神子,如新月般光辉,极具威力。

7.66.5

जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।
भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ७.६६.५ ॥

他心中欢喜,前往那里,看见两个孩子,并为他们施行了能灭除鬼魅与罗刹的守护。

7.66.6

कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥ ७.६६.६ ॥

蚁垤仙人取了一把吉祥草,把能灭除鬼魅的守护赐予了俱舍与罗婆两兄弟。

7.66.7

यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।
निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७.६६.७ ॥

二人中先出生者,应以经咒加持的吉祥草加以净化;因此他名为“俱舍”。

7.66.8

यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ।
निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥ ७.६६.८ ॥

二人中年幼者,应由长者以专注之心用罗婆草加以净化;因此他名为“罗婆”。

7.66.9

एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥ ७.६६.९ ॥

如此,这对孪生子以俱舍与罗婆之名,将因我所赐之名而声名远扬。

7.66.10

तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः ।
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥ ७.६६.१० ॥

那些女子从仙人手中接受了护佑之法,心志专一、远离污垢,为两个孩子行了守护。

7.66.11

तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ।
सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥ ७.६६.११ ॥

长者们如此行此仪式时,诵念了二子的出生与名字,并颂扬了罗摩与悉多的那两次吉祥之生。

7.66.12

अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥ ७.६६.१२ ॥

午夜时分,舍睹卢建听到一个极其令人欣喜的消息;随后他来到叶屋,说道:“母亲,真是吉祥!”

7.66.13

तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ॥ ७.६६.१३ ॥

就这样,对于欢喜的大德舍睹那(Śatrughna)、勇捷的他而言,雨季的室罗婆那月之夜过去了。

7.66.14

प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।
मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥ ७.६६.१४ ॥

黎明时分,大勇者完成了午前的仪式,合掌向仙人告辞,然后又面向后方出发了。

7.66.15

स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ ७.६६.१५ ॥

他到达亚穆纳河岸,途中停留了七夜,然后来到以圣洁名望著称的仙人们的净修林中居住。

7.66.16

स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।
कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ ७.६६.१६ ॥

那位大名的王与以婆利古(Bhārgava)为首的仙人们一同在那里居住,以合宜的故事度过时光。

7.66.17

स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ।
कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ॥ ७.६६.१७ ॥

与以坎昌那(Kāñcana)为首的仙人相聚,罗古族的第一勇士、大德王子,在那时以多种多样的故事度过了那一夜。