Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.67.1

अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।
पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥ ७.६७.१ ॥

夜幕降临时,设睹卢祥向婆梨古后裔婆罗门遮耶那询问楼婆那的力量如何。

7.67.2

शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।
अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ ७.६७.२ ॥

婆罗门啊!三叉戟的力量如何?先前有谁被它毁灭,又有谁与这把主要的三叉戟进行了单挑?

7.67.3

तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ ७.६७.३ ॥

大德的设睹卢祥听了这番话,光辉的遮耶那便回答了罗怙之子的喜悦者。

7.67.4

असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।
इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ॥ ७.६७.४ ॥

罗怙之子的喜悦者啊!他的功业不可胜数。请听我讲述甘蔗王族中所发生之事。

7.67.5

अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।
मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ७.६७.५ ॥

往昔在阿逾陀城,有一位强大的国王名为曼陀多,乃由婆那输婆之子,以在三界中的勇猛著称。

7.67.6

स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।
सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ७.६७.६ ॥

这位大地之主将整个大地置于自己统治之下后,便从此处发动,欲征服天界。

7.67.7

इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।
मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७.६७.७ ॥

当摩呵多利因想征服天界而着手行动时,因陀罗和诸位大神都感到强烈的恐惧。

7.67.8

अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥ ७.६७.८ ॥

他获得了因陀罗一半的座位和一半的王国,受到众天神的礼敬,于是这位国王坚守了他的誓言。

7.67.9

तस्य पापमभिप्रायं विदित्वा पाकशासनः ।
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ७.६७.९ ॥

因陀罗,即帕迦的降伏者,知道了他的恶念,便温和地对优婆那什瓦之子说了这番话。

7.67.10

राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ ७.६७.१० ॥

你仍只是人间的国王,人中的雄牛。尚未使大地臣服,你就想在此得到天神的王位。

7.67.11

यदि वीर समग्रा ते मेदिनी निखिला वशे ।
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ७.६७.११ ॥

勇士啊,如果整个大地都在你的掌握之中,那就带着你的侍从、军队和车驾,在此建立天神的王国。

7.67.12

इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ ७.६७.१२ ॥

因陀罗如此说时,摩呵多利回答道:世尊释迦,在大地之上,我的命令在何处受到阻碍?

7.67.13

तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।
मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ॥ ७.६७.१३ ॥

千眼者对他说:无垢者啊,摩度之子名叫罗婆那的罗刹,在摩度林中不听从你的命令。

7.67.14

तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।
व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥ ७.६७.१४ ॥

听到千眼者所说的那些不悦耳而严厉的话,国王羞愧地低下头,无法开口。

7.67.15

आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः ।
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ ७.६७.१५ ॥

向千眼者告辞后,这位光辉的人主怀着羞愧,微微低头,再次回到了这个世界。

7.67.16

स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः ।
आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ ७.६७.१६ ॥

心中怀着愤怒,这位制服敌人者带着侍从、军队和车驾前往,要将摩度之子降服。

7.67.17

स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।
दूतं सम्प्रेषयामास सकाशं लवणस्य हि ॥ ७.६७.१७ ॥

这位人中之杰渴望与罗婆那交战,于是派使者前往罗婆那处。

7.67.18

स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।
वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ ७.६७.१८ ॥

他前去对摩度之子说了许多不悦耳的话;就在他这样说话时,罗刹将这位使者吞食了。

7.67.19

चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।
अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ ७.६७.१९ ॥

使者迟迟未归,国王怒火满胸,从四面以箭雨折磨那罗刹。

7.67.20

ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ ७.६७.२० ॥

于是那罗刹大笑,手持长矛,掷出这件上好的兵器,要连同随从一起杀死国王。

7.67.21

तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।
भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥ ७.६७.२१ ॥

那燃烧的长矛将国王连同侍从、军队与车骑一并化为灰烬,然后重新回到了罗婆那的手中。

7.67.22

एवं स राजा सुमहान्हतः सबलवाहनः ।
शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ ७.६७.२२ ॥

就这样,那位伟大的国王连同军队与车骑一同被杀。善者啊,那长矛的威力无法估量,无与伦比。

7.67.23

श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ ७.६७.२३ ॥

明天黎明,你必定会杀死罗婆那,毫无疑问。即使不拿兵器,你的胜利也必定迅速到来。

7.67.24

लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ।
एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ॥ ७.६७.२४ ॥

你完成那件事,诸世界也将得享安宁。关于恶毒的罗婆那,我已将这一切告诉了你。

7.67.25

शूलस्य च बलं घोरमप्रमेयं नरर्षभ ।
विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ॥ ७.६७.२५ ॥

人中之雄啊,三叉戟的力量可怖而不可估量;国王摩揭陀……不,国王Māndhātṛ因此而灭亡。

7.67.26

त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ।
शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥ ७.६७.२६ ॥

伟大的人啊,明天黎明你将杀死罗婆那;对此我毫无疑问。他没带三叉戟便出去寻找食物;人王啊,你的胜利是必定的。