Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.71.1

ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् ।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ ७.७१.१ ॥

于是第十二年,希望前往由罗摩守护的阿逾陀的设睹卢祇那,带着少量仆从和军队出发了。

7.71.2

ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।
जगाम हयमुख्यैश्च रथानां च शतेन सः ॥ ७.७१.२ ॥

随后,他遣回大臣和军中统领,带着上等骏马和一百辆战车前行。

7.71.3

स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।
वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥ ७.७१.३ ॥

这位罗怙后裔的喜悦、大名鼎鼎之人,经过七八处驿站,来到蚁垤仙人的修行林,在那里住下。

7.71.4

सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।
पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥ ७.७१.४ ॥

那位人中之雄向蚁垤仙人的双足致敬,随后从仙人手中接受了洗足水、供水与款待。

7.71.5

बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।
कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥ ७.७१.५ ॥

那位仙人在那里向大德的设睹卢祇那讲述了成千上万个形式多样、极其动人的故事。

7.71.6

उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।
सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥ ७.७१.६ ॥

仙人就诛杀罗婆那一事说道:“你杀了罗婆那,完成了极其艰难的功业。”

7.71.7

बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।
लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७.७१.७ ॥

温和的人啊,大臂者啊!与罗婆那作战的许多大力君王,连同他们的军队和车乘,都被杀死了。

7.71.8

स त्वया निहतः पापो लीलया पुरुषर्षभ ।
जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥ ७.७१.८ ॥

人中之雄啊!你轻而易举地杀死了那个罪人,凭你的威光,世间的恐惧就在那里平息了。

7.71.9

रावणस्य वधो घोरो यत्नेन महता कृतः ।
इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥ ७.७१.९ ॥

杀死罗波那既可怕,又费了极大的力气;而你却不费力气便完成了这件极其伟大的事业。

7.71.10

प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ ७.७१.१० ॥

罗婆那被杀之后,诸天神生起了极大的欢喜;你所做的,是对一切众生和整个世界都可爱的事。

7.71.11

तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव ॥ ७.७१.११ ॥

人中之雄,罗怙之子啊!我坐在因陀罗的会堂中时,如实地看见了那场战斗。

7.71.12

ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ ७.७१.१२ ॥

舍睹卢那啊!我的心中也有无上的喜悦。我要吻你的头;这正是爱的至高之道。

7.71.13

इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।
आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ ७.७१.१३ ॥

大仙说完这话,亲吻了设睹卢祇那的头顶,并款待了他和随从的人。

7.71.14

स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ॥ ७.७१.१४ ॥

用餐之后,这位人中之杰在那时依次聆听了以极妙歌声唱出的罗摩行事。

7.71.15

तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।
संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।
शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥ ७.७१.१५ ॥

与弦乐和节拍相合,具备三种音域与其技法,精致而合乎法度,配以均匀的拍子——那时他听到了很早之前所作的罗摩行事。

7.71.16

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।
श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ॥ ७.७१.१६ ॥

听到那些按照先前发生的情形依次叙述的真实字句,这位人中猛虎仿佛失去了知觉,双眼盈满泪水。

7.71.17

स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ।
तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ ७.७१.१७ ॥

他仿佛昏迷了片刻,一次又一次深深叹息,聆听时好像歌中所发生的事情正在眼前上演。

7.71.18

पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ।
अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ॥ ७.७१.१८ ॥

国王的随从们听到那丰美的歌声,低着头,神情沮丧,说道:“真是奇妙啊!”

7.71.19

परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ।
किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥ ७.७१.१९ ॥

在那里的士兵彼此交谈说:这是什么?我们在哪里?这是梦中所见吗?

7.71.20

अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।
शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ॥ ७.७१.२० ॥

我们曾经见到的那件事,如今在修行处再次听到:这是梦吗,还是华美歌曲的结构?

7.71.21

विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।
साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥ ७.७१.२१ ॥

他们极为惊异,对舍睹卢能说:人中之最,请好好问问仙人中的翘楚蚁垤。

7.71.22

शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् ।
सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ॥ ७.७१.२२ ॥

然而舍睹卢能对满怀好奇的众士兵说:士兵们,在此这样询问对我们并不相宜。

7.71.23

आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।
न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥ ७.७१.२३ ॥

这位仙人的修行处中常有许多奇迹发生,但仅出于好奇去寻访那位大仙人是不恰当的。

7.71.24

एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।
अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥ ७.७१.२४ ॥

对士兵说完这番话,罗怙之子向那位大仙人行礼,然后回到了自己的住处。