ヴァールミーキのラーマーヤナ · サルガ 7.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.73.1
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ ७.७३.१ ॥
シャトルghnaを二人の兄弟とともに送り出し、ラーガヴァは法に従って王国を守りつつ幸福に喜んだ。
7.73.2
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।
मृतं बालमुपादाय राजद्वारमुपागमत् ॥ ७.७३.२ ॥
数日後、ある老いた地方の婆羅門が死んだ子を抱えて王の門へやって来た。
7.73.3
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ।
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥ ७.७३.३ ॥
愛と悲しみに満たされ、様々に嘆きながら、彼は幾度も「息子よ!息子よ!」と言った。
7.73.4
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ ७.७३.४ ॥
前世の別の身体で私はどんな悪業を積んだのか、ただ一人の息子であるお前が死んでしまったのを見るとは。
7.73.5
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।
अकाले कालमापन्नं मम दुःखाय पुत्रक ॥ ७.७३.५ ॥
まだ若さに至らぬ子よ、お前は時ならぬ死に遭った。私の悲しみのために、わが子よ。
7.73.6
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।
अहं च जननी चैव तव शोकेन पुत्रक ॥ ७.७३.६ ॥
数日のうちに私もまた必ず死ぬだろう、疑いはない。そしてお前の母も、わが子よ、お前への悲しみによって。
7.73.7
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।
सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ॥ ७.७३.७ ॥
私は偽りを語ったことも、暴力を振るったことも覚えていない。いかなる生き物に対しても罪を犯したことを覚えていない。
7.73.8
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ ७.७३.८ ॥
いかなる悪行のゆえに、わが幼い息子は今日、祖霊への務めを果たさぬまま、ヴァイヴァスヴァタ(ヤマ)の館へ去ったのか。
7.73.9
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।
मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥ ७.७३.९ ॥
ラーマの領国で、まだ寿命の尽きぬ者に死が訪れるという、かくも恐ろしい光景は、私はこれまで見たことも聞いたこともない。
7.73.10
रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।
यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ ७.७३.१० ॥
ラーマには何か大きな過ちがあるに違いない。その領内に住む子どもたちに死が訪れたのだから。
7.73.11
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।
त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ ७.७३.११ ॥
他の国に住む子どもたちには死への恐れはない。王よ、死の支配に落ちたこの子をどうか蘇らせてください。
7.73.12
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।
ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ ७.७३.१२ ॥
私は妻とともに王宮の門前で、保護者のない者のように死のう。ラーマよ、そのときブラーフマナ殺しの罪を負うがよい。その後で幸せに暮らすがよい。
7.73.13
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।
उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ॥ ७.७३.१३ ॥
おお王よ、兄弟たちとともにあなたは長寿を得るでしょう。おお大いなる力の方よ、われらはあなたのこの王国で幸せに暮らしてきました。
7.73.14
इदं तु पतितं तस्मात्तव राम वशे स्थिताः ।
कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ॥ ७.७३.१४ ॥
しかしラーマよ、これはあなたのためにわれらに降りかかったのです。われらは時の支配下にあります。われらにとって幸福はまことに僅かです。
7.73.15
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।
रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ ७.७३.१५ ॥
今や、偉大なるイクシュヴァーク族のこの地は守護者を失っています。ここにラーマを主として得ているにもかかわらず、確かに子らの死をもたらしているのです。
7.73.16
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।
असद्वृत्ते तु नृपतावकाले म्रियते जनः ॥ ७.७३.१६ ॥
王の過ちによって、規範どおりに守られない臣民は滅びます。王の行いが邪悪なとき、人々は時ならず死ぬのです。
7.73.17
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।
कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम् ॥ ७.७३.१७ ॥
あるいは都市や地方で人々が不正な行いをし、守護がないとき、そのとき時がもたらす恐れが生じるのです。
7.73.18
सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।
पुरे जनपदे चापि ततो बालवधो ह्ययम् ॥ ७.७३.१८ ॥
これは確かに王の過ちであろう、疑いはない。それゆえ都市にも地方にも、この子らの殺害が起きているのだ。
7.73.19
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।
राजानं दुःखसन्तप्तः सुतं तमुपगूहते ॥ ७.७३.१९ ॥
このように幾度も様々な言葉で王を追いつめ、悲しみに苦しみながら、彼は息子を抱きしめる。