蚁垤《罗摩衍那》 · 篇 7.75
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.75.1
नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ ७.७५.१ ॥
闻听那那罗陀如甘露般的话语,罗什曼那顿生无比的喜悦,于是说道。
7.75.2
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् ।
बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥ ७.७५.२ ॥
去吧,善良的人,安慰那位持守誓言的最优秀婆罗门;把孩子的身体放入油槽中。
7.75.3
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ७.७५.३ ॥
用最上等的香料和香油,善良的人啊,妥善安排,使孩子的身体不至腐坏。
7.75.4
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ७.७५.४ ॥
使这位行为端正者之子的身体得到保护,不遭厄运与毁坏,就这样去做。
7.75.5
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ७.७५.५ ॥
如此吩咐了具吉相的罗什曼那之后,大名的迦古特斯塔在心中召唤普湿波迦战车:“来吧。”
7.75.6
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपे राघवस्य वै ॥ ७.७५.६ ॥
普湿波迦战车领会了这一暗示,饰以黄金,转瞬间便来到了罗怙之后身边。
7.75.7
सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किङ्करः समुपस्थितः ॥ ७.७५.७ ॥
他恭敬地俯身说道:“人主啊,我在此。大臂者啊,我听从您的差遣;您的仆人已来到此地。”
7.75.8
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत ॥ ७.७५.८ ॥
听到富士迦(Puṣpaka)悦耳的话语,人主恭敬地向那些大仙致礼,然后登上了这辆飞车。
7.75.9
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ ७.७५.९ ॥
他取了弓、两个箭囊和光彩耀目的剑,把两位英雄——萨乌米特里(罗什曼那)与婆罗多——留在城中。
7.75.10
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ ७.७५.१० ॥
他四处寻访青翠的土地,先向西方前行;随后,这位光辉的人又前往被喜马拉雅环绕的北方。
7.75.11
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः ॥ ७.७५.११ ॥
在那里也看不到一丝不法之事,人主便又观察了整个东方。
7.75.12
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥ ७.७५.१२ ॥
站在富士迦之上的那位大臂人主,此时看见那方向——行为极其纯洁,清澈如镜面。
7.75.13
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ ७.७५.१३ ॥
随后,这位王仙之子向南方前行,在长满苔藓的岸边北侧,看见了一座极大的湖泊。
7.75.14
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ ७.७५.१४ ॥
在那湖中,光荣的罗怙婆看见一位苦修者正行大苦行,头朝下倒悬着。
7.75.15
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥ ७.७५.१५ ॥
罗怙婆走近他,对正在修行那无上苦行的人说道:"持守坚定誓愿的人啊,你是有福的。"
7.75.16
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।
कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ ७.७५.१६ ॥
"修行中的长者啊,坚定勇武的人啊,你属于哪个种姓(瓦尔纳)?我出于好奇问你——我是十车王之子罗摩。"
7.75.17
को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा ।
वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।
यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ ७.७५.१७ ॥
"你所期求的目的是什么——获得天界,还是比那更高的什么?或者你是为了求得何种恩赐,才修行这极为艰难的苦行?苦行者啊,我想听听你所依托的那苦行。"
7.75.18
ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः ।
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥ ७.७५.१८ ॥
"无论你是婆罗门,还是不可战胜的刹帝利、吠舍、第三种姓,或是首陀罗——愿你平安吉祥。说话要诚实。"
7.75.19
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ॥ ७.७५.१९ ॥
国王如此问他,他低着头向达舍罗陀之子、那位最优秀的国王叙述了自己的种姓,以及他修苦行的原因。