Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.77.1

पुरा त्रेतायुगे राम बभूव बहुविस्तरम् ।
समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ॥ ७.७७.१ ॥

罗摩啊!往昔在特莱塔时代,有一片广阔的森林,四面延伸一百由旬,没有鹿,也没有鸟。

7.77.2

तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् ।
अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ ७.७७.२ ॥

我在那片无人之林中修行最高的苦行,善良的人啊,我来到那片森林中。

7.77.3

तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।
फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥ ७.७७.३ ॥

我无法描述那片森林的景象,它充满了味道甜美的果实与根茎,以及形态多样的树木。

7.77.4

तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ७.७७.४ ॥

那片森林中央有一泓长一由旬的湖,充满天鹅和迦兰达婆鸭,并以赤鸭般的鸟儿为饰。

7.77.5

पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ।
तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥ ७.७७.५ ॥

那湖中盛开着莲花与睡莲,没有水藻,实在奇妙,极其令人愉悦,无与伦比。

7.77.6

अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् ।
समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ ७.७७.६ ॥

那湖水清净无尘、平静不起波澜,满是华美的鸟群;湖边有一座宏大而奇妙的修行林舍。

7.77.7

पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ।
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ ७.७७.७ ॥

这座古老而极其神圣的修行处没有苦修者。啊,人中之杰,我在那里度过了一个夏夜。

7.77.8

प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ।
अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥ ७.७७.८ ॥

清晨黎明起身,我走向那湖。这时我在那里看见一具尸体,养得很好,似乎不老。

7.77.9

पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् ।
तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥ ७.७७.९ ॥

那具肢体匀称、排列成行的尸体靠着湖水。啊,国王,它以至上的光彩立于那片水中。

7.77.10

तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव ।
उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ॥ ७.७७.१० ॥

我思索此事,在湖岸停留片刻。啊,罗怙之子,啊,主人,这会是什么呢?

7.77.11

अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् ।
विमानं परमोदारं हंसयुक्तं मनोजवम् ॥ ७.७७.११ ॥

随即,在一瞬间,我看见一辆神圣而外观奇妙的飞车,极其华丽,由天鹅牵引,迅捷如意念。

7.77.12

अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन ।
उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥ ७.७७.१२ ॥

啊,罗怙族的欢喜者,那辆飞车上有一位天界之人,有千名身饰神圣装饰的天女侍奉他。啊,英雄。

7.77.13

गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः ।
क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ॥ ७.७७.१३ ॥

有的唱着天界的歌曲,有的奏着乐器。另有的欢快地呼喊,还有的翩翩起舞。

7.77.14

अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः ।
दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ ७.७७.१४ ॥

另一些仙女用如月光般明亮、带金柄的牦牛尾拂尘,为他那如莲花般的眼眸之面扇风。

7.77.15

ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् ।
पश्यतो मे तदा राम विमानादवरुह्य च ।
तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ ७.७७.१५ ॥

那时,他离开狮子宝座,如同麦鲁山顶的太阳,在我注视下,啊罗摩,他从飞车上走下,开始吞食那具尸体。啊,罗忽族的喜悦,那位天界之人竟如此行事。

7.77.16

तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् ।
अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥ ७.७७.१६ ॥

他随心所欲地吃了许多肥美的肉,那天界之人便下到湖中,开始洗涤。

7.77.17

उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव ।
आरोढुमुपचक्राम विमानवरमुत्तमम् ॥ ७.७७.१७ ॥

他依礼法漱水净身之后,啊罗忽族之最,那天界之人开始登上那最上乘的殊胜飞车。

7.77.18

तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै ।
अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ ७.७७.१८ ॥

我望见那如神的天界之人正在登上飞车,啊人中雄牛,于是对他说了这些话。

7.77.19

को भवान्देवसङ्काश आहारश्च विगर्हितः ।
त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ ७.७७.१९ ॥

你像天神一般,是谁?你为何吃这可憎的食物?善者啊,请告诉我。

7.77.20

कस्य स्यादीदृशो भाव आहारो देवसम्मतः ।
आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ ७.७७.२० ॥

谁会处于这样的境地,又是谁的食物被天神所认可?善者啊,这真是奇事;我想如实听你说。

7.77.21

नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥ ७.७७.२१ ॥

我认为这具尸体并不适合你食用。

7.77.22

इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च ।
श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥ ७.७७.२२ ॥

人主啊,他这样被问之后,那位天界之人出于好奇,以温和真实的言辞,听完了我所有的话,便将一切如实告诉了我。