蚁垤《罗摩衍那》 · 篇 7.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.8.1
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।
माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ॥ ७.८.१ ॥
当军队被从背后击打时,毗湿奴(莲花脐者)之下,摩利耶梵返身而退,如同抵达岸边的大海又退回。
7.8.2
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः ।
पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ ७.८.२ ॥
这位双眼因愤怒而通红、头冠晃动的夜行者,对至上之人莲花脐者说了这番话。
7.8.3
नारायण न जानीषे क्षात्रधर्मं पुरातनम् ।
अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥ ७.८.३ ॥
啊,那罗延!你不知古老的刹帝利法:你杀我们这些心不愿战、心生恐惧的人,如同杀普通人一般。
7.8.4
पराङ्मुखवधं पापं यः करोत्यसुरेतरः ।
स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ ७.८.४ ॥
凡是犯下杀害背转身者之罪的人——不是阿修罗之人——这样的杀人者不能升天,也不能获得行善者的果报。
7.8.5
युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४
अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ॥ ७.८.५ ॥
啊,持螺、轮、杵者!若你有战斗之心,我便站在这里;请展示你的力量。
7.8.6
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् ।
उवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ ७.८.६ ॥
看见摩利耶梵如山岳般屹立,天王(因陀罗)的幼弟、力大无穷者,便对那罗刹之王说道。
7.8.7
युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् ।
राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७.८.७ ॥
我曾为被你们惊吓的诸神赐予无畏,并许诺消灭罗刹;如今这一诺言正在兑现。
7.8.8
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।
सो ऽहं वो निहनिष्यामि रसातलगतानपि ॥ ७.८.८ ॥
诸神所喜爱之事,我当常以性命相托去完成;因此,即便你们逃入幽冥,我也必定将你们杀死。
7.8.9
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् ।
शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ ७.८.९ ॥
神中之神正在说话时,愤怒的罗刹王以长矛刺穿了他那双如红莲般眼睛的胸前两臂之间。
7.8.10
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।
हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ ७.८.१० ॥
从马利亚梵之臂脱出的长矛,发出如铃般的声响,照耀在哈里的胸膛上,犹如云中的百道闪电。
7.8.11
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।
माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ ७.८.११ ॥
于是这位深受持兵者喜爱的莲眼之神拔出那支长矛,瞄准马利亚梵掷去。
7.8.12
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता ।
काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ॥ ७.८.१२ ॥
那长矛从哥文达之手射出,如斯堪达所掷,渴望罗刹,飞向因陀罗的安闍那山而去。
7.8.13
सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते ।
अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥ ७.८.१३ ॥
它落在罗刹王宽阔的胸膛上,那胸膛因花环的重量而闪耀,如同雷霆落在山峰之上。
7.8.14
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ।
माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ ७.८.१४ ॥
他的铠甲被它刺穿,他陷入了深深的黑暗;他再次苏醒,马利耶凡像山一样屹立不动。
7.8.15
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् ।
प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ ७.८.१५ ॥
于是,他握起一支黑铁制成、布满许多尖刺的长矛,猛力刺向天神(罗什曼那)的两胸之间。
7.8.16
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।
ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ ७.८.१६ ॥
同样,那沾满战血的夜行者,用拳头击打了因陀罗的幼弟(罗什曼那),然后后退了一张弓的距离。
7.8.17
ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः ।
आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ ७.८.१७ ॥
这时天空中响起一片大声喊道:“好!好!”罗刹击打了毗湿奴,也击打了迦鲁达。
7.8.18
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् ।
व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ ७.८.१८ ॥
于是愤怒的毗娜塔之子(迦鲁达)以双翼之风将罗刹吹开,如同强风吹散一堆干枯的落叶。
7.8.19
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।
सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ ७.८.१९ ॥
见长兄被群鸟之王的翅风吹散,苏摩利便率自己的部众朝楞伽而去。
7.8.20
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।
स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ ७.८.२० ॥
摩利耶梵亦被翅风之力所卷起,满怀羞愧,与自己的部众会合后前往楞伽。
7.8.21
एवं ते राक्षसा तेन हरिणा कमलेक्षण ।
बहुशः संयुगे भग्ना हतप्रवरनायकाः ॥ ७.८.२१ ॥
如此,莲花眼者啊,那些罗刹在战斗中屡次被那位哈利(迦楼罗)击溃,其最重要的首领也被杀死。
7.8.22
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ।
त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥ ७.८.२२ ॥
他们无力与毗湿奴对抗,为恐惧所折磨,便离开楞伽,与妻子们一同前往地下世界帕塔拉居住。
7.8.23
सुमालिनं समासाद्य राक्षसं रघुसत्तम ।
स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ ७.८.२३ ॥
诸罗ghu中最优秀的啊!他们前往罗刹苏摩利处,以英勇闻名的他们便安居于萨拉卡坦卡塔一族之中。
7.8.24
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः ।
सुमाली माल्यवान्माली ये च तेषां पुरःसराः ॥
सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ॥ ७.८.२४ ॥
你所杀的那些补罗斯底耶罗刹——苏摩利、摩利耶梵、摩利以及他们的首领们——都是极有福分的,而且比罗波那还要强大得多。
7.8.25
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।
ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ ७.८.२५ ॥
除了手持螺号、轮宝与金刚杵的神明那罗延天,无人能诛杀罗刹——诸神的敌人,诸神的荆棘。
7.8.26
भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।
राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥ ७.८.२६ ॥
您便是四臂、永恒的神明那罗延天,为诛灭罗刹而降生;您不可战胜,是主宰,是不灭者。
7.8.27
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः ।
उत्पद्यते दस्युवधे शरणागतवत्सलः ॥ ७.८.२७ ॥
每当法度的秩序败坏之时,您——众生的福祉之主,庇护归依者的慈悲者——便在每一时代降生,以诛灭盗贼。
7.8.28
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् ।
भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ ७.८.२८ ॥
人主啊,今日我已将罗刹的起源如实讲述给您。罗怙族的至上者啊,请听我讲罗波那无与伦比的出身与威力,以及他众子的一切。
7.8.29
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा ।
पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ॥ ७.८.२९ ॥
经过很长时间,那位因畏惧毗湿奴而困苦的强大罗刹苏摩利在地底世界漫游;随后,他与子孙一同,作为财神,居住在楞伽城。