Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.80

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.80.1

एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ ७.८०.१ ॥

这位从瓶中诞生的大仙向罗摩讲述完此事后,又在同一故事中开始了另一段话。

7.80.2

ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ ७.८०.२ ॥

此后,啊,迦古特斯塔之后,自制的檀陀在那里统治了许多年、数万年,使王国中的荆棘尽除。

7.80.3

अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ७.८०.३ ॥

后来某一时,国王在迷人的遮伊特拉月来到了婆迦婆的可爱修道院。

7.80.4

तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ॥ ७.८०.४ ॥

檀陀在那里看见婆哩古家族的女儿,她在大地上容貌无双,无与伦比,正在林间游走。

7.80.5

स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ७.८०.५ ॥

他见到她,这极其愚昧的人被爱神之箭所折磨,走近那极其惊慌的少女,说出了这些话。

7.80.6

कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे ।
पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ॥ ७.८०.६ ॥

美臀的女子啊,你从何而来,是谁的女儿?吉祥的女子啊,我被爱神折磨,向你走来,美面的女子啊。

7.80.7

तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७.८०.७ ॥

当他这样说话、被迷惑和欲望冲昏头脑时,婆尔伽维以温和的言辞回答了国王。

7.80.8

भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ७.८०.८ ॥

大王,你要知道,我是婆利古族仙人的女儿,他行事不知疲倦,如同神明。我名叫阿罗阇,是长女,居住在修行林中。

7.80.9

मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।
व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ ७.८०.९ ॥

国王啊,不要强迫我;我是受父亲管束的少女。大王,我的父亲是我的师长,而你是那位大德之人的弟子。那位大苦行者若震怒,会给你带来巨大的灾祸。

7.80.10

यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ॥ ७.८०.१० ॥

若依法而行、走正道,还应当以别的方式对待我,那么,人中之最,请向我那大光辉的父亲求娶我吧。

7.80.11

अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।
क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ॥ ७.८०.११ ॥

否则,你将遭受可怕的后果;因为我父亲一旦震怒,连三界都能焚为灰烬。

7.80.12

दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ ७.८०.१२ ॥

无可挑剔的人啊,如果你求请,我的父亲一定会把我(的婚事)许给你。

7.80.13

एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ ७.८०.१३ ॥

阿罗迦如此说话时,被欲望支配的檀陀罗陷入狂乱,将合十的双手置于头上回答。

7.80.14

प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ ७.८०.१४ ॥

美腰的女子啊,请施恩惠,不要浪费时间。美面的女子啊,因为你,我的生命气息正在撕裂。

7.80.15

त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ ७.८०.१५ ॥

即便得到你之后我遭遇死亡或可怕的诅咒,胆怯的女子啊,请接纳我这个崇拜你、极度慌乱的信徒。

7.80.16

एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ ७.८०.१६ ॥

说完这些,那强者用双臂强行抓住少女,她挣扎扭动,他便按自己的欲望与她行淫。

7.80.17

एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ ७.८०.१७ ॥

檀陀罗犯下这一极其可怕、残忍的罪行后,迅速前往优秀的摩图曼塔城。

7.80.18

अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ॥ ७.८०.१८ ॥

阿罗迦哭泣着,也在不远的隐修处,惊恐万分地等待着如神明般的父亲。