Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.81.1

स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ ७.८१.१ ॥

听完片刻之后,无量光辉的天仙圣人饥饿难忍,在弟子簇拥下返回了自己的修道林。

7.81.2

सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ॥ ७.८१.२ ॥

他看见一个凄惨、无饰、蒙满尘土的景象,不再光彩,恰如黎明时被食所掩的月光。

7.81.3

तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।
निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ॥ ७.८१.३ ॥

他心中升起怒火,尤其因饥饿所苦,仿佛要焚烧三界;于是他对弟子说了这些话。

7.81.4

पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।
विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ॥ ७.८१.४ ॥

看那落在乖戾而不克制自己之人身上的惩罚之灾,它恰如愤怒的火焰。

7.81.5

क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ७.८१.५ ॥

这个恶念的恶徒及其随从的毁灭已经降临,他想要触碰燃烧的火焰。

7.81.6

यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ७.८१.६ ॥

因为他犯下如此可怕的罪孽,这愚人将得到这罪恶行为的果报。

7.81.7

सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७.८१.७ ॥

七夜之内,那位国王连同他的随从、军队与车骑,这行恶作孽的恶念之人必将遭到毁灭。

7.81.8

समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ७.८१.८ ॥

周围百由旬之内,这恶念者的领土将被帕卡之惩罚者因陀罗以巨大的尘雨焚毁。

7.81.9

सर्वसत्वानि यानीह स्थावराणि चराणि च ।
महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ॥ ७.८१.९ ॥

此地所有有生之物,无论静止或运动者,都在巨大的尘雨中四处消亡。

7.81.10

दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ ७.८१.१० ॥

凡檀陀王国所及之处,所有直立之物都将如尘雨般在七夜之中不可见。

7.81.11

इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ७.८१.११ ॥

说罢,他双目因愤怒而赤红,便对住在净修处和国界边境的人们说:「你们都留在这里。」

7.81.12

श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः ।
निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ॥ ७.८१.१२ ॥

那些住在净修处的人听了乌尚那斯的话,便离开了那片国土,随后在外面另找了住处。

7.81.13

स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।
इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ ७.८१.१३ ॥

他对众仙人这样说完后,对阿罗迦说:“愚蠢的女子,就住在这里的修行处中,专心致志吧。”

7.81.14

इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ ७.८१.१४ ॥

“这湖泊延绵一由旬,光彩十分迷人——阿罗迦,你无忧无虑地享用它吧,并在此等待时机。”

7.81.15

त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥ ७.८१.१५ ॥

“那夜住在你附近的众生,将永远不会被尘土之雨所害。”

7.81.16

श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा ।
तथेति पितरं प्राह भार्गवं भृशदुःखिता ।
इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ ७.८१.१६ ॥

婆迦(布勒古之女)阿罗迦听到梵仙的命令后,十分悲伤,对父亲婆迦说:“就这样吧。”说完,婆迦便另外建造了住处。

7.81.17

तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।
सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ ७.८१.१७ ॥

国王的那个王国,连同仆人、军队和车马,按照婆罗门的宣说,在七天之内化为灰烬。

7.81.18

तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।
शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ ७.८१.१८ ॥

国王啊,他被惩罚的地方,是在温底亚山与沙拉山之间的土地,当这两者违背法而结合时,被梵仙所诅咒。

7.81.19

ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।
तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ॥ ७.८१.१९ ॥

啊,迦恭他之后罗摩!从那时起,此林便被称为檀陀迦林。因苦行者居住于此,它又名人居。

7.81.20

एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।
सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ ७.८१.२० ॥

罗怙之裔啊,你所问的,我都已告诉你了。英雄啊,黄昏祭拜的时辰正在流逝。

7.81.21

एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।
कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ ७.८१.२१ ॥

人中之虎啊,这些大仙人们,周围放着盛满水的瓶,沐浴之后,正在礼拜太阳。

7.81.22

स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।
रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ ७.८१.२२ ॥

罗摩啊,被这些梵智最卓越者所礼拜的太阳,如今正在落下。去吧,以水漱口行净化之礼。