蚁垤《罗摩衍那》 · 篇 7.84
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.84.1
तथोक्तवति रामे तु भरते च महात्मनि ।
लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ ७.८४.१ ॥
罗摩与大德的婆罗多如此说完后,罗什曼那对罗怙之喜者说出了这番吉祥的话。
7.84.2
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।
पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ ७.८४.२ ॥
大马祭是能洗净一切罪过的大祭。对你而言它也纯净而不可侵犯,罗怙之喜者啊,愿它令你欢喜。
7.84.3
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ७.८४.३ ॥
据说有一个关于大德婆薮(因陀罗)的古老传说:被杀婆罗门之罪所缠的帝释天,通过马祭得以清净。
7.84.4
पुरा किल महाबाहो देवासुरसमागमे ।
वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ॥ ७.८४.४ ॥
往昔,大臂者啊,在诸天与阿修罗相遇之时,有一位名叫弗栗多的大提提亚,为世界所尊敬。
7.84.5
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।
अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥ ७.८४.५ ॥
他宽一百由旬,高度为其三倍;他以慈爱从各方注视三界。
7.84.6
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।
शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ७.८४.६ ॥
他通晓法、懂得感恩,智慧坚定,以法专一,统治着繁荣的大地。
7.84.7
तस्मिन्प्रशासति तदा सर्वकामदुघा मही ।
रसवन्ति प्रभूनानि मूलानि च फलानि च ॥ ७.८४.७ ॥
他治理之时,大地成为满足一切愿望的神牛,美味的根与果实大量生长。
7.84.8
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ ७.८४.८ ॥
在这位大德之王治下,大地不经耕种便能丰收,极为富饶。他享有如此繁荣、令人叹为观止的王国。
7.84.9
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् ।
तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ॥ ७.८४.९ ॥
他心中决定:“我要修最高的苦行,因为苦行是至高的善,其他的快乐都是迷惑。”
7.84.10
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।
तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥ ७.८४.१० ॥
他将长子——摩图罗之主——托付给百姓,开始了猛烈的苦行,使众神都为之灼热不安。
7.84.11
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।
विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥ ७.८४.११ ॥
因为毗摩随修苦行,婆萨瓦(因陀罗)深感忧虑,便走到毗湿奴面前,说了这番话。
7.84.12
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः ।
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ॥ ७.८४.१२ ॥
啊,大臂者!修苦行的毗摩已经征服了诸界。他强大而心怀正法,我无法制服他。
7.84.13
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर ।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ ७.८४.१३ ॥
阿修罗之主啊,若他再次修苦行,那么只要世界存在,它们都将受他支配。
7.84.14
तं चैनं परमोदारमुपेक्षसि महाबलम् ।
क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ ७.८४.१४ ॥
你却忽视他——他极为慷慨,力量强大。天神之主啊,若你发怒,弗栗多连片刻也无法存活。
7.84.15
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।
तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ ७.८४.१५ ॥
毗湿奴啊,自从你与我以友情结合之时起,他便获得了诸世界的主宰之权。
7.84.16
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।
त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ॥ ७.८४.१६ ॥
因此,请你以专注的心意向诸世界施恩;只因你的作为,整个世界便会安宁,免于苦痛。
7.84.17
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।
वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ॥ ७.८४.१७ ॥
毗湿奴啊,这些天界的居民都在仰望着你。请在诛杀弗栗多的大战中助他们一臂之力。
7.84.18
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।
असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ ७.८४.१८ ॥
你始终援助这些大德之人。对其他无依无靠的众生而言,此事不堪忍受;你是他们的依归。