蚁垤《罗摩衍那》 · 篇 7.85
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.85.1
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।
वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ ७.८५.१ ॥
罗摩听了罗什曼那的话,这位消灭敌人、坚守誓愿的人说:“请完整地讲述杀死弗栗多的故事。”
7.85.2
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।
भूय एव कथां दिव्यां कथयामास सुव्रतः ॥ ७.८५.२ ॥
罗怙婆(罗摩)如此说后,增添苏弥陀喜悦、坚守誓愿的罗什曼那又讲述了那段神圣的故事。
7.85.3
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ७.८५.३ ॥
毗湿奴听了千眼者(因陀罗)和所有天界居民的话,对以因陀罗为首的诸神说了这番话。
7.85.4
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः ।
तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ७.८५.४ ॥
“我先前与大德的弗栗多有友好之约。因此即便为了你们的利益,我也不会杀那位大阿修罗。”
7.85.5
अवश्यं करणीयं च भवतां सुखमुत्तमम् ।
तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ७.८५.५ ॥
“你们的至高福祉必须实现。因此我将说出杀死弗栗多的方法。”
7.85.6
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।
तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ७.८५.६ ॥
“诸位神中的至尊啊!我将把自己分成三份,由此千眼者(因陀罗)必将杀死弗栗多,这毫无疑问。”
7.85.7
एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।
तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ ७.८५.७ ॥
一份归于婆娑婆(因陀罗),第二份留在金刚杵中,第三份立于大地;那时,帝释将杀死弗栗多。
7.85.8
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।
एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ७.८५.८ ॥
天神之主如此说罢,诸神答道:“噉,斩杀达伊提亚者啊,正如你所说,此事必成,毫无疑问。”
7.85.9
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।
भजस्व परमोदार वासवं स्वेन तेजसा ॥ ७.८५.९ ॥
愿你吉祥!我们怀着诛杀阿修罗弗栗多的愿望前往。至高的慷慨者啊,请以你自身的光辉护持婆娑婆吧。
7.85.10
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।
तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ ७.८५.१० ॥
于是,以千眼者为首的诸位大德,前往那片森林,大阿修罗弗栗多就在那里。
7.85.11
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।
पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ७.८५.११ ॥
他们看见那位阿修罗之首以自身光辉炽烈燃烧,仿佛要吞饮三界、焚烧天空。
7.85.12
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।
कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ ७.८५.१२ ॥
诸天神一见这阿修罗之首,便陷入恐惧。“我们怎样才能杀死他?怎样才能不致败北?”
7.85.13
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।
वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥ ७.८५.१३ ॥
当他们思量之际,千眼的补兰陀罗双手握住金刚杵,掷向伐律多罗的头顶。
7.85.14
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।
पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ॥ ७.८५.१४ ॥
如同时间之火,可怖而炽热、火焰巨大,伐律多罗的头颅坠落时,世界陷入恐惧。
7.85.15
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ ७.८५.१५ ॥
他想到杀死伐律多罗是不可能之事,诸神之主、大名远扬的因陀罗迅速前往世界的尽头。
7.85.16
तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति ।
अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ ७.८५.१६ ॥
杀害婆罗门之罪(梵杀)紧随匆匆而去的因陀罗;它落在他的肢体上,忧苦便进入了那位因陀罗。
7.85.17
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।
विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ ७.८५.१७ ॥
敌人虽已被杀,但因陀罗已失,以火神为首的诸天神便一再礼拜三界之主毗湿奴。
7.85.18
त्वं गतिः परमेशान पूर्वजो जगतः पिता ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ७.८५.१८ ॥
至上的主啊,你是归宿,是世界的长子与父亲;为了守护一切众生,你化身为毗湿奴。
7.85.19
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।
बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ ७.८५.१९ ॥
众神中的猛虎啊!你已杀死了弗栗多,而杀婆罗门之罪正折磨着婆薮(因陀罗)。请指明摆脱它的途径。
7.85.20
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ ७.८५.२० ॥
毗湿奴听了他们的话,对众神说:“让帝释只崇拜我;我将净化持金刚者。”
7.85.21
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ ७.८५.२१ ॥
以神圣的马祭供奉我之后,击败巴卡的帝释将重新获得众神无畏的因陀罗之位。
7.85.22
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् ।
जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ ७.८५.२२ ॥
毗湿奴以如甘露般的言辞教导众神之后,在赞颂声中,前往天界。