Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.88.1

तां कथामिलसम्बद्धां रामेण समुदीरिताम् ।
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ ७.८८.१ ॥

罗摩所讲的与伊拉相关的那个故事,拉克什曼那和婆罗多听后都极为惊讶。

7.88.2

तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ ७.८८.२ ॥

两人合掌走到罗摩面前,再次询问那位大德之王的详细情况。

7.88.3

कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।
पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ७.८८.३ ॥

那位国王化为女身后如何在困顿中生活?而当他重新成为男子时,又以何种生计维持生活?

7.88.4

तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।
कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ७.८८.४ ॥

罗摩听了他们充满好奇的话语,便把那位国王的经历按发生的样子讲述给他们听。

7.88.5

तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।
ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ७.८८.५ ॥

第一个月里,他便化为女身,成为世间的绝色佳人,被那些女子以及从前跟随他脚步的人们簇拥着。

7.88.6

तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी ।
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ७.८८.६ ॥

她很快走进那片森林,这位世间绝色、眼如莲瓣的女子,徒步在那片布满树木、灌丛和藤蔓的林中嬉戏游玩。

7.88.7

वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।
पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७.८८.७ ॥

她四面抛下了所有车辆,那时伊拉便在山的宽阔洞穴中嬉戏。

7.88.8

अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।
सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ७.८८.८ ॥

然后在那片林地中,离山不远处,有一个极其美丽的湖,充满了各种鸟群。

7.88.9

ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा ।
ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ७.८८.९ ॥

那时伊拉在那里看见了苏摩之子布陀,他以自身的光体闪耀,如同升起的满月。

7.88.10

तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।
यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ॥ ७.८८.१० ॥

他在水中间修持苦行,难以接近,赐予荣誉,唤起欲望,安住于慈悲之中。

7.88.11

सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।
सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ७.८८.११ ॥

她惊讶地搅动了整个湖水,啊,罗怙之乐,与她的同伴一起——那些变为女身的先祖们。

7.88.12

बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।
नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ॥ ७.८८.१२ ॥

然而布陀一见到她,便为爱神之箭所控制;他不再觉察自己,于是在水中摇动起来。

7.88.13

इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।
चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ॥ ७.८८.१३ ॥

望着比三界更美的伊拉,蓀陀陷入沉思:"她是谁,竟胜过诸天女神?"

7.88.14

न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।
दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ ७.८८.१४ ॥

在天女、龙女、阿修罗女与阿普萨拉中,我从未见过有谁以如此容貌光彩照人。

7.88.16

सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ ७.८८.१६ ॥

若她不是他人之妻,她便应配我。于是他来到苦行处,召唤那些殊胜的女子,她们也向他行礼。

7.88.17

स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।
किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ ७.८८.१७ ॥

那位正直者问她们:"这世间的绝色属于谁?她为何而来?请毫不迟疑地全部告诉我。"

7.88.18

शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।
श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ ७.८८.१८ ॥

她们听到他那吉祥、悦耳、字字温柔的话语,便都以温柔的声音回答。

7.88.19

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।
अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ ७.८८.१९ ॥

这位丰臀的美人始终在我们的掌管之下。她没有丈夫,与我们一同在林中深处游荡。

7.88.20

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।
विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥ ७.८८.२० ॥

那位再生婆罗门听到那些女子含混不清的话语后,施展了能够逆转变化的神圣法术。

7.88.21

सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ ७.८८.२१ ॥

那位最杰出的圣人完全了解了那位国王之事的来龙去脉后,便对所有这些女子说话。

7.88.22

अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ ।
आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ॥ ७.८८.२२ ॥

你们在此化为紧那罗女,将居住在山坡上。现在,请迅速在这座山上安排你们的住所。

7.88.23

मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।
स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ॥ ७.८८.२३ ॥

你们都将常以根、叶和果实为生。女子们,你们将得到紧那罗男子作为丈夫。

7.88.24

ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः ।
उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ ७.८८.२४ ॥

那些女子听了月神之子的话,被变成紧那罗女,于是便依附于那座山居住下来。