Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.92.1

तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ॥ ७.९२.१ ॥

婆罗多的长兄迅速将一切完备地派出后,释放了那匹具有吉祥相、带有黑羚羊印记的马。

7.92.2

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।
ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ॥ ७.९२.२ ॥

与祭司们一起委派罗什曼那看护马匹之后,迦库特斯特ha便率军前往奈弥沙林。

7.92.3

यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।
प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ॥ ७.९२.३ ॥

大臂的吉祥者见到祭场如此殊胜奇妙,获得无比的丰盛,便说了这些话。

7.92.4

नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।
आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ॥ ७.९२.४ ॥

他住在奈弥沙林时,所有的国王都带着礼物前来,罗摩也以礼相待,予以回敬。

7.92.5

उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥ ७.९२.५ ॥

这位人中之杰、大智之人下令为诸位高尚的国王及其随从准备合宜而极为贵重的供应。

7.92.6

अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।
भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ॥ ७.९२.६ ॥

于是婆罗多与设睹卢那一同迅速把饮食和衣服分赠给诸位高尚者及其随从。

7.92.7

वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ ७.९२.७ ॥

当时,与须羯哩婆同在的诸位大德猴众,都恭敬地俯身,开始为婆罗门们分食布菜。

7.92.8

बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ ७.९२.८ ॥

毗භීষণ被许多戴着花环的罗刹环绕,向苦修严烈的大德仙人致以供养。

7.92.9

एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत ।
लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत ।
ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ॥ ७.९२.९ ॥

如此,安排妥当的马祭继续进行,由罗什曼那守护的马匹继续前行。这便是这位王中雄狮最为殊胜的祭祀。

7.92.10

नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः ।
छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ॥ ७.९२.१० ॥

在这位大德的马祭中,没有别的声音,只有这句:「凡有所求,尽管无疑地施予,直到求者皆得满足。」

7.92.11

तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः ।
विविधानि च गौडानि खाण्डवानि तथैव च ॥ ७.९२.११ ॥

在祭祀进行之中,大德将这一切尽数施予;各种以红糖制成的甜饮,以及冰糖点心,也同样施予。

7.92.12

न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् ।
तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥ ७.९२.१२ ॥

给求者的话尚未从诸侍从的口中说出,便已看到猴众与罗刹早已施予。

7.92.13

न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः ।
तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ ७.९२.१३ ॥

在国王那场最殊胜的祭祀中,满是欢喜而丰足的人群,其中没有一人萎靡、困苦或憔悴。

7.92.14

ये च तत्र महात्मानो मुनयश्चिरजीविनः ।
नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ॥ ७.९२.१४ ॥

在场的大德长寿诸仙人也不曾记得有这样的祭祀,它从未发生过。

7.92.15

यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः ।
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥ ७.९२.१५ ॥

需要黄金的人便得到黄金;求财的人得到财物,求宝的人便得到宝物。

7.92.16

रजतानां सुवर्णानामश्मनामथ वाससाम् ।
अनिशं दीयमानानां राशिः समुपदृश्यते ॥ ७.९२.१६ ॥

银、金、宝石与衣物堆积如山,虽然不断地在施舍,堆积之势依然可见。

7.92.17

न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ ७.९२.१७ ॥

苦行者们说,即便在因陀罗、财神俱毗罗、阎摩或伐楼那的祭祀中,也从未见过这样的景象。

7.92.18

सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।
वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ ७.९२.१८ ॥

到处站立着猴族,到处也有罗刹;他们满手地向求者慷慨施予衣服、财物与食物。

7.92.19

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।
संवत्सरमथो साग्रं वर्तते न च हीयते ॥ ७.९२.१९ ॥

罗摩——王中之狮——的祭祀如此,具备一切美德,已持续一年多,且未曾减损。