蚁垤《罗摩衍那》 · 篇 7.94
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.94.1
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।
यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥ ७.९४.१ ॥
夜尽黎明之时,二人沐浴后向圣火献上供品。依照仙人先前的吩咐,他们在那里将全部内容吟唱出来。
7.94.2
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् ।
अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ॥ ७.९४.२ ॥
迦古特斯特之后裔罗摩听到了那首歌。它由古代师长所作,诵读之法前所未有,并以歌唱加以装饰。
7.94.3
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।
बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ॥ ७.९४.३ ॥
罗摩从这两个少年那里听到那首歌。它遵循许多规则,并配合弦乐之音与节拍,罗摩听后充满好奇。
7.94.4
अथ कर्मान्तरे राजा समाहूय महामुनीन् ।
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ ७.९४.४ ॥
此后,在处理政务的间隙,人中之虎的君王召集了大仙、诸王、学者以及通晓吠陀的人。
7.94.5
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः ।
स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥ ७.९४.५ ॥
他又召集了诵读往世书者、通晓词义之人、年长的再生族,以及热切而精通音律特征的优秀再生族。
7.94.6
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः ।
पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ॥ ७.९४.६ ॥
他又召集了通晓乾闼婆艺术特征的乾闼婆们,尤其是吠陀学者,以及精通音步、音节与复合词、在韵律上卓有造诣的人。
7.94.7
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् ।
क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ॥ ७.९४.७ ॥
他召集了通晓kalā与mātrā细微区别的人、在天文学上造诣至深的人、精通仪轨程序的人以及熟知事务职责的人。
7.94.8
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।
हेतूपचारकुशलान् वचने चापि हैतुकान् ॥ ७.९४.८ ॥
他又召集了通晓诸语言、能领会手势与暗示的人,精通吠陀经典的全部学者,善于推理与恰当运用的人,以及在言辞中擅长逻辑辩论的人。
7.94.9
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।
चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ ७.९४.९ ॥
他召集了通晓韵律的人、通晓往世书的人、吠陀学者、最优秀的再生者、通晓绘画的人、通晓诗律与经句的人,以及精通歌唱与舞蹈的人。
7.94.10
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।
एतान्सर्वान्समानीय गातारौ समवेशयत् ॥ ७.९४.१० ॥
他将所有这些人——通晓诸学的人、精通治国之道的人、阐明吠檀多义理的导师——聚集起来,让那两位歌者坐在他们之中。
7.94.11
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ॥ ७.९४.११ ॥
众位仙人与威光盛大的诸王见到他们,仿佛用双眼在饮水一般,凝望着国王与那两位歌者。
7.94.12
ऊचुः परस्परं चेदं सर्व एव समन्ततः ।
उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ॥ ७.९४.१२ ॥
众人四面八方彼此说道:“这二人与罗摩相似,仿佛一个影像从另一个影像中浮现出来。”
7.94.13
जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।
विशेषं नाधिगच्छामो गायतो राघवस्य च ॥ ७.९४.१३ ॥
若这二人不是披着乱发、穿着树皮衣,我们在他们与唱歌的罗怙之子之间便看不出任何差别。
7.94.14
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् ।
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ ७.९४.१४ ॥
众人如此交谈之际,那两位仙人之子在那里开始演唱,使听众的欢喜增长。
7.94.15
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।
न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ॥ ७.९४.१५ ॥
随后响起了甜美而超凡的乾闼婆之乐,听众却未因这歌声的丰饶而满足。
7.94.16
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥ ७.९४.१६ ॥
从那罗陀所示的第一章开始,此后一直唱到第二十章。
7.94.17
ततो ऽपराह्णसमये राघवः समभाषत ।
श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ॥ ७.९४.१७ ॥
午后时分,爱护兄弟的罗怙之子听完那二十章之后,对弟弟说道。
7.94.18
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।
प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।
ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ॥ ७.९४.१८ ॥
“啊,卡库特stha!请速将黄金一万八千赐予这两位大德的少年,并给他们所愿求的其他任何东西。”于是那位卡库特stha立即分别赐给了这两位少年。
7.94.19
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ ।
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ ७.९४.१९ ॥
正当人们献上黄金时,二位库奢罗与罗婆都不肯接受。这两位大德惊讶地说:“这对我们有什么用?”
7.94.20
वन्येन फलमूलेन निरतौ वनवासिनौ ।
सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ ७.९४.२० ॥
我们是居住在森林中的人,以林中的果实与根茎为满足;在森林里,我们要这黄金做什么?
7.94.21
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ।
श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥ ७.९४.२१ ॥
二人这样说话时,满怀好奇的听众以及罗摩,全都极为惊异。
7.94.22
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।
पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ ७.९४.२२ ॥
罗摩渴望听闻这部诗篇,并想了解那位圣人的到来,这位光辉的罗摩便向那两位仙人之子发问。
7.94.23
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।
कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ॥ ७.९४.२३ ॥
这部诗篇有多长?那位大德的根基是什么?这部伟大诗篇的作者在哪里?那位最优秀的仙人又在何处?
7.94.24
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥ ७.९४.२४ ॥
罗怙罗在询问时,那两位仙人之子说出了这些话。
7.94.25
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् ।
येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ॥ ७.९४.२५ ॥
作者尊者蚁垤已抵达祭祀之地;他已将您的全部事迹完整地展示出来。
7.94.26
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् ।
उपाख्यानशतं चैव भार्गवेण तपस्विना ॥ ७.९४.२६ ॥
婆利古族的苦行者以二万四千颂写成此书,其中还包括一百个插话。
7.94.27
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च ।
काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।
कृतानि गुरुणास्माकमृषिणा चरितं तव ॥ ७.९४.२७ ॥
大王,自始至终,我们的老师,那位大德仙人,已编成六篇、连同《后篇》共五百章;他编写了您的事迹。
7.94.28
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ ७.९४.२८ ॥
只要生命存续,(此故事的)根基便永存于众人之中。
7.94.29
सोत्तराणि महात्मना ।
यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ ।
कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ ७.९४.२९ ॥
大王,大战车手,若您有意聆听,就在政务的间隙,与您的弟弟一同听吧。
7.94.30
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।
प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥ ७.९४.३० ॥
罗摩说:“很好。”二人向罗怙后裔告辞后,欢欣地前往那位最尊贵的仙人所在之处。
7.94.31
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।
श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ॥ ७.९४.३१ ॥
罗摩也与诸位仙人及大德诸王一同,听到那歌声的甜美,便来到作坊厅。
7.94.32
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ।
तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥ ७.९४.३२ ॥
他听到那首歌,它有节拍与韵律,分为诸章,配以悦耳的声音,合以琴弦的节奏与字音的配合,由俱舍与罗婆共同吟唱。