Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.95

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.95.1

रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।
शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ ७.९५.१ ॥

就这样,罗摩连日聆听那首至为吉祥的歌曲,与众仙人、诸王和猴子们在一起。

7.95.2

तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।
तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।
दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ॥ ७.९५.२ ॥

罗摩在那歌声中认出了悉多的两个儿子俱舍与罗婆,便在大众之中说出这些话;他以自己的智慧召来行为纯正的使者。

7.95.3

मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ॥ ७.९५.३ ॥

请传达我的话;从这里前往那位尊者面前。

7.95.4

परिषदो मध्ये रामो वचनमब्रवीत् ।
यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ७.९५.४ ॥

若她行为纯洁、无有污点,就请在此经大仙允许后证明自己的清白。

7.95.5

छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।
प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ७.९५.५ ॥

你们了解了仙人的意愿与悉多心中所想,以及她想要给予保证的心意后,便快快告诉我。

7.95.6

श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।
करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ७.९५.६ ॥

明天黎明,让遮那伽之女摩提利在大众中起誓,既为她自己的清白,也为我的清白。

7.95.7

श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् ।
दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ॥ ७.९५.७ ॥

众使者听了罗怙后裔(罗摩)这句极其奇妙的话,立即前往最优秀的仙人所在之处。

7.95.8

ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।
ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ७.९५.८ ॥

他们向这位蕴含无量光辉、熠熠生辉的大德者行礼,然后转达了罗摩柔和甜美的话语。

7.95.9

तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।
विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ७.९५.९ ॥

听了他们的话,并领会了罗摩内心的意愿,这位大光明的仙人便说出了这番话。

7.95.10

एवं भवतु भद्रं वो यथा वदति राघवः ।
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ ७.९५.१० ॥

"就这样吧,愿你们平安。罗怙后裔怎么说,悉多就怎么做,因为对女子而言,丈夫就是神明。"

7.95.11

तथोक्ता मुनिना सर्वे राजदूता महौजसम् ।
प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ७.९५.११ ॥

仙人如此吩咐之后,所有王室使者迅速返回大力的罗怙后裔处,转告了仙人的话。

7.95.12

ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।
ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ ७.९५.१२ ॥

于是,闻听大德者之言而欢喜的迦古特斯塔(罗摩)便对聚集在那里的仙人和诸王说道。

7.95.13

भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।
पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ॥ ७.९५.१३ ॥

尊者们,连同你们的弟子与随从,诸位人主,请观看悉多的誓言;其余愿意观看的人也请观看。

7.95.14

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ ७.९५.१४ ॥

众多主要仙人听闻大德罗陀之子的这番话,纷纷发出巨大的赞许之声。

7.95.15

राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।
उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ ७.९५.१५ ॥

诸位大德之王也赞美罗怙之子:“此事唯你相称,人中之最,世上别无他人。”

7.95.16

एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।
विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥ ७.९५.१६ ॥

罗怙之子决定如此,说“明日再议”,于是这位摧毁敌人的人便遣散了众人。

7.95.17

विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ ७.९५.१७ ॥

这位大德、大威力者遣散了所有的仙人与诸王。