Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.96.1

तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।
ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥ ७.९६.१ ॥

那夜天亮之后,前往祭祀场的大光明之王罗迦瓦(罗摩)召集了所有的仙人。

7.96.2

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ ७.९६.२ ॥

婆私吒、婆摩提婆、阇跋离、迦叶波、憍尸迦(毗首密多罗)、长苦行者,以及大苦行者杜尔瓦撒。

7.96.3

पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः ।
मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ॥ ७.९६.३ ॥

还有补罗斯底耶、夏克提、婆利古、侏儒(伐摩那)、长寿的摩根德耶,以及大名声的牟德伽利耶。

7.96.4

गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।
भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ ७.९६.४ ॥

迦尔伽与遮婆那、通晓法义的舍塔难陀、光辉的婆罗堕遮、火神之子,以及苏普拉巴。

7.96.5

नारदः पर्वतश्चैव गौतमश्च महायशाः ।
कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ॥ ७.९६.५ ॥

那罗陀与补尔婆多、大名声的瞿昙、迦旃延、善祀,以及苦行的宝藏阿伽斯第耶。

7.96.6

एते चान्ये च बहवो मुनयः संशितव्रताः ।
कौतूहलसमाविष्टाः सर्व एव समागताः ॥ ७.९६.६ ॥

这些以及其他许多持守严格誓愿的仙人,满怀好奇,全都聚集而来。

7.96.7

राक्षसाश्च महावीर्या वानराश्च महाबलाः ।
सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७.९६.७ ॥

勇猛的罗刹与力大的猴众,所有的大德之人,都因好奇而聚集而来。

7.96.8

क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।
नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ७.९६.८ ॥

刹帝利、首陀罗与吠舍成千上万,来自各地,还有坚守誓愿的婆罗门。

7.96.9

ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे ।
सीताशपथवीक्षार्थं सर्व एव समागताः ॥ ७.९६.९ ॥

专注于智慧、行动与瑜伽的人,以及其他人,全都聚集来见证悉多的誓言。

7.96.10

तदा समागतं सर्वमश्मभूतमिवाचलम् ।
श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ ७.९६.१० ॥

此时,聚集的所有人都像化为石头的山岳一样静止。闻此,圣人中最优秀的那位立即与悉多一同到来。

7.96.11

तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।
कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ ७.९६.११ ॥

悉多在圣人身后跟随,低着脸,合掌,泪水哽咽着喉咙,心中怀念着罗摩。

7.96.12

दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।
वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥ ७.९६.१२ ॥

看见悉多跟随在跋尔弥基身后,好似吠陀随从梵天而来,于是响起了巨大的赞许之声。

7.96.13

ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।
दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ ७.९६.१३ ॥

于是众人之中升起一片喧嚷之声,他们的心被由痛苦所生的巨大悲伤所扰乱。

7.96.14

साधु रामेति केचित्तु साधु सीतेति चापरे ।
उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥ ७.९६.१४ ॥

有人喊“善哉,罗摩!”,有人喊“善哉,悉多!”;那里的其他观众则为两人大声喝彩。

7.96.15

ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।
सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ ७.९६.१५ ॥

于是,最优秀的仙人跋弥进入人群中央,由悉多陪同,对罗怙后裔说道。

7.96.16

इयं दाशरथे सीता सुव्रता धर्मचारिणी ।
अपवादैः परित्यक्ता ममाश्रमसमीपतः ॥ ७.९६.१६ ॥

十车王之子啊!这位持守誓愿、行于法的悉多,因流言蜚语,被遗弃在我的修行处附近。

7.96.17

लोकापवादभीतस्य तव राम महाव्रत ।
प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ ७.९६.१७ ॥

罗摩啊,持大誓者啊!悉多将为你这畏惧世人非议的人提供证明;因此你应当允许她被重新接纳。

7.96.18

इमौ तु जानकीपुत्रावुभौ च यमजातकौ ।
सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥ ७.९६.१८ ॥

这两位悉多所生的孪生子,确实是你的儿子,不可战胜。我如实告诉你。

7.96.19

प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन ।
न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ ७.९६.१९ ॥

我是普拉切塔斯的第十个儿子,罗呼之乐啊。我不记得说过任何虚假之言;这两人确实是你的儿子。

7.96.20

बहुवर्षसहस्राणि तपश्चर्या मया कृता ।
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ ७.९६.२० ॥

我修行苦行已经数千年。若这位摩提利是有罪的,愿我得不到那苦行的果报。

7.96.21

मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।
तस्याः फलमुपाश्नीयामपापा मैथिली यदि ॥ ७.९६.२१ ॥

无论意念、行为或言语,她以前从未犯过任何过错。若摩提利是无罪的,愿我获得她的善果。

7.96.22

अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।
विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ ७.९६.२२ ॥

罗呼啊,我以五大和第六的意念作证,认定悉多清白,便在林中溪边接纳了她。

7.96.23

इयं शुद्धसमाचारा अपापा पतिदेवता ।
लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ ७.९६.२३ ॥

这位品行纯洁、毫无罪过、以丈夫为神明的女子,将为惧怕世人非议的你提供证明。

7.96.24

तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।
लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ॥ ७.९६.२४ ॥

因此,人中之最的儿子啊,这位心地纯洁的女子当时在众人的神圣目光前走入了火中。那位被你因世人的非议而蒙蔽了心智所遗弃的爱妻,虽为你所熟知,却是清白的。