蚁垤《罗摩衍那》 · 篇 7.97
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.97.1
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।
प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥ ७.९७.१ ॥
当跋尔弥吉如此说时,罗卦婆(罗摩)合掌回答,望着世间众人之中那位肤色美丽的女子。
7.97.2
एवमेतन्महाभाग यथा वदसि धर्मवित् ।
प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥ ७.९७.२ ॥
正如您所说,大福之人,知法者啊。婆罗门啊,我信您那无瑕的言语。
7.97.3
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।
शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।
लोकापवादो बलवान्येन त्यक्ता हि मैथिली ॥ ७.९७.३ ॥
先前,在诸神面前,进行了维德黑(悉多)的信誓考验;那里立下了誓言,因此她被迎入宫中。世人的诽谤甚为强烈,所以迈提利确实被舍弃了。
7.97.4
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।
परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ॥ ७.९७.४ ॥
婆罗门啊,我因畏惧世人,虽知她无罪,仍舍弃了悉多。您应当原谅我那出于此种心意的行为。
7.97.5
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ॥ ७.९७.५ ॥
我知道这两人是我的儿子,双生子库莎与罗婆。在世间众人之中,愿我对纯洁的迈提利怀有爱意。
7.97.6
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।
सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ॥ ७.९७.६ ॥
诸神中的上位者,理解了罗摩的意图,以因陀罗为首的诸大威光者,出席了悉多的誓言。
7.97.7
पितामहं पुरस्कृत्य सर्व एव समागताः ॥ ७.९७.७ ॥
众神以祖父梵天为首,全部聚集而来。
7.97.8
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव सर्व एव समागताः ॥ ७.९७.८ ॥
诸阿迪提亚、婆薮、楼陀罗、双阿须云,连同风神众,以及乾达婆与阿普萨拉斯,全部聚集而来。
7.97.9
साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।
नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः ।
सीताशपथसम्भ्रान्ताः सर्व एव समागताः ॥ ७.९७.९ ॥
萨陀耶神、毗湿伐提婆、一切大仙、龙众、金翅鸟众与成就者——他们心中欢喜,却因悉多的誓言而心绪不宁,全部聚集而来。
7.97.10
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।
प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ॥ ७.९७.१० ॥
罗怙之裔(罗摩)见诸神与诸仙,又说道:"诸位人中之杰,凭这些无瑕的仙人之言,我已确信。"
7.97.11
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ॥ ७.९७.११ ॥
在世间之中,愿我对清净的毗提诃(悉多)的爱意长存。
7.97.12
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।
तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ॥ ७.९७.१२ ॥
于是,一阵吉祥、清净、带着神圣香气、令人心旷神怡的风,从四面八方使那群人欢悦——这是众神之首、风神所为。
7.97.13
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।
मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ॥ ७.९७.१३ ॥
从各个王国聚集而来的人们注视着这奇异而不可思议的景象,仿佛先前的克里塔时代一般。
7.97.14
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी ।
अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥ ७.९७.१४ ॥
悉多身着赭色衣衫,见众人聚集,合掌低目垂首,说出了这番话。
7.97.15
यथा ऽहं राघवादन्यं मनसापि न चिन्तये ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ ७.९७.१५ ॥
我若心中从未想过罗摩之外的任何人,愿摩陀维女神为我开启一道裂缝。
7.97.16
मनसा कर्मणा वाचा यथा रामं समर्चये ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ ७.९७.१६ ॥
我以意念、行为与言语敬奉罗摩,愿摩陀维女神为我开启一道裂缝。
7.97.17
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ ७.९७.१७ ॥
若我所言为真,且我不知有谁胜过罗摩,愿摩陀维女神为我开启一道裂缝。
7.97.18
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ ७.९७.१८ ॥
悉多如此发誓之时,奇迹发生了——大地之中升起一座神圣无比的宝座。
7.97.19
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।
दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ॥ ७.९७.१९ ॥
力量无量的诸蛇将那宝座托在头上;它们具有天界之身,饰以天界宝石。
7.97.20
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।
स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ॥ ७.९७.२० ॥
于是地母女神以双臂拥住迈提利,以欢迎之辞致意,并请她坐在座位上。
7.97.21
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।
पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥ ७.९७.२१ ॥
众人见她坐于宝座之上,正步入下界罗sātala,于是一阵不绝的天界花雨洒落在悉多身上。
7.97.22
साधुकारश्च सुमहान्देवानां सहसोत्थितः ।
साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ॥ ७.९७.२२ ॥
诸天之中忽然响起一片大声的“善哉!善哉!”:“善哉,善哉!悉多啊,你的德行正是如此。”
7.97.23
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।
व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥ ७.९७.२३ ॥
居于虚空中的诸天,见悉多入地,心中欢喜,便如此说出种种言辞。
7.97.24
यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।
राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ॥ ७.९७.२४ ॥
凡至祭场之诸仙人,以及人中虎般的诸王,都因惊叹而久久不息。
7.97.25
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।
दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ ७.९७.२५ ॥
天空与大地上,一切动与不动的众生,身躯巨大的达那婆,以及地下的诸蛇王。
7.97.26
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।
केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ॥ ७.९७.२६ ॥
有人欢呼雀跃,有人沉入禅定,有人注视罗摩,有人凝视悉多而失去知觉。
7.97.27
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।
तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ॥ ७.९७.२७ ॥
众人见悉多入场,便齐聚一处;那一刻,整个世界仿佛同样地被深深迷惑了。