Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.98

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.98.1

रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ।
चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ॥ ७.९८.१ ॥

当悉多(Vaidehī)进入地下世界时,所有猴子和仙人在罗摩面前齐声喊道:“好啊,好啊!”

7.98.2

दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः ।
अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥ ७.९८.२ ॥

罗摩倚着手杖,双眼被泪水模糊,低着头,心情悲伤,极度痛苦。

7.98.3

स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् ।
क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥ ७.९८.३ ॥

他长久地哭泣,一次次落泪;然后,被愤怒和悲伤所攫住的罗摩说出了这些话。

7.98.4

अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति ।
पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥ ७.९८.४ ॥

从未有过的悲痛似乎要攫住我的心;我眼睁睁看着悉多,如同化身的吉祥天女,消失了。

7.98.5

सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः ।
ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥ ७.९८.५ ॥

从前,悉多在大海彼岸的楞伽海岸消失,即便如此我也把她带了回来。何况现在是从大地之下!

7.98.6

वसुधे देवि भवति सीता निर्यात्यतां मम ।
दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥ ७.९८.६ ॥

哦,大地女神,请把悉多还给我;否则,我将向你显示我的愤怒,好让你认识我!

7.98.7

कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली ।
कर्षता हलहस्तेन जनकेनोद्धृता पुरा ॥ ७.९८.७ ॥

其实她是我的儿媳;属于你的弥提罗女子悉多,昔日是手持犁耙耕作的遮那伽从大地中拾起的。

7.98.8

तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ।
पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥ ७.९८.८ ॥

因此,请归还悉多,或者给我一道裂缝;我将与她一同居住在地底或天界之上。

7.98.9

आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते ।
न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥ ७.९८.९ ॥

你把她从我这里带来;我为弥提罗女子而在此。如果你不能把悉多以原来的样子在大地上归还给我……

7.98.10

सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् ।
नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥ ७.९८.१० ॥

我要粉碎整个大地,连同其中的山林,以及你所站立的地方。我要毁灭这片土地;让这里的一切都化为水。

7.98.11

एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते ।
ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥ ७.९८.११ ॥

当怀着愤怒与悲伤的迦കുത്സ്थ(罗摩)如此说话时,梵天与众天神一同对罗怙之喜乐(罗摩)说道。

7.98.12

राम राम न सन्तापं कर्तुमर्हसि सुव्रत ।
स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ॥ ७.९८.१२ ॥

罗摩,罗摩,持守善愿者啊,你不应当让自己悲痛。啊,折磨敌人的人,请想起你原本的本性和你的使命。

7.98.13

न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् ।
इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ॥ ७.९८.१३ ॥

大臂者啊,我确实不必向你提起这至上之事。难以战胜者啊,请想起此刻——想起你作为毗湿奴的降生。

7.98.14

सीता हि विमला साध्वी तव पूर्वपरायणा ।
नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥ ७.९८.१४ ॥

悉多确实纯洁而贞善,从前便专一于你。凭借依止于你的苦行之力,她欢喜地前往龙族之界。

7.98.15

स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ।
अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ॥ ७.९८.१५ ॥

在天界,你将与她再次相聚,此事无疑。但请听我在这次集会中所说的话。

7.98.16

एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ।
सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ॥ ७.९८.१६ ॥

此诗正是你的,被视为诗中至上者。罗摩啊,其中的一切都将被详细阐释,此事无疑。

7.98.17

जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् ।
भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ॥ ७.९८.१७ ॥

英雄啊,从你出生起的苦乐经历,以及此后将要发生的事——这一切都由蚁垤在此写成。

7.98.18

आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् ।
नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ॥ ७.९८.१८ ॥

罗摩啊,这部最初的诗篇全都奠基于你。罗伽瓦啊,除你之外,无人配得上诗歌的荣誉。

7.98.19

श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह ।
दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥ ७.९८.१९ ॥

罗摩啊,你以前已从我这里并与诸神一起听过这一切。它神圣、形貌奇妙、由真实之言构成,且无所隐蔽。

7.98.20

स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः ।
शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥ ७.९८.२० ॥

人中之虎啊,你在法中安住,乃迦古特斯特之后裔,请听这部《罗摩衍那》诗篇及其关于未来的余篇。

7.98.21

उत्तरं नाम काव्यस्य शेषमत्र महायशः ।
तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ ७.९८.२१ ॥

大名远扬者啊,此诗余下的末篇名为《后篇》。大光明者啊,请与诸仙人一同聆听那最为殊胜的部分。

7.98.22

न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ।
परमम् ऋषिणा वीर त्वयैव रघुनन्दन ॥ ७.९८.२२ ॥

迦古特斯特之后裔啊,这殊胜至上的部分不应由他人听闻,唯有仙人与你,英雄啊,罗怙之喜乐者,方可聆听。

7.98.23

एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ।
जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ॥ ७.९८.२३ ॥

说完这些话,三界之主梵天便与诸神及其眷属一同升往天界。

7.98.24

ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ।
ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ।
उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥ ७.९८.२४ ॥

在那里的梵天界大仙们,获梵天允许后便返回了,这些大力者原本渴望聆听末篇以及关于罗摩的未来之事。

7.98.25

ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् ।
श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ॥ ७.९८.२५ ॥

于是,具有至高光辉的罗摩听了神中之神所说的吉祥之言后,对蚁垤说道。

7.98.26

भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः ।
भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ॥ ७.९८.२६ ॥

尊者啊,梵界与人间的仙人们想要聆听;愿我的未来续篇明日开始。

7.98.27

एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ ।
तं जनौघं विसृज्याथ पर्णशालामुपागमत् ।
तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ ७.९८.२७ ॥

如此决定之后,他带着俱舍与罗婆,遣散了人群,便前往叶屋。他一直为悉多悲伤,那一夜就这样过去了。