蚁垤《罗摩衍那》 · 篇 7.99
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.99.1
रजन्यां तु प्रभातायां समानीय महामुनीन् ।
गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ॥ ७.९९.१ ॥
夜尽天明之时,罗摩召集大仙人,对他的两个儿子说:“放心地唱吧。”
7.99.2
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु ।
भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ॥ ७.९९.२ ॥
当各位大梵仙坐定之后,俱舍与罗婆歌唱了未来的续篇诗歌。
7.99.3
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा ।
तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ॥ ७.९९.३ ॥
悉多凭借真实的财富进入大地之后,在那场祭祀结束时,罗摩变得极为忧伤。
7.99.4
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।
शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ॥ ७.९९.४ ॥
因看不见毗提诃公主,他觉得这个世界空无一物;因悲伤而极度疲惫,内心得不到平静。
7.99.5
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् ।
जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ॥ ७.९९.५ ॥
遣散了所有国王、熊、猴子和罗刹,并以财物先行布施后,遣送了众多的婆罗门首领。
7.99.6
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ।
ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ॥ ७.९९.६ ॥
如此,罗怙之子依照规程完成了祭祀;然后遣散了所有人,那位莲花眼的罗摩。
7.99.7
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह ।
इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ॥ ७.९९.७ ॥
那时,他将悉多铭记于心,进入了阿约提亚。完成祭祀的人主,与他的两个儿子同在。
7.99.8
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ॥ ७.९९.८ ॥
罗怙子孙的喜悦者除悉多外不娶他妻。每次祭祀,都为妻子之位制作一尊金色的耆那吉像。
7.99.9
दशवर्षसहस्राणि वाजिमेघानथाकरोत् ।
वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ ७.९९.९ ॥
他连续一万年举行马祭,之后又举行十倍之多的瓦杰帕亚祭,并布施大量黄金。
7.99.10
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ।
ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ॥ ७.९९.१० ॥
这位荣耀者以阿耆尼澡摩与阿提罗特罗祭、以巨富的牛祭及其他祭仪奉祀,并施予足额的酬金。
7.99.11
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।
धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ ७.९९.११ ॥
就这样,那段漫长的时光在居于王国、努力践行法的大德罗怙之子身上流逝了。
7.99.12
अनुरञ्जन्ति राजानमहन्यहनि राघवम् ।
ऋक्षवानररक्षांसि स्थिता रामस्य शासने ॥ ७.९९.१२ ॥
每日,熊、猴与罗刹都侍立于罗摩的号令之下,使国王罗怙子孙欢喜。
7.99.13
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।
हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ॥ ७.९९.१३ ॥
时节一到,云雨降落;粮食丰足,四方清明。城邑与乡野充满了欢欣、健壮的百姓。
7.99.14
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ।
नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ॥ ७.९९.१४ ॥
罗摩治理国家之时,无人夭亡,众生无病,也没有任何灾祸。
7.99.15
अथ दीर्घस्य कालस्य राममाता यशस्विनी ।
पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ॥ ७.९९.१५ ॥
此后经过很长时间,荣耀的罗摩之母在子孙环绕中,走向了时间之法,即死亡。
7.99.16
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी ।
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ ७.९९.१६ ॥
荣耀的须弥陀罗与吉迦伊也随之而去;行了种种功德之后,她们安住于三界之天。
7.99.17
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ।
समागता महाभागाः सर्वधर्मं च लेभिरे ॥ ७.९९.१७ ॥
她们都欢喜地在天上与国王十车王相聚,那些大福之人获得了一切法的果报。
7.99.18
तासां रामो महादानं काले काले प्रयच्छति ।
मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ ७.९९.१८ ॥
罗摩为这些母亲,于适当的时候行大布施,以母亲之名,不分彼此,布施给婆罗门和苦行者。
7.99.19
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् ।
चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ॥ ७.९९.१९ ॥
德行高尚的罗摩为祖先举行极其艰难的祭祀,以婆罗门为珍宝,尊崇祖先与诸神。
7.99.20
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ।
यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ॥ ७.९९.२० ॥
如此,许多千年幸福地流逝,他始终以种种祭祀增益法道。