Vedyatra वेदयात्रा
搜索

奥义书 · Bṛhadāraṇyaka 5.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Bṛhadāraṇyaka 5.2.1

(दमदानदयेति त्रिकोपदेशब्राह्मणम्)
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः ।
देवा मनुष्या असुराः ।
उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दाम्यतेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ ५.२.१ ॥

这是三重教导的梵书:自制(dama)、布施(dāna)与慈悲(dayā)。普遍者的三个子女——天神、人类与阿修罗——在父亲生主(Prajāpati)处修梵行。修完梵行后,诸天说:“请为我们说法。”他对他们说了一个音节“da”。“你们明白了吗?”“我们明白了”,他们说。“你说:要自制。”“是的”,他说,“你们明白了”。

Bṛhadāraṇyaka 5.2.2

अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दत्तेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ ५.२.२ ॥

于是人们对他说:“请为我们说法。”他对他们说了同样的音节“da”。“你们明白了吗?”“我们明白了”,他们说。“你说:要布施。”“是的”,他说,“你们明白了”。

Bṛhadāraṇyaka 5.2.3

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दयध्वमिति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ।
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति ।
दम्यत दत्त दयध्वमिति ।
तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ५.२.३ ॥

于是阿修罗对他说:“请为我们说法。”他对他们说了同样的音节“da”。“你们明白了吗?”“我们明白了”,他们说。“你说:要慈悲。”“是的”,他说,“你们明白了”。这神圣的声音,即雷鸣的云,重复着“da da da”:要自制(damyata),要布施(datta),要慈悲(dayadhvam)。因此应当修习这三者:自制、布施与慈悲。