奥义书 · Chāndogya 3.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 3.5.1
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ ३.५.१ ॥
此太阳向上的光线,便是它上方的蜜脉。秘密的教导是酿蜜者;梵便是它的花。那些是不死之水。
Chāndogya 3.5.2
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.५.२ ॥
这些是秘密的教导。梵以苦行自热。从被加热者中生出了荣耀、光明、生命力、精力、食物与精华。
Chāndogya 3.5.3
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३.५.३ ॥
它流散开来,依附于太阳的四周。太阳中央那似乎在震动的,正是此物。
Chāndogya 3.5.4
ते वा एते रसानाꣳरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ३.५.४ ॥
这些是诸精华之精华。吠陀即是精华,而这些是它们的精华。这些是不死者的不死之物;因为吠陀是不死的,这些是它们的不死之物。